॥ परशम्भुमहिम्नस्तवः ॥

शिवाभ्यां नमः परशम्भुमहिम्नस्तवः अनुक्रमणिका श्लोकसङ्ख्यासहितं १ उपोद्घातप्रकरणं प्रथमम् ॥ १॥ १८ २ पराशक्तिस्कन्धरश्मिप्रकरणं द्वितीयम् ॥ २॥ ७ ३ इच्छाशक्तिस्कन्धरश्मि प्रकरणं तृतीयम् ॥ ३॥ ८ ४ ज्ञानशक्तिस्कन्धरश्मिप्रकरणं चतुर्थम् ॥ ४॥ ६ ५ क्रियाशक्तिस्कन्धरश्मिप्रकरणं पञ्चमम् ॥ ५॥ १२ ६ कुण्डलिनीशक्तिस्कन्धरश्मिप्रकरणं षष्ठम् ॥ ६॥ ६ ७ मातृकाशक्तिस्कन्धरश्मिप्रकरणं सप्तमम् ॥ ७॥ १० ८ षडन्वयरश्मिविवेकस्कन्धप्रकरणमष्टमम् ॥ ८॥ ५ ९ पावकध्यानयोगप्रकरणं नवमम् ॥ ९॥ ११ १० महाविभूतिप्रकरणं दशमम् ॥ १०॥ १७ ११ अन्तर्यागोपाचारपरामर्शप्रकरणमेकादशम् ॥ ११॥ ८ १२ शान्तिप्रकरणं द्वादशम् ॥ १२॥ १२ १३ उपसंहारप्रकरणं त्रयोदशम् ॥ १३॥ २१ पूर्णस्तवश्लोकसङ्ख्या १४१
१. प्रथमं प्रकरणं उपोद्घात अनेकशक्तिसङ्घट्टप्रकाशलहरीतनुः । शुद्धसंविच्छिवः पायाद्विभुः श्रीपरमेश्वरः ॥ श्रीशम्भो ते महिम्नः स्तुतिपथरचिताः साङ्गवेदाः सशास्त्राः सिद्धान्ताः साङ्गविद्याः सचकितमतयो नैव पश्यन्ति पारम् । साद्यन्तास्त्वामनन्तं परमशिवगुरुं ते कथं वर्णयेयु- स्तस्मात्प्रज्ञानुसारादहमपि भवतः स्तौमि किञ्चिच्चरित्रम् ॥ १॥ क्वानन्दात्मप्रकाशस्तव परमहिमापारपीयूषसिन्धु- स्त्वद्भक्त्यामोदमग्नाः क्व च कविमधुपा ब्रह्मविष्णुप्रमुख्याः ॥ श्रीशम्भो मोहजृम्भो न जनयति परां स्वात्मवत्तां किमेत- च्चित्रं तद्वन्मयापि स्वमतिविभवतः स्तूयसे त्वं न दोषः ॥ २॥ श्रीमद्भिर्दृश्यभावैरहमहमिदमित्यात्मजृम्भाधिरूढै- र्नानारूपैः पदार्थैरनवधिविभवैराशुदेदीप्यमानः । सर्वातीतस्त्वमेकः परशिवचरण स्वप्रकाशात्मशम्भो नान्यस्त्वत्तः परोऽस्तीत्यहमिह गुरुणा त्वां स्वभावैरवैमि ॥ ३॥ आत्मैवैष स्वकीयो निरतिशयचिदानन्दसद्ब्रह्मपूर्णो जिह्मः संसारभावैरतिदुरधिगमैरात्तमायाविलासैः । सर्वात्मत्वादनन्तस्तव शिवमहसः श्रीगुरोः सत्यवाक्यैः निस्तर्कोपाधिभेदैः परमपुरुष ते तत्त्वमद्वैतमेति ॥ ४॥ दीक्षां यः शाम्भवीयां शिवगुरुविहितां दिव्यबीजागमोक्तां प्राप्य श्रीशम्मुतादात्म्यवितरणचणां जन्ममृत्युप्रभेत्रीम् ॥ भित्वा भेद्यं पशुत्वं परशिवचरणध्यानयोगेन पूर्णः स्वाघोरब्रह्मविद्याविदितपरपदं ब्रह्म स प्रैति विद्वान् ॥ ५॥ ब्रह्माण्डं पिण्डमेतत्पितरमिव सुतस्तत्समं नैकधर्मं विज्ञायाज्ञानमुक्तः शिवगुरुवचनैरात्मविज्ञानशान्तः । सर्वात्मैकप्रभोस्ते परशिवचरणाराधनासक्तचित्तो यः कोऽप्येकः स योगी जयति जनिमृती भो महामृत्युमृत्यो ॥ ६॥ पिण्डे षाट्कोशिकेऽस्मिन्नवविवरपुरे पञ्चभूतेन्द्रियाढ्ये पुंस्के स्त्रैणे च षाण्डे शिवगुरुवचनैरत्र विज्ञायसे चेत् । केनाप्यन्नासुचित्तप्रमितिनिरुपमानन्दकोशात्तराशि- स्त्वं षोढा भिन्नमूर्तिः परशिव स बुधो विश्वरूपत्वमीयात् ॥ ७॥ सर्वेश श्रीपुरेश त्रिभुवनभवनव्यक्तयः शक्तयस्ते- ंअन्ताद्याः श्रीपराद्या निरवधिविभवा मातृकान्ताः क्षकान्ताः । विज्ञाताः स्युः स्वरूपे यदि शिवगुरुणा विश्वदृश्यप्रपञ्च- स्वात्मज्योतिर्विलीनान्विदधति विदुषो योगिनः सैव मुक्तिः ॥ ८॥ या षोढा पञ्चधा च प्रकटितविभवा श्रीपरा देव शम्भो सैव श्रीसुन्दरीति श्रुतिभिरभिनुता चक्रराजासनस्था । सर्वत्रानेककोटिप्रकटितगणनायोगिनीर्व्यश्नुवाना त्वत्तेजोऽन्तर्निरूढा रचयति जगतामादिमध्यान्तकालान् ॥ ९॥ या शक्तिः पञ्चवाहप्रवहणलहरीव्यक्तनैजात्मतेजः संवर्ताग्निप्रपीतत्रिभुवनजलधिः कालसङ्कर्षणी ते । दिक्कालातीतमूर्ते परशिव महतां भक्तिभाजामविद्यां मृत्युं विज्ञानदानात्प्रहरति विदुषां तन्महत्वं त्वमेव ॥ १०॥ सर्वज्ञो नित्यतृप्तः सदसदुभयङ्गोऽनादिबोधः स्वतन्त्रो नित्या लुप्तात्मशक्तिर्निरुपमचरितोऽनन्त इत्यङ्गषट्कैः । षट्च्छक्तिव्यक्तभावस्त्वमिह यदि शिव ज्ञायसे देशिकोक्त्या येन स्वात्मन्यनादौ सकलविलसितं ते परायाः स भेदः ॥ ११॥ गायत्री वेदधात्री शतमखफलदा वेदशास्त्रैकवेद्या चिच्छक्तिं ब्रह्मविद्या परमशिव तव श्रीपरां व्याकरोति । शब्दब्रह्मैक्यवाच्यामखिलमतमिति व्यक्ततत्त्वामवाच्यां सप्तस्रोतोविभूतिं त्रिभुवनमयतां तत्त्वतः सर्वतुर्याम् ॥ १२॥ संसारासारभावप्रवहणचतुरामादिशक्तिं परां तां स्वात्माभिन्नां विदित्वा वपुरनुमतिभिर्नावृताहङ्कृतिस्थः । त्रैलोक्ये ब्रह्मविश्वप्रसरमनवधिस्वप्रकाशप्रपूर्णं ज्ञात्वा मुक्तः स योगी भवति गतभवस्त्वत्प्रसादान्महेश ॥ १३॥ विश्वेश स्वप्रकाशप्रसरमिह विना नान्यदस्तीति तत्त्वं मीमांसारूपमेतत्तव परमगुरो श्रीमुखाम्नायजालम् । स्वप्रत्यक्षं विहाय स्वरहितमिति चेदस्ति चान्यत्र तत्त्वं ये धीरास्तर्कयेयुस्त इह जनिमृतीराप्नुवन्त्यङ्गभारैः ॥ १४॥ न ब्रह्मा विष्णुरुद्रौ सुरपतिरमरा नासुरा नैव पृथ्वी नापोऽग्निर्नैव वायुर्न च गगनतलं नो दिशो नैव कालः । नो वेदा नैव यज्ञा न च रविशशिनौ नो वियन्नो विकल्पः स्वज्योतिः सत्यमेकं जयति तव पदं सच्चिदानन्दमूर्ते ॥ १५॥ शम्भो सैद्धान्तिका ये स्वमतिविभवतोऽखर्वगर्वाः प्रमाणैः मीमांसन्ते भवन्तं बहुमतजनकैरावृता शुद्धविद्यैः । अन्योन्यस्पर्धिनस्ते कथमिह भवतस्तत्त्वमीयुः स्वतेजः सर्वातीतं विकल्पग्रहरहितमजं मानतर्काद्यगम्यम् ॥ १६॥ धीराः केचिन्महान्तो गुरुवचनरतास्त्यक्तसंसारभावा निःशङ्काघोरविद्या परिणतमतयः सर्वसङ्कल्पमुक्ताः । त्वत्कारुण्याक्षिलक्ष्याः परमशिव भवत्साधकाः पुण्यपापैः कृत्याकृत्यैर्विहीनाः परपदविभवं त्वां प्रपश्यन्ति विश्वम् ॥ १७॥ सिद्धान्तः शाम्भवोऽयं शिवगुरुवचनाघोरविद्याक्षरोक्तः स्तोत्रव्याजेन निर्वाह्यत इति भवतः श्रीविभो चापलं मे । अत्र न्यूनातिरेकोक्तिजनितमसकृत्क्षम्यतां दासबुद्ध्या मच्चित्तस्थः प्रमेयं समुपदिश परं मातृकावर्णराशिम् ॥ १८॥ इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे उपोद्घातप्रकरणं प्रथमम् ॥ १॥
२. द्वितीयं प्रकरणं पराशक्तिस्कन्धरश्मि श्रीमद्रश्मिप्रभावं त्रिभुवनभवनव्यञ्जकस्वात्मदीपं को वा वक्तुं निरुक्त्या प्रभवति यतधीरात्तसम्यग्विमर्शः यत्र ब्रह्मादिविद्वन्मतिरपि विगतिर्याति भीत्या विनाशं श्रुत्या सार्धं स केन प्रविततमतिना वर्ण्यते ते महेश ॥ १॥ षण्णामप्यन्वयानां क्षितिजलदहनस्पर्शनाकाशचेतः- पीठस्थानां पराद्याः परशिव भवतः शक्तयो मातृकान्ताः । ब्रह्मादिप्रेतसिंहासनगतविभवैस्तावकीयैः षडङ्गैः द्वात्रिंशद्रश्मिमुख्याः स्वकिरणकरणव्याप्तविश्वैर्विभान्ति ॥ २॥ बुद्धेः सम्यग्विमर्शप्रकटितसरणेरर्थवद्वाक्प्रवृतेः यत्र स्थाने तुरीये नवकलितमहावाक्यतत्त्वे विनाशः । तत्किं ज्योतिस्तमो वा सदसदुभयगं किन्न्वमूर्तं नु मूर्तं निर्धारश्चेद्विनाशो न हि मतिवचसां देव तस्मात्परस्त्वम् ॥ ३॥ ज्ञानं योगः प्रकाशो विधिरुभयमतिर्देहधीः प्राणशून्या- हङ्कारश्चाधिकामः स्वविषयमनघं चाश्रयन्नन्तरास्ते । इत्यात्माकाशसत्ता तव परिविदिता सम्यगेतत्प्रमेया- धारेष्वन्तर्घृतं यत्पयसि तिलचये तैलवद्भासि हीश ॥ ४॥ षट्त्रिंशत्तत्त्वपुष्पस्तबकपरिमलस्तावकीयः स तेजः- कल्पद्रुश्चेत्प्रबुद्धः शिवगुरुवचसा सर्वतः स्वानुभूतः । अद्वैतब्रह्मबुद्धिं जनयति विदुषामेष एवास्मदादि- ब्रह्मान्तात्मप्रपञ्चे विलसति न परोऽस्तीति चेत्पारिजातः ॥ ५॥ स्वप्रत्यक्षेऽपि तत्त्वे करतलफलवद्वेत्ति नासौ स्वरूपं नानासिद्धान्तजालप्रलपितजनिताज्ञानमोहान्धकारैः । आक्रान्तः पुण्यपापैरधिगतनिधनैरात्मकर्मण्यनादौ हेयोपादेयबुद्ध्या भव इति विहितस्ते महामाययेश ॥ ६॥ एकोऽसौ लक्षणैश्चेदखिलतनुगतैरिन्द्रियार्थैरनेकैः भिन्नः स्वात्मप्रकृत्या विधिजनिमृतिभिः सन्निबद्धः किमेतत् । देवत्वं मानुषत्वं वपुषि मुजगतां सर्वजीवात्मकत्वं धत्से शैलूषवत्ते स्मरति न तु पदं श्रीमहादेवमूर्ते ॥ ७॥ इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे पराशक्तिस्कन्धरश्मिप्रकरणं द्वितीयम् ॥ २॥
३. तृतीयं प्रकरणं इच्छाशक्तिस्कन्धरश्मि सत्त्वं चित्त्वं महत्त्वं तव परमगुरोरात्मशक्तेः परायाः पिण्डीकृत्य प्रकृत्या प्रथमरतिपतिव्याजकालान्तवह्निः । भूत्वा संसारसृष्टिस्थितिलयनिलयाद्याति तोयार्णवान्तं तन्वानो निर्ममेच्छस्त्वमिह विजयसे विष्णुमायाविभूते ॥ १॥ मायायामन्तरस्थः कुसुमशररसस्तावकीयः स्वकाले ज्ञानज्ञेयप्रमातृप्रकटितमहिमा स्वप्ररोहप्रसारैः । उत्पाद्याद्यं विरिञ्चं तदनु भुवनतामात्मना व्यश्नुवानो बीजाकारः स्वयम्भूरिति कथयति ते नाम विश्वात्मसृष्टेः ॥ २॥। आदिक्षान्तार्णसृष्टिं त्रिभुवनभवनाभासभूमिं शिवादि- क्षित्यन्तात्मीयतत्त्वावलिविकृतगतिं वैधसाण्डान्तभूमिम् । आत्मीयानुत्तरेच्छागुणपरवशतां प्राप्य संव्यश्नुवानः श्रीशम्भो विश्वसृष्टिर्भवसि निजमलत्रय्युपप्रोषितात्मा ॥ ३॥ चत्वारः कालतत्त्वे तव युगपतयस्ते च धातुश्च पुत्राः व्याख्याता द्वादशैते स्थितिकृतिविदिताः सावताराः सदाराः । श्रीकण्ठाद्याश्च नाथा धृतयुगविधयस्त्वन्नियत्युत्थितान्ता- श्चैतन्या एव तस्मात्स्थितिरिति विदितस्त्वं सहस्रार्कदीप्ते ॥ ४॥ आत्मीयानादिरश्मीनिह भवजनितानेकसिद्धान्तजाल- व्यामोहोद्यद्विकल्पानृतनिजविषयान्पुण्यपापादिभेदैः । दुर्ज्ञेयान्देशिकोक्त्या प्रविमलवपुषि स्वप्रकाशैकवह्नौ स्वात्मत्वेन प्रबुद्धाञ्झडिति विजयते यस्त्वदात्माविरोधः ॥ ५॥ जाग्रत्स्वप्नप्रसुप्तिप्रकटितविभवैरात्ममायागुणैः स्वै- र्ज्ञानेच्छाक्रोधरूपैर्विधिहरिहरकैरावृते मोक्षमार्गे । पान्थाः केचित्सुधीराः शिवगुरुवचनज्ञानशास्त्राग्निदीप्ता- स्तवत्कारुण्यैकरक्षापरिविहितभियस्त्वां प्रयान्त्यादिमूर्ते ॥ ६॥ त्वं मायाकामदेवप्रथममसि ततः स्वस्य सृष्टौ विधाता रक्षायां विष्णुरन्ते प्रबलतरमहारुद्रमूर्तिः स्वमूर्तौ । सत्योऽनन्तः प्रमाता शिवगुरुरिति च स्वात्ममूर्तिप्रभावैः स्वेच्छावस्थागुणाढ्योऽप्यगुण इति विभो वस्तुतः स्तूयसे त्वम् ॥ ७॥ इच्छाशक्त्या ययैतत्कबलितमखिलं ते जगज्जालरूपं सृष्टिस्थित्यन्तवृत्या सरसि जलधरासारतुल्यात्मगत्या । सैवानन्तान्तरङ्गप्रसरबहुविधानेकसङ्कल्पभावै- राविर्भूत्वा त्वदैङ्गप्रकटनकृतये बोधसिन्धुस्त्वमेव ॥ ८॥ इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे इच्छाशक्तिस्कन्धरश्मि प्रकरणं तृतीयम् ॥ ३॥
