यमप्रोक्तं प्रदोषकालेलिङ्गपूजामहिमवर्णनम्
प्रदोषे लिङ्गपूजायां दृष्टायां पापसङ्क्षयः ।
अक्षया मोक्षलक्ष्मीश्च भविष्यत्यधमस्य च ॥ ५०॥
जन्म तस्यैव सफलं येन सम्यक् समर्चितम् ।
सायं सुकृदयत्नेन आलस्याद्वा प्रयत्नतः ॥ ५१॥
आयासमात्रफलकैः धर्माभासैः कुतः फलम् ।
स्मार्तैर्वा वैदिकैर्वाऽपि शिवलिङ्गार्चनं विना ॥ ५२॥
स्मार्तवैदिकधर्माणां अनुष्ठानेऽपि कोटिशः ।
लिङ्गार्चनेन यत् प्राप्यं तत् प्राप्यं तैर्न सर्वथा ॥ ५३॥
धर्मान्तराणां करणं धननाशाय केवलम् ।
शिवार्चनं परो धर्मः परमानन्दसाधनम् ॥ ५४॥
पापराशिविनाशाय शिवलिङ्गावलोकनम् ।
कल्पितं गिरिशेनेति न जानात्येव नारकी ॥ ५५॥
लोकोपकारकं सृष्टं शिवलिङ्गावलोकनम् ।
तन्न कुर्वन्ति पापिष्ठाः पतन्ति नरकेष्वहो ॥ ५६॥
अनाथनाथं श्रीनाथनयनार्चितपादुकम् ।
न जानन्ति महादेवं नरकेषु पतन्त्यहो ॥ ५७॥
श्रीमहादेवमहिमा दुर्ज्ञेयो दुर्जनैरतः ।
पतन्ति नरके घोरे पितृभिः सह सर्वथा ॥ ५८॥
पितापितामहादीनां यः शम्भुर्यो भवः प्रभुः ।
तं न जानन्ति दुर्वृत्ताः पतन्ति नरकेष्वहो ॥ ५९॥
शिवधर्मेष्वविश्वासादन्यधर्मरता नराः ।
पतन्ति नरके क्रूरा नराः शङ्करनिन्दकाः ॥ ६०॥
तदर्थं नरकाः सृष्टाः सर्वथा दुःखहेतवः ।
यैर्महादेवलिङ्गार्चाफलं न ज्ञातमादरात् ॥ ६१॥
न जानाति महादेवलिङ्गपूजाफलानि यः ।
स सूकरः खरो यद्वा शुनकः काक एव वा ॥ ६२॥
दुर्भगा एव ते सर्वे भर्गार्चनपराङ्मुखाः ।
तन्मुखानि प्रदग्धानि शिवद्वेषाग्निकोटिभिः ॥ ६३॥
सुलभं न विजानन्ति महादेवार्चनं जनाः ।
शुद्धदूर्वाङ्कुरेणापि लिङ्गपूजा विमुक्तिदा ॥ ६४॥
क्षीरं वा नीरमुत्सृज्य भक्त्या लिङ्गे शिवात्मके ।
विधूतपातका एव प्रयान्ति शिवमव्ययम् ॥ ६५॥
शुष्केण बिल्वपत्रेण तच्चूर्णेनापि यः शिवम् ।
पूजयिष्यति तस्यापि मुक्तिकान्ता न दुर्लभा ॥ ६६॥
व्यासङ्गेनापि यः शाङ्गं लिङ्गं मङ्गलदायकम् ।
सायं पश्यति पुण्यात्मा नमस्तस्मै नमो नमः ॥ ६७॥
अनाराध्य महादेवमनायासेन पापिनः ।
प्रयान्ति दुर्गमं घोरं नरकालयमन्वहम् ॥ ६८॥
बने वनानि रम्याणि वनजान्यपि तैः शिवः ।
नाराध्यते दुर्भागेन नरकावासमिच्छता ॥ ६९॥
अनिच्छयाप्युमाकान्तं लिङ्गं पश्यति यो नरः ।
सायं स दोषनिर्मुक्तो मुक्तो भवति नान्यथा ॥ ७०॥
तृणैरपि शिवं मूर्खाः कथं नाराधयन्त्यहो ।
महादेवं महामोहो महानरकसाधनम् ॥ ७१॥
शिवलिङ्गार्चकाङ्गानि दृष्ट्वाऽपि रजनीमुखे ।
प्रयान्ति ब्रह्मसदनं तल्लीलाऽत्यन्तमद्भुता ॥ ७२॥
