पञ्चश्लोकी
(पञ्चश्लोकीस्तोत्रम्)
यत्सत्यं तु मया कृतं मम विभो कृत्यं तु नातः परं
यन्मन्मानसमैशपादकमले भक्त्या मयैवार्पितम् ।
सर्वस्वमत एवमेतदितरन्नास्येव जानाम्यत-
स्त्यक्तवा क्षिप्रमनाथनाथ करुणासिन्धो प्रसन्नो भव ॥ १॥
महेश त्वद्द्वारि स्फुरतु रुचिरा वागतितरां
ममैषा निर्दोषं जय जय महेशेति सततम् ।
शिवा सैषा वाणी भवतु शिवदा मह्यमनिशं
महेशानाथं मां शरणद सनाथं कुरु विभो ॥ २॥
ब्रूषे नोत्तमङ्ग पश्यसि न मामेतादृशं दुःखितं
विज्ञप्तिं बहुधा कृतां न शृणुषे नायासि मन्मानसे ।
संसारार्णवगर्तमध्यपतितं प्रायेण नालम्बसे
वाक्चक्षुःश्रवणाङ्घ्रिणादिरहितं त्वामाह सत्यं श्रुतिः ॥ ३॥
गुरोर्वाक्याद् युक्तिप्रचयरचनोन्मार्जनवशात्
समाश्वासाच्छास्त्रं प्रति समुचिताद्वपि कथितम् ।
विलीने शङ्काभ्रे हृदयगगनोद्भासिमहसः
प्रभोः सूर्यस्येव स्पृशतु चरणान् ध्वान्तजयिनः ॥ ४॥
यातस्त्वत्सहवासतो बहुतरः कालो वतास्मिन् क्षणे
किं किं वा न कृतं त्वया वरगुरूपासानिमित्तेन मे ।
वारं वारमहं पुनर्निरुपमां दिव्यं भुवं प्रासुव-
त्कायस्त्वां किल विस्मरामि यदतः स्थेयं न भूयस्त्वया ॥ ५॥
॥ इति श्रीअभिनवगुप्तपादाचार्यकृता पञ्चश्लोकी समाप्ता ॥
Encoded and proofread by Ruma Dewan