४. चतुर्थ प्रकरणं ज्ञानशक्तिस्कन्धरश्मि संवेद्यं तत्त्वजालं परशिवधरणीमूलपारं विचित्रं कर्मानन्तप्रपञ्चं निरुपममहिमानादिमध्यावसानः । ब्रह्मानन्दामृताब्धिः समरसविधुना जृम्भितस्वात्मभासो हेतुत्वेन प्रबोधज्वलन तव महाज्ञानशक्तिं व्यनक्ति ॥ १॥ गोजं क्षीरं यथैकं द्युतिविविधगुणस्वेन्द्रियार्थप्रकाशोऽ- प्येकस्तद्वर्णनानारुचिरधिकरणस्यैकता कारणेन । नीलाद्याभासबुद्ध्या नभसि परिवृतो धूमभासैरिवाग्निः प्राचुर्येण प्रदीप्तः परमशिव ततः सत्यविश्वात्मकस्त्वम् ॥ २॥ नित्याखण्डप्रकाशादमलतरविभो त्वत्सकाशात्कदाचि- न्माया सञ्जायमाना त्रिगुणमुखगणव्यक्तशक्तिस्वभावा । सिद्धान्तैर्भिन्नमानप्रमितिभिरसुखैर्भेदबुद्धिप्रधानैः संसारित्वं प्रसार्य दृढयति भवतः सत्यतां वेदविद्या ॥ ३॥ अन्यः पक्षोऽथवात्र प्रविमलकलनानन्तशक्तिप्रकाशः सत्याख्यः सोऽपि यत्र प्रविलयमयते शून्यगर्ते तदात्मा । यौष्माकः सत्यभावः स च निजमहसां कामरूपात्ममाया- मुत्पाद्यैतत्प्रपञ्चं घटयति तदिदं व्यश्नुषे स्वात्मयोने ॥ ४॥ ऐक्याच्छिच्छक्तयोश्चेदिदमहमिति च द्वन्द्वभावस्य जीव- ब्रह्मादिद्वैतबुद्ध्योर्दिनकरशशिनोरण्डविध्यण्डयोश्च । प्राणापानाख्यवाय्वोः सुकृतदुरितयोः स्याद्यदा सामरस्य- प्रादुर्भावस्तदा त्वं भवसि सदसदानन्दनाथः परोऽग्रे ॥ ५॥ सेयं विज्ञानशक्तिस्तव शिवगुरुणा दर्शिता नित्यशुद्धा निर्द्वन्द्वब्रह्मतत्त्वं गमयति सुधियां सच्चिदानन्दपूर्णम् । लोके मेयप्रमातृप्रमितिभिरिति चेदर्थिता भिन्नमार्गाः मुद्रा नानास्वरूपाः प्रकटयति मुदाहङ्कृतिस्थाः परेश ॥ ६॥ इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे ज्ञानशक्तिस्कन्धरश्मिप्रकरणं चतुर्थम् ॥ ४॥
५. पञ्चम प्रकरणं क्रियाशक्तिस्कन्धरश्मि बुद्धिज्ञानेन्द्रियाणां निजनिजविषयास्वादभोगप्रबोध- क्षीराब्धिः प्रोद्यदिच्छामृतकरणरुचा वाङ्मुखक्षालितैश्च । सङ्क्रान्तश्चालितार्थप्रसरबहुपथः स्वात्ममायोरुपूर- त्रुट्यद्ब्रह्माण्डबिन्दून्विकिरति तव चेत्त्वं शिवातः क्रियात्मा ॥ १॥ सुष्टिस्थित्यन्तलीलावकलितसरणिर्यत्प्रयत्रो यदीयं धैर्यं विख्यातवीर्यं सकलमिति गता यस्य बुद्धिः समृद्धा । यत्सामर्थ्यं प्रभूतं निरवधिगणनाजाण्डरुद्राण्डभाण्डा- गारं यद्ब्रह्मसत्ता जयति तव मनोरूपविश्वात्मकत्वम् ॥ २॥ संवेशं दूरदेशं कलयति सकलं कर्मकृत्यं च तत्त्वं स्वं यद्बाह्येन्द्रियाणां चलनमपि विना स्वान्तमन्तःप्रकाशम् । तत्ते वीर स्वतन्त्रप्रकृतिनिगमनं निर्गतोपाधितर्कं बाह्याख्यादर्शनार्थं विमलशिव ततस्त्वं हृषीकाश्रयात्मा ॥ ३॥ यद्वन्न्यग्रोधबीजं पृथुतरविटपानोकहत्वेन रूढं सामर्थ्य दर्शयेस्त्वं परमशिव सदा सत्यविज्ञानबीजम् । इच्छाक्षेत्रे सुबुद्धीन्द्रियकुलकलितं सर्वतः स्वक्रियाभिः स्वात्मानं विश्वरूपं प्रकटयसि यदा त्वं तदा गोचरः स्याः ॥ ४॥ स्वात्माशेषाक्षवृत्तेः पृथगयनतया क्वापि भूतानि पञ्च क्वापि प्रेक्षाप्रपञ्चः क्व च निनदमुखाः क्वापि वाक्यादयश्च । एतैरेव प्रवृत्तो निजविषयतया सर्वविश्वात्मजृम्भ- स्तस्मात्त्वं लोकमुख्योऽद्वयमिति रहितः स्वप्रकाशप्रमेयः ॥ ५॥ कालावस्थाश्च तिस्रो गिरिश दश दिशः सप्तधा भूमिरापो नाना तेजः समीरा दश वियदखिलव्यापि चैकादशाक्षाः । भिन्नार्थानन्तबोधप्रकटितमहिमा बीजभेदास्त्वनन्ता- स्त्वत्सक्ता बीजजाताः स्वगुणमनुसरन्त्येव ते देव सत्त्वात् ॥ ६॥ पञ्चाशद्वर्णमाला बहुविधनिनदोच्चारणात्तत्त्वजाल- व्यक्तिव्यापारसक्ता गिरिश गुरुमुखाम्नायविद्यास्वरूपा । धात्राद्युत्पत्तिपूर्वं श्रुतिमुखविविधानेकसिद्धान्तविद्या नानाभाषाक्रियाभिः प्रकटयति ततः सैव ते साङ्गवेदान् ॥ ७॥ वर्णेभ्यो धातवः स्युर्विविधपदचयस्तद्भवस्तेन वाक्यं तस्माज्जातं प्रमाणं विविधनिगमनं तेन सिद्धान्तजालम् । तस्मान्नानात्मतत्त्वप्रकटनमिति यत्तत्त्वविद्या त्वदीया त्वं चेदेकोऽद्वितीयः क्रमरहितमहासंविदात्मा महेशः ॥ ८॥ यज्ञस्थानं श्मशानं सकलमिति गृहं भास्वदोङ्कारपीठं प्रादुर्भूतप्रयाणस्थलमिति विपुलं कल्पवृक्षाधिरूढैः । संवीतैर्भैरवैश्चोरगपतिगणपैस्तत्र दिव्यार्घ्यपात्रं वह्निबध्नेन्दुक्लृप्तं परशिव सकलं व्यश्नुषे स्वात्मना त्वम् ॥ ९॥ चित्पूजा दृक्क्रियात्मा गुरुकथितमहारुद्रमूर्तिः समन्ता- दात्मीयैरङ्गदेवैरधिगतविषयाज्याहुतिर्निर्विकल्पः । निष्कामैरात्मकामैरुपचितयजनश्चित्स्वतन्त्रैरतन्द्रै- रात्माग्नौ ब्रह्मविद्यापरिणतमतिभिः श्रीविभो हूयसे त्वम् ॥ १०॥ द्वैतं यत्रानघेध्मं पशुरधिपिशितो मृत्युरक्षाणि जिह्वा- हव्यं चाथ प्रबोधः प्रकटहुतवहो निर्मलात्मैव होता । अध्वर्युः स्वच्छचेतो गुरुमुखविदिता मातृकोद्गातृवर्गः स्वाचार्यो देशिकेन्द्रः परमखमुगसि त्वं परः शम्भुरीशः ॥ ११॥ यागाश्चान्ये सकामैः पशुभिरिह कृताः सर्वसिद्धान्तकृत्याः नानायज्ञक्रियाश्च त्रिभुवनभवने चित्रकर्मप्रसाराः । विश्वोत्पत्तिप्रतिष्ठाप्रहरणविधयः स्वक्रियाशक्तिबीजाः सञ्जाताः सर्वतस्त्वं प्रभवसि मनसा चित्रनिर्माणमूर्ते ॥ १२॥ इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे क्रियाशक्तिस्कन्धरश्मिप्रकरणं पञ्चमम् ॥ ५॥
