नागार्जुनकृता परमार्चनत्रिंशिका
अथ परमार्चनत्रिंशिका नागार्जुनकृता ।
स्नानपूजनसमाधिभिः क्रमा-
द्यन्महात्मभिरवाप्यते पदम् ।
कैश्चिदक्रमत एव यन्मया
तत्समर्चनमिषेण कथ्यते ॥ १॥
बालिकारचितवस्त्रपुत्रिका-
क्रीडनेन सदृशं तदर्चनम् ।
यत्र शाम्यति मनो न निर्मलं (न पूजने)
स्फीतचिज्जलधि मध्यमाश्रितम् ॥ २॥
किं तदर्चनमनल्प कल्पना-
जालशम्बरनिपातितात्मकम् । (निपातितात्मनाम्)
यत्र नास्ति सविकल्पनोज्झितः (स्वविकल्पनोज्ज्ञितः)
स्फीतसौख्यशिवसङ्गमोत्सवः ॥ ३॥ (स्फीतमौख्य)
अप्रयत्नमनिकेतनं पदं
दिव्यमाप्य मनसैव वृत्तयः । (दिव्यमाप्यतरसैववृत्तयः)
यत्र यान्ति विलयं न सर्वतः
किं तदर्चनमसौ पराभवः ॥ ४॥
यत्र वर्षति न खेचरी स्थिति- (ना)
श्चित्सुधारस भरौघनिर्झरम् ।
देहचित्तपरिपीडनावहं (दहं)
किं तदर्चनमसौ पराभवः ॥ ५॥
खेचरीप्रभृतिपञ्चकात्मना
व्याप्तिमम्बरगतां निभालयन् ।
हृद्विकाससुभगं भवापदो (हृद्विकाससुलभां)
यत्र मुञ्चति न किं तदर्चनम् ॥ ६॥
यत्र साहससमाधिसंश्रयः
प्रस्फुरद्विमलबोधनिर्भरः ।
स्फीतसंविदुदयं न विन्दते
सर्ववृत्तिषु किमेतदर्चनम् ॥ ७॥
विश्वसंहृतिरसैकतत्परो-
लेलिहानरसनाकुलोयमः ।
यत्र चिच्छिखिशिखा सुहूयते
लीलयैव न किमेतदर्चनम् ॥ ८॥
स्तब्धमन्थरमनोहरेक्षणः
प्रोल्लसत्पुलकचुम्बिताननः । (प्रोल्लसत्पुलकलम्बिताननः)
मध्यमां भुवमनल्प सम्पदं
यत्र नाश्रयति किं तदर्चनम् ॥ ९॥
मानमेयमिति कल्पनोज्झितो
निर्विकारमनिकेतनः शिवः ।
गाढगाढमवगाह्यते क्षणा-
न्नैव यत्र ननु किं तदर्चनम् ॥ १०॥
व्योमकल्पममितं निजं वपु-
र्वीक्ष्य चित्पर सुधार सञ्चितम् ।
स्वात्मनात्मनि निरस्तकल्पनो
यत्र हृष्यति न किं तदर्चनम् ॥ ११॥ (यत्र सुहृति)
निर्निकेतनिरुपाधि निर्मलं
स्फारचिद्रविमरीचिसञ्चयैः ।
विश्वमारचितमीक्ष्य विस्मयं (विश्वमारचितंवीक्ष्य)
यत्र नाश्रयति किं तदर्चनम् ॥ १२॥
यत्र नित्यपरहर्षनिर्भर-
श्चित्सुधार सनिपात घूर्णितः । (सनिपान)
ध्यानयोग कलनासु लज्जते
नीरसासु न किमेतदर्चनम् ॥ १३॥
शक्तिविस्तर विमर्श विस्फुरत्- (विमर्शा)
कन्द युग्मयुग पद्विगाहनात् ।
भैरवं वपुरुदारचेष्टितं
यत्र न स्फुरति किं तदर्चनम् ॥ १४॥
इन्द्रियेषु विषयानुवर्तिषु
प्राणवर्त्म॑नि निजप्रवाहके ।
कापि निर्वृतिमयी चिदूर्जिता
यत्र नोल्लसति किं तदर्चनम् ॥ १५॥
दिव्य खेचरदृशा निरीहया
नादबिन्दु मयभाव सञ्चयम् ।
यत्र शुष्कमिव पावकस्तृणं (?पावंकस्तृणं)
न क्षयं नयति किं तदर्चनम् ॥ १६॥
शान्तिमेति न विकल्पविप्लव-