सुभगत्वेन विज्ञातं शाङ्गाङ्गस्य विलोकनम् ।
तदभाग्याग्निदग्धानां अतिदुर्लभमेव हि ॥ ७३॥
लिङ्गार्चनेन किं पुण्यमित्युपेक्षापि चेत् क्षणम् ।
तद्वंशक्षय एव स्यात् पक्षपातेन नोच्यते ॥ ७४॥
अहो महदिदं भाग्यं शिवलिङ्गार्चने मतिः ।
तदेव हि महद्भाग्यं महाभाग्यमिति श्रुतम् ॥ ७५॥
लोके दुराचाररताः शिवार्चां विहाय तिष्ठन्त्यतिविष्ठया ते ।
लिप्ता भविष्यन्ति न संशयोऽत्र शिवापदाम्भोजयुगे शपामि ॥ ७६॥
यः कर्मणा वा मनसाऽपि वाग्मी नित्यं त्रिभिर्वा त्रिपुरान्तकार्चाम् ।
करोति तत्पादरजःप्रसादं वाञ्छ्त्युपेन्द्रोऽपि चतुर्मुखोऽपि ॥ ७७॥
किं वक्तव्यमुमासहायचरणाम्भोजार्चकाराधका-
पारैश्वर्यपरं हरिः प्रतिदिनं तत्सेवकाराधकः ।
श्रीवाणीरमणादयोऽपि मुनयः सिद्धाः सुमुग्धास्ततो
गन्धर्वा अपि किन्नरा अपि तथा शेषादयः सेवकाः ॥ ७८॥
शम्भुस्सर्वजगत्प्रभुर्विभुरिति ज्ञात्वा परं शाम्भवाः
तत्पूजानिरताः परात् परतरं तेजः परं शाम्भवम् ।
प्राप्यान्ते परमोत्सवादृतनिजव्यापारपारङ्गताः
पारावारविहारपूजितपदाम्भोजाः प्रसन्नाः सदा ॥ ७९॥
कस्तूरीमृगराजराजसहितः कर्पूरगन्धो यथा
न ज्ञातः शुनकैस्तथा शिवशिवाचारव्रतानादरैः ।
न ज्ञातं शिवलिङ्गपूजनफलं तत्कालकालार्चकैः
ज्ञेयं केवलमित्यलौकिकमिदं ज्ञेयं कथं पामरैः ॥ ८०॥
किमन्यद्वक्तव्यं स्मरहरकथासङ्गसरसो
न विज्ञातो लोकरमितमहिमा तेन सहसा ।
न बुद्धिर्मन्दानां शिवचरणसेवानुकरणे
क्षणं वा न क्षीणं यदि मरणकालेऽप्यघकुलम् ॥ ८१॥
बलादेते लोकाः खलजनरता एव नितरां
न जानन्त्येवालं बत बत न कालान्तकमतं
अतोऽन्ते सन्तप्ताः प्रतिपदमहाघोरनरके-
ष्वसन्तोषे दोषप्रलयनविषादेति स विषम् ॥ ८२॥
अहो मोहः कोवा जगति न महादेवभजने
मतिर्भक्तिः श्रद्धा कथमपि न तत्पूजनरतिः ।
न तद्भक्तालापेप्यभिरुचिरतो यान्ति नरके-
ष्वघोरेषु भ्रष्टाः शिवरुचिरमार्गादिति शठाः ॥ ८३॥
ललाटे किञ्चिद्वा सितभसितमालिप्य शिरसा
मुहुर्नत्वा यद्वा सकृदपि सुरुद्राक्षवपुषा ।
शिवं दृष्ट्वा सायं जलमपि विनिक्षिप्य विमलं
कलौ लिङ्गेश शिवपदसरोजे प्रविशति ॥ ८४॥
॥ इति शिवरहस्यान्तर्गते यमप्रोक्तं प्रदोषकालेलिङ्गपूजामहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३
- यमसदस्यसंवादे प्रदोषकालदीपदर्शनपूजामहिमवर्णनम् । ५०-७५॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 3
- yamasadasyasaMvAde pradoShakAladIpadarshanapUjAmahimavarNanam . 50-75..
Proofread by Ruma Dewan