६. षष्ठं प्रकरणं कुण्डलिनीशक्तिस्कन्धरश्मि नित्या लुप्तात्मशक्तिः सकलतिथिफणापञ्चदश्या प्रदीप्त- स्त्रुट्यादीन्कालवायून्ग्रसदुरुरसनश्चक्रवल्मीकवर्ती । सम्यक् चैतन्यगुम्फैरवगतकिरणो विश्वजृम्मैकभर्ता कृष्णाध्वार्केन्दुयोनिर्भुजगपतितनुस्त्वं ततः कुण्डलीशः ॥ १॥ स्वस्थात्मा चित्तपूर्वं रविशशिपदवीं पूरितांशुप्रचारां दीपान्तर्वह्निवेधैरविततगतिभिर्बोधिताधारशक्तिम् । तत्तच्चक्रप्रभेदोद्भवविविधमहाशब्दरूपामनन्त- ब्रह्मानन्दप्रवाहामनुभवसि परामादिसौषुम्णमूर्ते ॥ २॥ यस्मात्प्राणः प्ररोहत्युपरिगतिरधः सम्प्रधावत्यपान- स्तस्मादेवाविरोधात्तदुभयजनिकृद्वायुसंरोधमात्रात् । विद्याविद्यादियुग्मप्रसरसमरसाम्भोधिजृम्भैरदम्भैः सार्धं हंसः परस्मिन्महसि खलु लयं प्रैति ते प्राणसूत्रः ॥ ३॥ सर्वेषामिन्द्रियाणां निजनिजविषयोद्योतनं यत्प्रसूतं साराः सर्वेषु कर्मस्वनुपमविषयाः साध्वसानन्दकोपाः । यज्जाताः सर्वनाडीपथचलदनिलव्याप्तयः सर्वभावाः नानारूपाश्च सर्वायनपथिकमहास्पन्दकः स त्वमेव ॥ ४॥ बुद्ध्वा सद्देशिकोक्त्या सुविदितविभवां खेचरीं दिव्यमुद्रा- मर्थानन्तप्रपञ्चान्वितनिजकरणान्यात्मचित्ते निरुध्य । तच्चित्तं ज्योतिरङ्गं निरवधिकरणं चिन्तयेद्यः स योगी निर्वाणः कृष्णवर्त्मा भवति तव महास्पन्दतामेत्य शम्भो ॥ ५॥ प्राणाख्या कुण्डलिन्या जगदिदमखिलं प्राणितं ते ययेश ज्ञात्वा यां योगिनस्ते परतरमभयं यान्ति शान्तं पदं तत् । यामज्ञात्वा भवाब्धौ जननमरणकृत्क्रूरकर्मप्रबद्धा मज्जन्त्याद्यन्तहीना यदि कृपयति सा मोचयेन्मृत्युबन्धात् ॥ ६॥ इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे कुण्डलिनीशक्तिस्कन्धरश्मिप्रकरणं षष्ठम् ॥ ६॥
७. सप्तमं प्रकरणं मातृकाशक्तिस्कन्धरश्मि अज्ञातं ब्रह्मतत्त्वं निजहृदयदरीलीनमात्मप्रकाशं व्यक्तीकर्तुं स्वनित्याक्षरविदितमहामातृकात्वं प्रपन्नः । त्वं दिव्याम्नायविद्या सुविदितमहिमानन्तशक्तिप्रकाश- स्तत्तद्वर्णात्मभेदैरुपदिशसि पदं श्रीगुरो स्वस्वरूपम् ॥ १॥ श्रीशब्दब्रह्ममूर्ते सकलरवमयानाहतध्वानभेदा- नात्मीयानक्षरस्थान्बहुविधनिनदैर्भूरिवाद्यप्रभेदैः । भैरीनिः साणघण्टादरमुरजमहाशृङ्गनालोरुतालै- र्वशैर्यन्त्रैश्च गात्रैर्जलधरपटलैस्त्वं ब्रवीषि ध्वनिज्ञः ॥ २॥ तत्त्वानां व्यक्तिहेतुः सकलतिथिगतः सप्तपुर्यष्टकाङ्ग- स्त्रीपुंसद्वन्द्वरूपो द्युमणिशशिमहावह्निपादः षडात्मा । सर्वाभिप्रायसंवित्प्रकटितविभवस्त्वं महाम्नायविद्या- सारस्फारस्वरूपः पुरुष इति ततः सोऽक्षरात्मादिवर्णः ॥ ३॥ रम्योदात्तानुदात्तस्वरितविकृतिगः प्रोच्चनीचोभयस्थो भेदादष्टादशात्मा महितनिजमहास्फूर्तिरेकोऽक्षरादिः । षड्जादिग्रामजातश्रुतिविततलसद्गीतसप्तस्वरोद्य- न्नानारागान्प्रबन्धानधिवसति भवानादिनित्यस्वरात्मन् ॥ ४॥ सर्वास्यस्थानवर्णः प्रथमविगणितस्त्वं स्तुतः षोडशीति स्वेच्छाशक्त्या निरूढद्रढिमनिजमहाप्रौढिमाढौकमानः । कालव्यक्तस्त्रिलिङ्गिन्निजगतिविलयान्ह्रस्वदीर्घप्लुतादीन् विद्याविद्योभयात्मा जनयसि परितः श्रीमहावर्णजात्मन् ॥ ५॥ पक्षद्वन्द्वैककर्तावनिजलहुतभुङ्मारुताकाशमूर्ते श्रोत्राद्यक्षाणि सर्वाण्यधिगतचरणः स्वप्रकृत्या निबद्धः । अन्तस्थो विश्वरूपः पुरुष इति यतो ज्ञायसे स्वक्रमेण ज्ञाता वर्गाक्षराणां परमशिव जनैस्त्वं ततो वर्गजोऽसि ॥ ६॥ सर्वातीतात्मधामानलनिलयपदज्ञापिका मन्त्रविद्याः सत्याभिप्रायबुद्ध्या शिवगुरुवदनाम्भोरुहाद्भासमानाः ॥ नानार्था धातवश्च प्रकटितविभवाश्चित्रवाग्ब्रह्मवेदाः सर्वं नश्यद्विना त्वां परशिव सहजं वर्णसंयोगरूपम् ॥ ७॥ ओङ्कारं स्वात्मवास श्रुतिभिरभिनुतं वाग्भवं शक्तिबीजं माबीजं स्मारबीजं परतरविभवं मातृकाबीजयुग्मम् । शैवान्त्य चापि गत्वा षडयनविलसत्कूटषट्कं च भित्वा हंसः सोऽहं तथा त्वं विरमसि मनसामन्तरे मन्त्रमूर्ते ॥ ८॥ बिन्द्वेन्दोरूर्ध्वनादैरवकलितकलाव्याप्तिभिः साधिदेवै- र्नानानन्ताधिदेवैः परिणतिसुलभैः श्रीगुरूक्तागमस्थैः । न्यासैर्विद्याविशेषैः श्रुतिमुखविविधानेकसिद्धान्तमन्त्रैः विष्वक्प्रोतप्रतीको दहसि भवमघं दुष्प्रभामन्त्रवह्नौ ॥ ९॥ वर्णास्ते मन्त्रविद्या दशविकरणगा धातवो नित्यशब्दाः वाक्यान्याम्नायभेदा बहुविधमतजाः साङ्गवेदाश्च भाषाः । नानाच्छन्दांसि तालाः स्वरविकृतिगुणाः सर्वतो वाङ्मयस्थाः नानारूपाः पराग्नेः समजनिषत ते मातृकाशक्तिबीजात् ॥ १०॥ इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे मातृकाशक्तिस्कन्धरश्मिप्रकरणं सप्तमम् ॥ ७॥
