श्रीपूर्णमङ्गलेशसुप्रभातम्
नमः शिवाय पूर्णाय पूर्णमङ्गलवासिने ।
जागृहि त्वं महादेव! सुप्रभातमुपस्थितम् ॥ १॥
उत्तिष्ठोत्तिष्ट भगवन् विश्वमङ्गलसिद्धये ।
आकेकराक्षिकलया दासाननुगृहाण नः ॥ २॥
नमस्ते चन्द्रचूडाय नमस्ते शूलपाणये ।
नमस्ते नीलकण्ठाय नमस्ते विश्वमूर्तये ॥ ३॥
शम्भो सदाशिव, जगत्रयमङ्गलात्मन्
गङ्गाधर, प्रणत भक्तजनार्तिहारिन् ।
योगीन्द्रवन्दितविशुद्धपदारविन्द,
श्रीपूर्णमङ्गलपते तव सुप्रभातम् ॥ ४॥
पश्याभ्यपेति भगवन्, विमला विभात-
लक्ष्मीरियं विदधति स्तुतिगीतकानि ।
पूजासुमानि विकचानि सुसज्जयन्ती
श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ ५॥
प्राचीप्रसादसुमुखी भव, शुक्रदीप-
हस्ता हि तिष्ठति भवत्पदसेवनोत्काः ।
मन्दं च बीजयति वायुरयं भवन्तं
श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ ६॥
शैलास्तुपारविमलाम्बुकृताभिषेका
विद्योतमानतरुगुल्मजटाकलापाः ।
त्यध्याननिश्चलतमाः परितः स्फुरन्ति
श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ ७॥
एनं जगत्प्रकृतिपूजितपादपद्मम् ।
त्वं देवदेव, शितकण्ठमकुण्ठशक्तिम् ।
सेवामहे निखिलकामितसिद्धिहेतोः
श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ ८॥
हे विश्वनाथ, धनदस्तवपादसाद,
स्त्वं स्वीकरोऽपि भगवन्निव भिक्षुचर्याम् ।
निस्वार्थजीवितमुदाहरसि त्वमित्थं
श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ ९॥
तत्स्थानमद्य विदितं किल तण्डुलाद्रिः
सान्निध्यमत्र भगवंस्तव संविभाव्य ।
क्षेत्रं तवाथ निरमायि च विप्रवर्यैः
श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ १०॥
शास्ताम्बिकागणपतिश्च महाविभूम्नि
त्वद्धाम्नि यत्र सततं कृतसन्निधानाः ।
अन्वर्थनामकमिदं जयताद्विशुद्धं
श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ ११॥
शैलात्मजाललितलास्यकलानुविद्धं
स्वं ताण्डवं प्रकटयन् विबुधैर्नुतस्त्वम् ।
आनन्दरूप, नटराज, विधेहि शं नः
श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ १२॥
गङ्गाकलापशशिशेखर, तुल्यदृष्टे,
सर्वज्ञ, सर्वनुत, दीनजनैकबन्धो ।
त्वामेकमद्भुतवरित्रमुपाश्रयामः
श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ १३॥
त्रय्यात्मक, त्रिनयन, त्रिपुरान्तक; श्री-
गौरीपते, त्रिभुवनैकशरण्य, शम्भो ।
त्रायस्व नस्त्रिविधतापदवाग्निपातात्
श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ १४॥
यदीयताण्डवच्युतं यदङ्गसङ्गपावितं
विभूतिलेशमाप्य हा! महर्षयः प्रहर्षिताः ।
हृदन्तशान्तिमाधुरीमनन्तसौख्यदायिनीं
ददातु नो नटेश्वरः स पूर्णमङ्गलेश्वरः ॥ १५॥
दरिद्रभावदुःखितप्रमोददानदीक्षितो
मदान्धदैत्यसञ्चयप्रणाशकारिवैभवः ।
स्मरारिरन्तकान्तको विषाशनो दयानिधिः
ददातु शं महेश्वरः स पूर्णमङ्गलेश्वरः ॥ १६॥
गिरीन्द्रनन्दिनीप्रियं गिरीन्द्रमिन्दुशेखरं
गिरामगोचरं शिवं निरीहनित्यपूजितम् ।
भवाब्धितारकं भवं भजामहे भजामहे
ददातु शं महेश्वरः स पूर्णमङ्गलेश्वरः ॥ १७॥
नमोऽस्तु मुक्तिदायिने, मुनीन्द्रचित्तवासिने
नमोऽस्तु शूलधारिणे, विपद्धिमोक्षकारिणे ।
नमोऽस्तु पापहारिणे, महाकपर्दधारिणे,
नमोऽस्तु पूर्णमङ्गलप्रकाशिने, नमो नमः ॥ १८॥
सुप्रभातस्तोत्रमिदं ये शृण्वन्ति पठन्ति वा ।
तेभ्यो ददातु भगवान् भक्तिं सर्वार्थदायिनीम् ॥ १९॥
शक्त्या संसेव्यमानस्य पूर्णमङ्गलवासिनः ।
महेश्वरस्य कारुण्यात् ग्रामोऽयं वृद्धिमाप्नुयात् ॥ २०॥
इति श्रीवासुदेवन् एलयथेन विरचितं
श्रीपूर्णमङ्गलेशसुप्रभातस्तोत्रं सम्पूर्णम् ।