याज्ञवल्क्यप्रोक्तं प्रदोषपूजादर्शनफलवर्णनम्

याज्ञवल्क्यप्रोक्तं प्रदोषपूजादर्शनफलवर्णनम्

सायङ्काले त्वया दृष्टं शिवलिङ्गं समर्चितम् । तेन पुण्यप्रभावेन ज्ञानमेवमभूत् तव ॥ १४॥ तदिदं पुण्यमुत्कृष्टं तत्प्रभावात्तवेदृशी । मतिर्युक्ता न सन्देहः तत्पुण्यं तादृशं यतः ॥ १५॥ शङ्करानुग्रहेणैव तत्पुण्यमभवत् तव । अन्यथा तादृशं पुण्यं देवानामपि दुर्लभम् ॥ १६॥ शिवलिङ्गार्चनं दृष्ट्वा सायङ्काले विशेषतः । स्वयं नृत्यति सन्तुष्टो दिव्यदेवगणैः सह ॥ १७॥ प्रदोषसमये दृष्टं शिवलिङ्गं समर्चितम् । सर्वकामदमित्याहुः तत्सत्यमभवत् खलु ॥ १८॥ सन्दिहानः शिवाचारे पापिष्ठो न प्रवर्तते । एतादृशं महाभाग्यमधुना दृष्टमद्भुतम् ॥ १९॥ तव स्वरूपं विज्ञातं त्वयापि न शिवार्चनम् । कृतं पापेन नीतानि दिनानि खलु सर्वदा ॥ २०॥ दुष्प्रतिग्रहलोलस्त्वं दुराचाररतः सदा । न स्नानकर्मनिरतो वैदिकं ज्ञायतेऽपि वा ॥ २१॥ नीचान्नभक्षणेनैव वयो नीतं त्वया खलु । मद्यपाङ्गनया साकं बहुकालमवस्थितम् ॥ २२॥ तस्मादुत्पादिताः पुत्राः कन्यकाश्च दुरात्मना । त्रिपुण्ड्रधारणं तावन्न कृतं श्रुतिचोदितम् ॥ २३॥ रुद्राक्षाणां च धरणं कदाचिन्न कृतं त्वया । बिल्वपत्रं न निक्षिप्तं जलं वा लिङ्गमस्तके ॥ २४॥ न दीपवर्तिका दत्ता त्वया शङ्करमन्दिरे । दीपप्रदानवार्ता तु दूरतस्तव सर्वथा ॥ २५॥ न सोमवासरे भुक्तं नियमान्निशि सादरम् । शाम्भवैः सह संलापो न त्वया कृत एव हि ॥ २६॥ पुण्याः शिवकथालापाः सर्वथा न श्रुतास्त्वया । रुद्राध्यायो न जप्तो हि मन्त्ररत्नसमाश्रयः ॥ २७॥ एतादृशेन दुष्टेन प्रदोषे दैवयोगतः । शिवलिङ्गं त्वया दृष्टं कृतकृत्योऽसि तावता ॥ २८॥ शिवलिङ्गं न दृष्टं चेत् सायङ्काले त्वया तदा । आकल्पं नरकात् घोरात् प्रच्यवस्ते कथं भवेत् ॥ २९॥ शिवाचारविहीनानां नरकात् निर्गमाकथम् । पुत्रादिभिः सहावासो नरकेष्वेव कोटिशः ॥ ३०॥ जन्मोत्तरं वा सततं शिवमर्चय सादरम् । जातिस्मरत्वं सम्प्राप्य तेन पुण्येन सत्वरम् ॥ ३१॥ तत्वज्ञानस्य धर्माणां यागानामपि यत्फलम् । तत्फलं केवलं मन्ये श्रीमहादेवपूजनम् ॥ ३२॥ शिवार्चनेन सर्वेषां कामानां सिद्धिरित्यतः । प्रयत्नैर्बहुभिर्नित्यं कुरु शङ्करपूजनम् ॥ ३३॥ ॥ इति शिवरहस्यान्तर्गते याज्ञवल्क्यप्रोक्तं प्रदोषपूजादर्शनफलवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ४ - प्रदोषपूजादर्शनफलवर्णनम् । १४-३३॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 4 - pradoShapUjAdarshanaphalavarNanam . 14-33.. Proofread by Ruma Dewan
% Text title            : Yajnavalkyaproktam Pradoshapujadarshanaphalavarnnam
% File name             : pradoShapUjAdarshanaphalavarNanam.itx
% itxtitle              : pradoShapUjAdarshanaphalavarNanam (shivarahasyAntargatam)
% engtitle              : pradoShapUjAdarshanaphalavarNanam
% Category              : shiva, shivarahasya, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 4 | 14-33 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org