८. अष्टमं प्रकरणं षडन्वयरश्मिविवेकस्कन्ध एवं रात्रिन्दिवस्थाः परशिवघटिका एव ते रश्मिभूताः स्त्रीपुंसद्वन्द्वरूपा रविशशिचरणाक्रान्तयो रक्तशुक्लाः । षट्छक्त्यंशप्रभेदा दहरपुरयुगे कोणषट्कान्तरस्थाः कालावस्थाश्चतुर्भिः प्रविदधति युगैर्विश्वभूतैर्निदानैः ॥ १॥ षट्त्रिंशत्तत्त्वमालामवनिमुखशिवान्तामुपेतात्मवृत्तिं खे वायौ सप्तविंशत्युडुगणविकृतीर्जीवमाया शिवांशात् । तेजस्थाः स्वान्तरात्मान्तरतनुविकृतीरस्थिमांसप्रमुख्याः क्षोण्या त्वं जीवमायागुणगणमभितो भासयस्यंशुमालिन् ॥ २॥ यावन्तस्थे मयूखाः क्षितिजलदहनस्पर्शनाकाशचेतः पीठस्थाः षट्प्रमाणाः परमधिपतयो भैरवा एव सर्वे । तेषां मध्ये त्वमेकः परतरमहिमोज्जृम्भमाणः प्रचण्डो मार्तण्डो रश्मिमध्यस्थित इव परितो भासि चिद्भैरवाग्ने ॥ ३॥ भैरव्यो रश्मिदेव्यस्तव शिव करुणापूरिताक्षाः प्रसन्ना- स्त्वत्सत्ताकाशवाहोदितनिजगतयश्चर्वितात्मार्थकृत्याः । तद्धामन्येव शान्ताः सुरमुनिपितृभिः पुण्यपापैश्च बद्धान् भक्तांश्चानेकबाधाञ्झटिति विघटयन्त्यात्मबोधाग्निजृम्भैः ॥ ४॥ श्रीनाथ श्रीपरेशेश्वर परशिव ते दिव्यदिव्या मरीची- र्ब्रह्मादीनां मनोवागनवगतमहाचित्रनानार्थरूढाः । गूढप्रौढप्रकाशाः सुरमुनिवचनैरप्यबुद्धाः कथं वा स्तोतुं ज्ञातुं समर्थो भवति कविजनः कोऽत्र मन्दो नृमात्रः ॥ ५॥ इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे साधारण्येन षडन्वयरश्मिविवेकस्कन्धप्रकरणमष्टमम् ॥ ८॥
९. नवमं प्रकरणं पावकध्यानयोग साङ्गा भूमिः शताङ्गः शतधृतिरपि तत्सारथिः सप्तयस्ते वेदा ब्रह्मैकवेद्याः पृथुतरचरणौ पुष्पवन्तौ तदक्षः । मरुस्तत्कीलबन्धः कमठपतिरिभास्तत्पृथुस्तम्भपङ्क्तिः शेषस्तद्रज्जुबन्धस्तदुपरि पितृभूस्तत्र चिन्त्यो रथी त्वम् ॥ १॥ कल्पान्तानन्तसूर्यद्युतिमति विकटानेकदंष्ट्रं षडास्यं वह्नीन्द्वर्काम्बुकाष्ठादशयुतमभितः प्रज्वलन्तं मयूखैः । शूलासीषूग्रशक्त्यङ्कुशवरनृशिरः श्रीफलेष्वासनारि द्योतत्पाशाभयाङ्कैर्निजमुजपरिघैस्त्वां गुरुं शम्भुमीडे ॥ २॥ नागास्थीन्दुप्रसूतैः श्रवणगतमहाभूषणैः कुण्डलीन्द्रै- राक्रोशन्मुण्डमालापरिवृतवपुषा दिक्षु जाज्वल्यमानम् । मत्तेभेन्द्रोरुकृत्त्यन्तरघटितकटीमण्डलं साट्टहासं तं भास्वद्व्योमगर्भोदरविधृतकराङ्मुष्ठमात्रं प्रपद्ये ॥ ३॥ नागेन्द्रैः कल्पवृक्षैरधिगतविहगैर्भैरवैर्देवदैत्यैः भूतैः प्रेतैः पिशाचैः परिवृतमभितो योगिनीभिः श्मशाने । सर्वप्रज्ञैकवासं त्रिभुवननिलयं स्वात्मनाध्यात्मदीप्तं सर्वोत्तीर्णात्मतत्त्वेश्वरमनलमुखं त्वां गुरुं शम्भुमीडे ॥ ४॥ नानाध्यानात्मयोगप्रकटितशिवतासिद्धरूपप्रसादः स्वेच्छाज्ञानक्रियात्मत्रिशिखविदलितत्रय्युदीर्णप्रमोहः । सत्यज्ञानासिभिन्नप्रमितिजनिरिपुः स्वात्मयोगेषु धारा- च्छिन्नाविद्यासु लक्ष्यः परमशिव विभो तेन मृत्युञ्जयस्त्वम् ॥ ५॥ देव ब्रह्माण्डसृष्टिस्थितिलयसमयध्वंसिनी ते त्रिशक्ति- र्मायाशक्तिप्रचण्डोद्घतघनकरिणी वारिणी सा सृणिस्ते । धर्मार्थात्मेष्टमुक्तिप्रवितरणचणस्ते वरस्तेऽप्यभीति- र्विश्वग्रासोग्रमृत्युप्रतिभयदलिनी तद्भवान्मृत्युमृत्युः ॥ ६॥ पाशस्ते विश्ववश्यः पितृपतिकृतभिर्हस्तिनी-सिंहवृत्ति- श्चक्रः संसाररात्रिद्युमणिसमुदयस्तावकस्ते पिनाकः । आक्रान्ताशेषमोहप्रकृतिविकृतिमहामातृकाचित्परात्मा प्राणास्ते तत्कपालं हतविधिमुखसत्प्रेतचिद्रूपमीश ॥ ७॥ एवं ते दिव्यदिव्यायुधपरमहिमा गीयते वेदशास्त्रैः प्रागुक्तस्ते शताङ्गोऽप्यपि च पितृगणप्रेतशीर्षोच्चरङ्गे । उच्चण्डं ताण्डवं ते त्रिभुवनभयकृद्वज्रपाताट्टहासो भीषास्मात्त्वत्सकाशादपार इव परो नास्ति तेनोग्रवीरः ॥ ८॥ चित्ताकाशानिलाग्न्यम्ब्ववनितलपतिप्रेतसिंहासनस्थः षट्च्छक्तिव्यक्तमूर्तिः षडयनपथिकः सोमसूर्याग्निपादः । ब्रह्माग्निः सप्तजिह्वाकबलितविषयीभूतविश्वप्रपञ्च- स्थूलोऽपि ध्यानदृष्टेस्त्वमधिकतमसां ज्योतिषामप्यगम्यः ॥ ९॥ इत्युक्तध्यानचिन्त्योऽप्यनवगतमनोवाक्प्रवृत्तिस्वभावः स्वच्छन्दात्मीयसत्ता चिदुचितविभवः पावकः शम्भुरूपः । सर्वातीतस्वभावोऽप्युपनिषदुदितज्ञानमीमांस्यमानः सत्वं यस्यान्तरङ्गे निवससि स शिवस्त्वन्मयः स्यान्महेश ॥ १०॥ श्रीमानप्यादिभिक्षुस्त्रिभुवनजनकोऽप्यात्मभूरागमोक्ति- व्याख्यावेद्योऽप्यवाचः प्रकृतिसुविमलोऽप्यात्ममायाविलासः । तत्त्वादेकोऽप्यनेकः परयुवतिरतोऽप्यात्मवित्सेव्यमानः तस्मात्स्वच्छन्दलीलस्त्वमिह विजयसे मानसीं भाववृत्तिम् ॥ ११॥ इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे पावकध्यानयोगप्रकरणं नवमम् ॥ ९॥
