श्रीपञ्चलिङ्गस्तोत्रम्
ताम्रयुग्विलेपितं दिगम्बरोपशोभितं
वनभ्रमाद्विहारितं विडम्बिताण्डवं नटम् ।
धूम्रयुक्तलोचनं सधूम्रदिव्यभाषितं
महाप्रतिष्ठमुर्वितमेकाम्बरेश्वरं भजे ॥ १॥
ध्यायते सुनिर्गुणं सहायते सुरावलिं
हयायते चतुःश्रुतिं हरायते महाखलम् ।
लीयते चराचरं प्रभायते चतुर्यमं (च यामिनीं )
प्रीयते विशाखजम्बुनायकेश्वरं भजे ॥ २॥ (विशाखजमम्बुनायकेश्वरम्)
बाणभक्तवत्सलं कृपाणहस्तमण्डितं
करेण चैणधारिणं पुराणपौरुषाञ्चितम् ।
स्थाणुरूपरञ्जनं प्रमाणमग्निसेवनं
धुरीणलोकधारिणं च शोणनायकं भजे ॥ ३॥
निस्तुलप्रशस्तसुप्रशस्तनन्दिवाहनं
करस्थले धनञ्जयं भुजस्थले फणाधरम् ।
अस्थिमाल्यशोभितं पदस्थलं सुवायुसे-
वितस्थलप्रबोधकालहस्तिनायकं भजे ॥ ४॥
अम्बुजासनार्चितं विडम्बमानसोज्ज्वलं
कराम्बुजाम्बुधीश्वरं महाम्बुशक्तिधारिणम् ।
कुम्भिनीमहारथं च जम्भभेदिवन्दितं
त्रियम्बिकाधवं शिवं चिदम्बरेश्वरं भजे ॥ ५॥ (त्रिकुम्भिका)
वटविटपिसमीपे भूमिभागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेददक्षं नमामि ॥
॥ इति श्रीपञ्चलिङ्गस्तोत्रं सम्पूर्णम् ॥
एकाम्बरेश्वरम्, अम्बुनायकेश्वरम्, शोणनायकम्,
कालहस्तिनायकम्, चिदम्बरेश्वरम्
Proofread by Gopalakrishnan