पराप्रवेशिका

पराप्रवेशिका

ॐ नमः पराशक्त्यै ॥ विश्वात्मिकां तदुत्तीर्णा हृदयं परमेशितुः । परादिशक्तिभेदेन स्फुरन्तीं संविदं नुमः ॥ var परादिशक्तिरूपेण इह खलु परमेश्वरः प्रकाशात्मा प्रकाशश्च विमर्शस्वभावः ॥ विमर्शो हि नाम विश्वाकारेण विश्वप्रकाशेन विश्वसंहरणेन चाकृत्रिमाहमिति विस्फुरणम् । यदि निर्विमर्शः स्यादनीश्वरो जडश्च प्रसज्येत । एष एव च विमर्शः - चिच्चैतन्यं स्वरसोदितापरावाक्स्वातन्त्र्यं परमात्मनो मुख्यमैश्वर्यं कर्तृत्वं स्फुरत्ता सारो हृदयं स्पन्द इत्यादिशब्दैरागमेषूद्घोष्यतेऽत एवाकृत्रिमाहमिति-सतत्त्वम् । स्वयम्प्रकाशस्वरूपः परमेश्वरः पारमेश्वर्यात् शिवादिधरण्यन्तं जगदात्मना स्फुरति प्रकाशते । एतदेवास्य जनार्तृत्वमजडत्वं च । जगतश्च कार्यत्वमऽप्येतदधीनप्रकाशत्वमेवैवम्भूतं जगत् प्रकाशरूपात् कर्तुर्महेश्वरादभिन्नमेव । भिन्नत्वे हि अप्रकाशमानत्वेन प्रकाशनायोगाद् न किञ्चित्स्याद् । अनेन च जगतास्य भगवतः प्रकाशात्मकं रूपं न कदाचिद्तिरोधीयत एतत्प्रकाशनेन प्रतिष्ठां लब्ध्वा प्रकाशमानमिदं जगदात्मनः प्राणभूतं कथं निरोद्धुं शक्नुयात् । कथं च रूपं तन्निरुध्य स्वयमवतिष्ठेत । अतश्चास्य वस्तुनः साधकमिदं वाधकमिदं प्रमाणमित्यनुसन्धानात्मकसाधकवाधकप्रमातृरूपतया चास्य सद्भावः । तत्सद्भावे किं प्रमाणम् - इति वस्तुसद्भावमनुमन्ये । तादृक्स्वभाववत्वे किं प्रमाणम् - इति प्रष्टृरूपतया च पूर्वसिद्धस्य परमेश्वरस्य स्वयम्प्रकाशत्वं सर्वस्य स्वसंवेदनसिद्धम् । किञ्च प्रमाणमपि यमाश्रित्य प्रमाणं भवति तस्य प्रमाणस्य तदधीनशरीरप्राणनीलसुखादिवेद्यं चातिशय्य सदा भासमानस्य वेदकैकरूपस्य सर्वप्रमितिभाजः सिद्धावभिनवार्थप्रकाशस्य प्रमाणवराकस्य कश्चोपयोगः । एवं च शब्दराशिमयपूर्णानन्ताहन्तापरामर्शसारत्वात् परमशिव एव षट्त्रिंशत्तत्त्वानि । कानि इत्याह ॥ शिवशक्तिसदाशिवेश्वरशुद्धविद्यामायाकलाविद्याकालनियतिपुरुष प्रकृतिमनोबुद्ध्यहङ्कारश्रोत्रत्वक्चक्षुर्जिह्वाघ्राण- वाक्पाणिपादपायूपस्थशब्दस्पर्शूपरसगन्धाकाशवायुवह्निसलिलभूमयः इत्येतानि षट्त्रिंशत् लक्षणानि । तत्र शिवतत्त्वं नाम इच्छाज्ञानक्रियात्मककेवलपूर्णानन्दस्वभावरूपः परमशिव एव ॥ १॥ अस्य जगत्स्रष्टुमिच्छापरिगृहीतवतः परमेश्वरस्य प्रथमस्पन्द एवेच्छाशक्तितत्त्वम् ॥ २॥ अप्रतिहतेच्छत्वात सदैवाङ्कुरायमाणमिदं जगत् स्वात्मनाहन्तयाच्छाद्यावस्थितं सदाशिवतत्त्वम् ॥ ३॥ अङ्कुरितं जगदिदन्तयावृत्यास्थितमीश्वरतत्त्वम् ॥ ४॥ अहन्त्वेदन्तयोरैक्यस्वरूपेषु भेदभावप्रथा माया ॥ ५॥ स्वस्वरूपेषु भेदभावप्रथा माया ॥ ६॥ यदा तु परमेश्वरः पारमेश्वर्या मायाशक्त्या स्वरूपं गृहयित्वा सङ्कुचितग्राहकतामश्नुते तदा पुरुषसंज्ञोऽयमेव मायामोहितः कर्मबन्धनः संसारी परमेश्वरादभिन्नोऽप्यस्य मोहः परमेश्वरस्य न भवेत् । इन्द्रजालमिव ऐन्द्रजालिकस्य स्वेच्छया सम्पादितभ्रान्तेः भ्रान्त एव र्विद्याभिज्ञातेश्वर्यस्तु चिद्घनो मुक्तः परमशिवः । अस्यैव सर्वकर्तृत्वं सर्वज्ञत्वं पूर्णत्वं व्यापकत्वं नित्यत्वं च । शक्तयोऽसङ्कुचिता अपि सङ्कोचग्रहणेन कलाविद्यारागकालनियतिरूपतया भवन्ति ॥ ७॥ तत्र कलानामस्य पुरुषस्य किञ्चित्कर्तृत्वहेतुः ॥ ८॥ विद्या किञ्चिज्ज्ञत्वकारणम् ॥ ९॥ रागो विषयेष्वभिष्वङ्गः ॥ १०॥ कालो हि भावनां भासनाभासनात्मकानां क्रमोऽवच्छेदको भूतादिर्नियतिर्ममेदं कर्तव्यमिति नियमनहेतुः ॥ ११॥ एतत्पञ्चकमस्य स्वरूपावरकत्वात्कञ्चुकमित्युच्यते । महदादिपृथिव्यन्तानां तत्त्वानां कारणं मूलप्रकृतिः । एषा च सत्त्वरजस्तमसां साम्यावस्था । अविभक्तरूपं मनः सङ्कल्पसाधनाबुद्धिः निश्चयसाधना अहङ्कारो नाम - ममेदं न ममेदमित्यभिमानसाधनम् । एतत्त्रयमन्तःकरणम् । शब्दस्पर्शरूपरसगन्धात्मकानां विषयाणां क्रमेण साधनानि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि । वचनादानविहरणविसर्गानन्दात्मक्रियासाधनानि परिपाठ्य वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणि । शब्दस्पर्शरूपरसगन्धसामान्याकाराणि पञ्चतन्मात्राणि । आकाशमवकाशप्रदम् । वायुः सञ्जीवनम् । अग्निर्दाहकः पाचकश्च सलिलमाप्यायनं द्रवरूपं च । भूमिर्धारिका कठिनरूपा च । एतत् सर्वम् । यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः । तथा हृदयबीजस्थं जगदेतच्चराचरम् ॥ इत्याम्नायरीत्या पराभट्टारिकारूपे हृदयबीजेऽन्तर्भूतम् । कथमित्याह ॥ - यथा घटशरावादीनां मृद्विकाराणां पारमार्थिकं रूपं मृदेव भवति । यथा वा जलादिद्रवजातीनां विचार्यमाणं व्यवस्थितं रूपं जलादिसामान्यमेव भवति तथा पृथिव्यादिमायान्तानां तत्त्वानां सतत्त्वं मीमांस्यमानं सदेव भवेद्, अस्यापि पदस्य निरूप्यमाणं स्वलक्षणं धात्वर्थव्यञ्जकं प्रत्ययांशं विसृज्य प्रकृतिमात्ररूपं साकारमात्रम् एवावशिष्यते । तदन्तर्गतमेकत्रिंशत्तत्वम् । अतः परं शुद्धविद्येश्वरसदाशिवतत्त्वानि ज्ञानक्रियासाराणि । शक्तिविशेषत्वात् ओङ्कारेऽभ्युपगमरूपे अनुत्तरशक्तिमये परमरहस्ये येऽन्तर्भूतानि । अतः परमूर्ध्वाधः सृष्टिमये तु विसर्जनीयः । एवम्भूतस्य हृदयबीजस्य महामन्त्रात्मको विश्वमयो विश्वोत्तीर्णः परमशिव एवोदयविश्रान्तिस्थानत्वान्निज स्वभावः । ईदृशं हृदयं बीजं तत्त्वतो यो वेद स्वात्मतया समाविशति च स परमार्थतो दीक्षितः प्राणान् धारयन् लौकिकवद्वर्तमानो जीवन्मुक्त एव भविष्यति ॥ var जीवन्मुक्त एव भवति, देहपाते परशिवभट्टारक वे भवति ॥ इति पराप्रवेशिकाकृतिरियं क्षेमराजस्य ॥ Proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Text title            : parApraveshikAkShemarAja
% File name             : parApraveshikAkShemarAja.itx
% itxtitle              : parApraveshikA (kShemarAjavirachitA)
% engtitle              : parApraveshikAkShemarAja
% Category              : shiva, major_works
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Indexextra            : (Scanned, English, Hindi 1, 2)
% Latest update         : October 20, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org