१०. दशमं प्रकरणं महाविभूति द्रष्टव्यस्त्वं जगद्भिर्बहुविधविधिभिः सर्वसिद्धान्तवाक्यैः श्रोतव्यो निर्विकल्पः शिवगुरुवदनाम्भोरुहेण प्रबुद्धः । मन्तव्यः सर्वतत्त्वावकलितचरणस्तन्निदध्यासितव्यः सत्तामानावलम्बीत्यमरनुतपदो नास्ति देवस्त्वदन्य ॥ १॥ उग्रं शान्तं च वीरं सकलमयमहाविष्णुमग्निं ज्वलन्तं सर्वत्रानन्तवक्त्रं नरमृगवपुषं भीषणं सर्वभद्रम् । सर्वज्ञं मृत्युमृत्युं बहुविधनुतिभिर्वन्दितं सर्वलोकैः विश्वाहङ्कारजृम्भं परमशिव गुरुं त्वां भजे मन्त्रराजम् ॥ २॥ शम्भो त्वां भूर्भुवःस्वर्महरुदिततनुं त्वन्तरिक्षद्युसूर्या- रज्ञाचार्येन्दुशुक्रार्किभिरपि निगमब्रह्मभिः प्रोतशक्तिम् । प्राणापानादिभेदैः कलयति सकलं मानसं ध्यानयोगं येषां तेषां सपर्या भवति सुरकृतब्रह्मता योगिता च ॥ ३॥ सर्वोत्कृष्टं परं तत्सवितुरनुपमं ते वरेण्यं शरण्यं भर्गो देवस्य धीमह्यभिदधति धियो यो न इत्यौर्वतेजः । तुर्यं सर्वाणिभूतान्यधिगतममलं सर्वतो दृक्क्रमाद्यं ध्यायामि ध्येयमन्तःकरणसुनियतैर्योगिभिः श्रीमहेश ॥ ४॥ कालोऽनन्तो युगात्मा शिव दिवसनिशापक्षमासास्तथाब्दाः तद्भेदाः षडृतुस्थास्तदनुगतजगत्सर्ववृत्तान्तभेदाः । नानायज्ञक्रियाश्च त्रिदशदितिसुता मानुषाः सर्वनागाः योगीन्द्रा जीवसङ्घास्तव चरणबिलं यान्ति जन्मान्तमध्यात् ॥ ५॥ भूतं भव्यं भविष्यत्त्रिभुवनभवने षण्महाशक्तिभिस्त्वं तत्सर्वं व्यश्नुवानो विचरसि कलितः सृष्टिगत्यन्तकामैः । देवैर्दैत्येर्मनुष्यैरुरगपतिकुलैः सर्वजीवप्रसारै- रात्मीयैश्चित्रिताङ्गः शिव भवतमसः सूर्यभास्त्वं परस्तात् ॥ ६॥ श्रोता स्पर्शी निजरसरसिकः सर्वगन्धान्तरज्ञो वक्ता कर्ता च गन्ता त्रिभुवन भवतो विश्वसर्गः प्रमोदी । कामी मीमांसकश्च प्रथितशुचिशिखासप्तकव्याप्तविश्वो बोद्धा स्वार्थाननन्तानधिगतचरणः सर्वतस्त्वं शिवोऽसि ॥ ७॥ सर्वार्थी सर्वनामा सकलकुलपतिः सर्वलोकाङ्गनेशः शृङ्गारी सर्वभोगी नवरसररसिकः प्राज्यसाम्राज्यभोक्ता । त्रैलोक्ये वाक्प्रपञ्चे प्रवचनपठितः सोमयाजी च यज्ञः संसारी कामचारीत्यनुवदति जनो यः स धन्यः शिव त्वाम् ॥ ८॥ क्षेत्रं क्षेत्रप्रमाता शिवगुरुवदनाघोरविद्याधिदेवो मन्त्रो मन्त्राधिदेवो मखविधिरनघो योगयोग्यः पदार्थः । त्वं दर्शः पूर्णमासः परिधिरपि मखाचार्यवर्यश्च होतो- द्गाताध्वर्युश्च हव्यं त्रिविधहुतवहस्त्वां विना नास्ति शम्भो ॥ ९॥ क्षेत्रज्ञाः सर्वदेवाः सुरनरभुजगाः सर्वजीवाश्च तच्च क्षेत्रं ब्रह्माण्डरूपं त्रिभुवनभुवनव्यापकं चित्ररूपम् । एतावद्व्याप्य तत्र स्थितमखिलजगद्भक्तभोक्तारमग्निं ज्ञात्वा षट्च्छक्तिभिस्त्वां परमशिव महामृत्युमत्येति विद्वान् ॥ १०॥ उक्तक्षेत्राधिदेवे परतरपुरुषे त्वय्यनन्तस्वरूपे दिव्याम्नाया गुरूक्ता निजनिजनियतिस्फूर्तयः सर्ववेदाः । साङ्गोपाङ्गाश्च शास्त्राण्यधिगतमहिमान्योन्यसिद्धान्तविद्या भाषा स्वार्थैर्विभान्ति त्रिणयन भवतो विश्वमूर्ते परः कः ॥ ११॥ मूलं व्योमैव वायुज्वलनजलधरा मध्यमं यस्य शाखा देवाः पर्णानि दैत्याः किसलयनिचयाः मानुषाश्च प्रतानाः । नागाः पुष्पाणि जीवा बहुविधतनवो पक्वसस्यप्रबोधो विश्वन्यग्रोधकद्रोः परमशिव भवान् बीजभूतो विभाति ॥ १२॥ मायारूपेण कालो जननमरणकृत्सर्वजीवाङ्गवृत्ते- र्विद्यारूपेण कालान्तक इति विनुतः स त्वमेवापरो न । देहाहङ्कार एवान्तक इति गुरुणा यः प्रविज्ञाय मायां जागर्त्यात्मप्रबोधे शिव तव कृपया सोऽत्र मृत्युञ्जयः स्यात् ॥ १३॥ त्वं नाथस्त्वं गुरुस्त्वं परपदजनिताम्नायविद्यार्थकोश- स्त्वं शम्भुस्त्वं परेशः परतरमहिमा त्वे परा त्वं पराग्निः । त्वं भानुस्त्वं सुधांषुस्त्वमपि च जननी त्वं पिता त्वं सुमित्र- स्त्वं भ्राता बान्धवस्त्वं त्वमसि धननिधिस्त्वां विना नास्ति मेऽन्यः ॥ १४॥ शब्दार्थाधारभूतं त्रिभुवनजनकं सर्वतो दिक्सतत्त्वं त्रैलोक्यस्थायि लिङ्गत्रयविदितपदं सर्वतत्त्वैकवेद्यम् । सर्वानिर्वाच्यसत्तागतपरविभवज्योतिरुज्जृम्भमाणं व्यक्तीकृत्यात्मवर्णैः प्रकटयसि परं तत्त्वमात्मीयमग्रे ॥ १५॥ त्वं विश्वं विश्वहेतुर्विरहित करणे विश्वकार्यैककर्ता विश्वातीतश्च विश्वेश्वर इति बहुधा निश्चितश्चाक्षरज्ञैः । अद्वैतात्मप्रबोधानलबहुलशिखाचर्वितत्मीयहव्यः श्रीशम्भो विश्वसत्ता परतरवियति पैषि निर्वाणपूजाम् ॥ १६॥ एवं यः स्तौति भूतिं त्रिभुवनमहतीं विष्वगाश्चर्यचर्या- मन्तर्बाह्यागमोक्तिप्रविनुतविभवामादिमध्यान्तहीनाम् । सौम्योग्राकारदेवासुरनरभुजगानेकजीवप्रभेदो- त्पत्तिस्थित्यन्तभूमिः स भवति जगदाश्चर्यवानेव शम्भो ॥ १७॥ इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे महाविभूतिप्रकरणं दशमम् ॥ १०॥