श्चिच्चमत्कृतिरसो न वर्धते ।
लुप्यते न घनवासनावनं
कापि तृप्तिरसमा न जायते ॥ १७॥
मन्यते न कृतकृत्यतां मनो
द्वैतमेघतिमिरं न भिद्यते ।
यत्र दोषशत सङ्कुलं मनो
न प्रसीदति किमेतदर्चनम् ॥ १८॥
चिन्नभस्सरसि सारसीं परां
शक्तिमच्छविभवां प्रबोधयन् ।
मन्त्रवीर्यममितं निसर्गतो (?विसर्गतो)
यत्र नाश्रयति किं तदर्चनम् ॥ १९॥
निर्विकारमजरं निरामयं (निर्विकारजडं निरामलं)
निर्विकल्पममितं निजं वपुः । (निर्विकल्पममजरं)
वीक्ष्य जन्ममरणोदितं भयं (जन्ममरणोद्यितं)
यत्र मुञ्चति न किं तदर्चनम् ॥ २०॥
शान्तवीचिचयसिन्धुसन्निभां
सर्वसंविदुदयावनिं पराम् ।
सृष्टिसंस्थितिलय प्रशक्तिभि-
र्विश्व सुन्दर विवर्तवर्तिनीम् ॥ २१॥
शक्तिचक्र परमाधिदेवता-
मम्बरप्रथम भूमिकामजाम् ।
मङ्गलाम सममन्त्रमातरं (समन्त्रमातरं)
यत्र पश्यति न किं तदर्चनम् ॥ २२॥
सोमसूर्यदहनेन्धनोद्यत (दहन्नोद्धत)
स्फीतचिज्ज्वलन दीप्तिभास्वरः ।
दुर्निरीक्ष्यगतिरक्रमः शिवो (गतिरिद्वततेजसा)
भाति यत्र न किमेतदर्चनम् ॥ २३॥
आत्मनात्मनि न जानते विधिं
निस्तरङ्गपरबोधभास्वरः ।
यत्पदस्थितिजुषो महाजनः (महजना)
मुक्ति संसृति समान बुद्धयः ॥ २४॥
यद्यदा पतति वेद्यता भुवं
तेन तेन ननु यद्विवर्जितम् ।
नित्य निर्मल समाधिभूमयो
यत्पदे विमति बालकल्पनाः ॥ २५॥ (बालकल्पना)
यद्विशृङ्खलमहोदयोल्लसत्
शक्तिपातवशतो विजृम्भते ।
तत्पदं यदि गुरुप्रसादतो (तत्पदं गुरुप्रसादतो मया)
लब्धमुत्तम मथार्चितः शिवः ॥ २६॥
भावसञ्चय विमुक्तविग्रहा
विश्वमय्यपि परप्रथात्मिका ।
कापि संविदमलाम्बरप्रभा
जृम्भते यदि तदार्चितः शिवः ॥ २७॥
किञ्चनापि न विमुच्यते क्वचित्-
किञ्चनापि न च गृह्यते क्वचित् । (किञ्चिनापि)
स्वं वपुर्विमल बोध निर्भरं (बोध निर्मलं)
दृश्यते यदि तदार्चितः शिवः ॥ २८॥
भैरवा विविध कल्पनात्मकाः
प्रोल्लसन्ति बहवो ततोम्बिकाः । (यतोअम्बिका)
सा यतः स्फुरति तत्परं पदं
भाति चेद्गुरुदृशा शिवोर्चितः ॥ २९॥
आसादितं गुरुमुखादिदमप्रयत्न (प्रयत्नं)
सिद्धं शिवार्चनमपाप्मधियामवाप्यम् ।
यत्तन्मया निगदितं तदनल्पवाञ्छा
सम्बोधनाय सुधियां शिवभक्तिभाजाम् ॥ ३०॥
अनवच्छिन्न चिद्व्योम परमामृतबृंहितः ।
नागभिधोव्यधादेतां परमार्चनत्रिंशिकाम् ॥
इति श्रीमहामाहेश्वरनागविपश्चिद्विरचिता परमार्चनत्रिंशिका समाप्ता ।
In some prints, the 21st shloka is found at no. 29,
and the verse numbers are shifted then.
Encoded by Girdhari Lal Koul
Proofread by Girdhari Lal Koul, Ruma Dewan