११. एकादशं प्रकरणं अन्तर्यागोपाचारपरामर्श का पूजा पूजकः कः शिवगुरुरिति कः को विधिः कश्च मन्त्रः किं पीठं किं प्रसूनं किममलसलिलं केऽत्र सर्वोपचाराः । निर्द्वन्द्वस्यात्मनस्ते द्वयमिति रचितं सर्वमेतत्कथं स्या- त्सन्तोषार्थे महेश त्रिकरणविमलज्ञानपूजाप्रसन्नाः ॥ १॥ त्रैकाल्यं सर्वतस्ते सकलजगदिदं व्यश्नुवानात्मसत्ता- विस्फूर्तेरष्टमूर्तेरखिलजनमनःप्रोच्यसिंहासनस्य । कस्मादावाहनं स्याद्बहिरिह चरितं क्वासनं चन्द्रमौले- र्माया संसारभावो रचयति नितरामात्मभोगाय भेदम् ॥ २॥ आधारोऽग्निः सुपात्रं रविरमृतकलानायकः पूर्णमद्यं शक्तीशस्त्वं प्रपूज्यः षडवयवयुतस्तत्र पात्रप्रवर्गे । पाद्यं ते तर्पणं च प्रभवति समुदे बाह्ययागार्घ्यपात्रैः सन्तुष्टः स्याः कथं त्वं परशिव विमलज्ञानदुग्धाब्धिशायिन् ॥ ३॥ भास्वच्चन्द्राग्निबिम्बोदितविमलशिवज्ञाननित्यप्रमोद- ज्ञानानन्दप्रवाहास्त्रिगुणितसरितो मुख्यनाडीत्रयस्थाः । कालिन्दीजह्नुकन्यान्तरसरिदभिधास्ते तनुस्नानकृत्ये सृष्टा हृल्लिङ्गमूर्तेः कथमितरजलैः स्यात्तव स्नानमत्र ॥ ४॥ लज्जारागादिमायातिमिरदिनकरीभूतचेतःप्रबोध- ज्योतिःपुञ्जप्रवृत्तेर्गतभवतमसो दिक्पटालङ्कृतस्य । प्रज्ञायज्ञोपवीतैरुपचितवपुषः प्रेतभस्माङ्गराग- स्यान्ये मिथ्योपचारास्तव वसनमहासूत्रबन्धानुलेपाः ॥ ५॥ सर्वाहिंसेन्द्रियाश्वद्रुतगतिशमनं सर्वभूतानुकम्पा- शान्तिः सत्यं प्रबोधो गुरुकथिततपो निश्चलध्यानदृष्टिः । श्रद्धाभक्तिश्च नित्यं निजविषयपरित्यागिता निःस्पृहत्वं संवित्पूज्येति पुष्पाण्यमल शिव भवत्पूजनाय क्रियन्ते ॥ ६॥ ब्राह्म्याद्या मातरोऽष्टौ स्वविषयकुसुमैरात्मभावप्रसूनैः योगिन्यः शक्तयस्ते निजनिजमहिमस्फूर्तिसन्मञ्जरीभिः । त्वद्भावं भावयद्भिस्तव किरणमहाभैरवैरात्तसङ्गा- स्त्वां श्रीचिद्भैरवेशं परमशिवगुरुं पूजयन्ति स्मरन्त्यः ॥ ७॥ सद्विद्याङ्गारमध्यार्पितसततमहावासनाभ्यासधूपैः श्रीमद्वक्त्रारविन्दोदितसकलकुलाम्नायबोधप्रदीपैः । सर्वाक्षार्थान्नभेदैरुपरचितमहादिव्यनैवेद्यपानै- राराध्यो योगिभिस्त्वं कथमितरकृतैस्तोष्यसे श्रीपरेश ॥ ८॥ इति श्रीदूर्वासुकृतपरशम्भुमहिम्नस्तवे अन्तर्यागोपाचारपरामर्शप्रकरणमेकादशम् ॥ ११॥
१२. द्वादशं प्रकरणं शान्ति विद्या नानाविभूषा मृगमदघनसारादिसौरभ्यवस्तु- प्रोतश्रीचन्दनानि प्रविकचकुसुमान्यद्भुतान्यम्बराणि । नानामोदाश्च धूपाः क्रमुकशकलवद्वीटिकाः पानभेदाः नानापात्राणि भूम्याः परशिव भवतः पूजनाय क्रियन्ते ॥ १॥ सप्तैते मन्दलस्थाश्चरुजलनिधयो दिव्यनैवेद्यराशी- न्नानापक्वान्नभेदान्विविधपिषितवच्छाकनानोपदंषान् । भक्ष्यं भोज्यं च चोष्यं विविधशषिसुधास्वादवद्वस्तुलेह्यं हालादध्याज्यदुग्धान्यपि विदधति ते सूपहाराय शम्भो ॥ २॥ मन्त्राकारैः प्रदीपैर्दहनरविकलानाथनक्षत्रमाला- विद्युन्माणिक्यमुक्तारजतकनकधात्वादिनानाप्रकाशैः । युष्मन्नीराजनायै विरचितरचनः स्वप्रकाशादिमूर्तिं सर्वानन्दात्मरूपं परमशिवगुरुं भासयत्यौर्वतेजाः ॥ ३॥ मुद्रा नानार्थपोषानतिपथचलितानेष्टयोगांश्च नाट्यं तीर्थाक्रान्तिं प्रणामं निजकरणगतिं सर्वसिद्धान्तवाचः । कर्माज्ञानप्रवाहान्व्यजनमपि महाचामराण्यातपत्रं हस्त्यश्वादीन्रथांस्ते परशिवचरणाध्यास्य दास्यं विधत्ते ॥ ४॥ आकाशः शब्दभेदैः प्रलयजलधरामन्ददम्भोलिजृम्भै- र्भेरीनिःसाणवाद्यैर्दरनिकररवैर्भूरिघण्टानिनादैः । तालैर्नादैर्मृदङ्गैर्मुरजडमरुकैर्गीतसद्वल्लकीभिः सर्वैर्वाद्यप्रभेदध्वनिभिरिह विभो नाथ पूजां करोति ॥ ५॥ शाम्भव्यो रश्मिदेव्यः समरसमुदिता मातृकावर्णरूपा भास्वन्तो भैरवाष्टा अपि सरसकलापानमत्ताः क्रमस्थाः । वेदान्तैरागमान्तैरभिदधति परं शाम्भवं वैभवं ते सर्वानिर्वाच्यसत्तावियदुदितपदं श्रीविभो विश्वमूर्ते ॥ ६॥ योगिन्यः क्षेत्रपालाः सरसमधुमदावेदशास्त्रार्थतत्त्व- व्याख्यानध्यानवक्त्राः पितृवनदशदिग्वृक्षगा भैरवाश्च । सौधास्वादप्रमत्ताः प्रकटितविकटाटोपसिंहाट्टहासाः स्वस्वव्यापारपुष्पैः परमशिवगुरुं त्वां विभो पूजयन्ति ॥ ७॥ भूताः प्रेताः पिशाचाः स्वविकृतिविभवैः प्राप्तबीभत्सवेषा योगिन्यस्ते श्मशानावरणगतमहादेवता भासयन्ति ।- देवास्ते पूर्वदेवा मधुरसमुदिता विस्मयाविष्टचित्ताः शान्ता ध्यायन्ति गायन्त्यपि परमशिव त्वां मुदोपासते च ॥ ८॥ ब्रह्मा वेदोक्तिगानैर्हरिरपि कमलैस्ताण्डवैश्चण्डरुद्रा- स्तौर्यत्रय्या महेन्द्रो निजनिजविषयैरन्यदिक्पालदेवाः । सिद्धाः सर्वे मुनीन्द्रा स्तुतिनुतिवचनैः सर्वदुर्गागणेशा नृत्त्यैर्वाद्यप्रभेदैर्विदधति सुमुदं ते महादेव शम्भो ॥ ९॥ सन्तप्तः प्रेतसिंहासनविहितमहाभैरवः शाम्भवाग्निः पञ्चाशद्विस्फुलिङ्गाक्षरविदितपराघोरविद्योग्रतेजाः । सत्यान्तर्यज्ञदेवस्त्रिभुवनहविषा तोषितात्मीयरश्मि- र्वागर्थव्यक्तभावात्सङ्कलमिह तनुं व्यश्नुवानो विभाति ॥ १०॥ सर्वज्ञानैकभूमिस्त्रिभुवनकरवीराख्यशून्यश्मशान- ज्ञानाकूपारपूरश्रुतमुखबहुविच्छास्त्रबोधोदवाहान् । प्रज्ञां गाम्भीर्यगर्वात्ग्रसति रविरिव स्वप्रकाशात्प्रकाशा- नन्यानिन्दूडुमुख्यान्निबिडतररुचिर्ध्वान्तपूरांस्तवाग्निः ॥ ११॥ श्रीशम्भो विश्वमूर्ते परमशिव गुरो नाथ विश्वेश्वरात्म- न्नेषाशेषार्थवद्वाक्प्रसवविरचिता स्रग्धरावृत्तपूजा । त्वय्येव ज्ञानवह्नौ हुतवहरसने संहता मुक्तये मे भूयादागः क्षमस्व प्रवचनपठितः श्रीविभो मे प्रसीद ॥ १२॥ इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे विशेषोपचारपरामर्शे शान्तिप्रकरणं द्वादशम् ॥ १२॥
१३. त्रयोदशं प्रकरणं उपसंहार इति तव कृपादोग्ध्री पूजा सुभक्तिस्रुतामृता जननमरणप्रादुर्भावप्रभेदपटीयसी । जनयति मुदं ब्रह्मानन्दप्रवाहतरङ्गिणीं दहति विपदः पुण्यं पापं दुरन्तभवाटवीम् ॥ १॥ परशिव मम जन्म धन्यमेत- त्तव महिमस्तुतिमोचितो यतोऽहम् । कुलमिदमखिलं द्विधा विभिन्नं परमपदं गतमेव ते प्रसादात् ॥ २॥ हतो मायामृत्युर्गुरुवचनखड्गेन मनसः प्रभिन्नं मालिन्यं व्यपहतमहङ्कारतिमिरम् । हता मे कामाद्याः प्रबलरिपवः स्वात्मविषयाः महेश त्वत्सेवाविदितसुविवेकाग्निमहसा ॥ ३॥ जातिर्लज्जा निजकुलमदः सर्वसंशीतिराधि- र्देहाहन्तासुकृतदुरितद्वन्द्वपाशोऽभिमानः । सर्वे ह्येते मम विनिहतास्त्वन्महावाक्यसूर्य- ज्योतिःपुञ्जैः किमपरमहं देव भद्रं समीहे ॥ ४॥ मद्विद्याभ्यसनमभूदिहैव सार्थं सान्निध्यात्तव च तदुक्तिचरस्य । अद्य त्वं त्रिभुवनवाङ्मनस्यलभ्यो निर्बाधः सकलपथैकगम्यमूर्ते ॥ ५॥ श्रुतिस्मृतिमिथःपथे प्रचलितोऽहमेकान्ततः प्रभोः शिवगुरोः तव त्रिजगदुन्नताज्ञां गतः । भजामि परपावकं त्रिजगदात्महव्याशिनं भवन्तमधिदैवतं भववने ज्वलन्तं स्वतः ॥ ६॥ ब्रह्मत्वं सुरनायकत्वमखिलं क्षोणीपतित्वं लस- द्ब्राह्मण्यं सुरयक्षनागपितृता गन्धर्वता सिद्धता । एतत्सर्वमनित्यमेव गणितं नाहं समीहे सुखं किं तु त्वेत्पदपद्मनिश्चलतरध्यानं समीहे विभो ॥ ७॥ सम्प्राप्ता कृतकृत्यता सफलता वाचां तव स्तोत्रता मृत्योरप्रमितैश्च मृत्युरभवद्वश्यं गत त्वत्पदम् । संसारानवधिप्रचण्डजलधिस्तीर्णः प्रमोहो हतः पुण्यं पापमगाद्विनाशमिह मे प्राप्तः प्रबोधो विभो ॥ ८॥ इति परशिवशम्भोऽनन्तकान्ते महिम्न- स्तवविरचितमेतत्स्तोत्रमात्मोक्तिशक्त्या । प्रभवतु सुमुदे ते त्वं मम स्वान्तवर्ती भव भवगतदुःखं छिन्धि चागः क्षमस्व ॥ ९॥ यावांस्ते जीवलोकः परशिवचतुराशीतिलक्षैकसङ्ख्य- स्तत्तत्कर्मप्रभेदोपगतजनिमृती घोरसंसारचक्रे । सृष्टिस्थित्यन्तवृत्तिं भजति निरवधित्वत्पदध्यानहीनो दृष्ट्वैनं भीतभीतं शरणमुपगतं त्राहि मां देव मृत्योः ॥ १०॥ दुर्वासाः सत्यवासाः कनकगिरिरह कन्दरे मे हृदाख्ये श्लोकाश्चैते मृगेन्द्राः पदनखदशनाः शाम्भवास्त्रैकवीर्याः । मायाध्वान्तेभयूथप्रदलनपटवो ब्रह्मावद्याटवीस्थाः वक्तॄञ्श्रोतॄन्प्रमातॄन्निजहृदयगुहाब्रह्मसत्तां नयन्ति ॥ ११॥ भूष्यं वैदुष्यमुद्यद्दिनकरकिरणाकारमाकारतेजः प्रज्ञानं भूरिमानं निजकरकलितं दुर्गमं योगमार्गम् । आयुष्यं ब्रह्मपोष्यं हरगिरिविशदां कीर्तिमभ्येत्य भूमौ देहान्ते ब्रह्मपारं परशिवचरणाकारमभ्येत्य विद्वान् ॥ १२॥ ये श्रीशाम्भवशासने कृतधियः श्रीशासने कर्मठाः श्रौतस्मार्तविधिष्वमन्दमतयः सत्यव्रता ब्राह्मणाः । विद्वांसः सकलागमेषु च कलाविद्यासु ते शाम्भव- ब्रह्मप्राप्तिमवाप्नुवन्ति पठनाच्छम्भोर्महिम्नस्तुतेः ॥ १३॥ स्तोत्रं चैतत्पटेद्यः शिवगुरुवदनाघोरविद्यात्तदीक्षः सत्यज्ञानप्रकाशात्प्रबलभवरिपुं पुण्यपापाद्यविद्याम् । भित्वा मुक्तो विकल्पस्त्रिजगति महितं सौख्यमात्मप्रबोधं तेजः कीर्तिं च लक्ष्मीमभिलषितपदं व्यश्नुते स्तोत्रवीरः ॥ १४॥ महिम्नस्तोत्रस्य त्रिभवनगुरोर्यो जपरतः पराशक्तेस्तत्त्वं परशिवपदं वेत्ति स बुधः । अगाधं गाम्भीर्यं स्तुतिगतमनन्तप्रमितिजं समस्ताः सिद्धीरप्यनुभवति गच्छेत्परपदम् ॥ १५॥ श्रीक्रोधभट्टारकदिव्यनाम्ना दुर्वाससा सूक्तमहामहिम्नः । स्तोत्रं पठेद्यो भुवनाधिपत्यं नित्यं गुरुत्वं शिवतामुपैति ॥ १६॥ महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ १७॥ सदसदनुग्रहनिग्रहगृहीतमुनिविग्रहो भगवान् । सर्वासामुपनिषदां दुर्वासा जयति देशिकः प्रथमः ॥ १८॥ श्रीगुरुकरुणालक्ष्यो यः कोऽप्यात्मविदनुगृहीतिपरः । परशम्भुस्तुतिबोधो जगदाधारो भवेत्सदा धीरम् ॥ १९॥ परशम्भोस्तव पद्यं रविप्रकरणं पठंस्त्रिकालेऽपि । रविरिव जगत्प्रकाशमतिचातुर्याज्जगद्गुरुर्भवति ॥ २०॥ तस्मात्स्मृतिमतिबुद्धिप्रज्ञावानात्मविन्महादेवः । परशम्भोस्तव हृदयं सत्पात्रेषु प्रकाशयेत्सदयम् ॥ २१॥ इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे उपसंहारप्रकरणं त्रयोदशम् ॥ १३॥ इति श्रीक्रोधभट्टारकापरनाम्ना महामहिम्ना दुर्वाससा मुनीश्वरेण विरचितपरशम्भुमहिम्नस्तवः सम्पूर्णः ॥ Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Parashambhumahimnastava
% File name             : parashambhUmahimnastavadUrvAsa.itx
% itxtitle              : parashambhumahimnastavaH (dUrvAsamunIvirachitaH)
% engtitle              : parashambhUmahimnastavadUrvAsa
% Category              :
% Location              : doc_shiva
% Sublocation           : shiva
% SubDeity              :
% Subcategory           :
% Texttype              : 
% Author                : Rishi Durvasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Translated by         :
% Description-comments  : 
% Source                :
% Indexextra            : 
% Acknowledge-Permission:
% Latest update         : August 22, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP