प्रदोषपूजामहिमवर्णनम्
-
ब्रह्मा शिवार्चनविधिं विधिभिर्विदित्वा भक्त्या प्रदोषसमये शिवपूजनेन ।
पूज्यो भवत्यनुदिनं प्रणवान्वितानि पञ्चाक्षराणि शिवनाममनोहराणि ॥ (पूतो जपत्यनुदिनं)
वाणी च वाग्भिरमिताभिरभङ्गुरार्थैः प्रस्तौति शङ्करपदाम्बुजपूजनं च ।
कृत्वा प्रदोषसमयेष्वमराङ्गनाभिः साकं प्रनृत्यति विभूतिपवित्रगात्रा ॥
-
देवास्तावदुमासहायचरणाम्भोजं प्रदोषे मुहु-
र्बिल्वाद्यैः कुसुमैश्च चन्दनवरैः सम्पूज्य जातोत्सवाः ।
तत्पूजाविरताः कदाऽपि न भवन्त्येवामृतास्वादने
को वा स्याद्विरतः प्रमोदविरतः को वा जगन्मण्डले ॥ १॥
कः प्राणी गणनाथनाथचरणाम्भोजार्चनानादरः
सायङ्कालमवाप्य दुर्लभतरं ब्राह्मण्यमासाद्य च ।
त्यक्त्वा केवलमन्त्यजानपि महापापाश्रयान दुर्मुखान्
दुर्वीर्यान् दुरदृष्टकोटिघटितान जारोपजारोद्भवान् ॥ २॥
मन्येऽमुं पुरुषाधमं नरखरं दुर्वीर्यपातोद्भवं
पापिष्ठातिवरिष्ठमयपकुलस्त्रीयोनिगन्धोन्मुखम् ।
यः सायं शिवलिङ्गसङ्गरहितः कार्यान्तरव्यापृतः
शङ्गाराधनसाधनादिविमुखो भूभाररूपः परम् ॥ ३॥
तद्वंशः प्रलयं प्रयाति सहसा तन्नाशकैस्तैर्विना
ब्रह्माण्डप्रलयैः प्रदोषसमये यः शङ्करानर्चकः ।
तच्चित्तं खलु पित्तपीतमनिशं तातोऽपि तस्याधमः
तन्माता व्यभिचारिणी शुनकजा जाताऽपि सा रासभैः ॥ ४॥
ब्रह्माण्डानि पुनाति शङ्करपरः सायं शिवाराधकः
तत्तातः सुकृती सती च जननी तत्सोदरो ब्राह्मणः ।
तत्सन्तानसमृद्धिरप्यनुदिनं तस्याभिवृद्धिः सदा
सन्तोषैर्धनधान्यदारविभवाद्यभ्युच्चयः सन्ततम् ॥ ५॥
तत्पादाब्जरजः परं शिरसि मे तस्मै नमः सर्वदा
यः सायं शिवलिङ्गपूजनतः श्रान्तः प्रणामैर्मुहुः ।
नृत्योत्साहकरः कराद्यभिनयः अत्यादरादादर-
व्याहरैर्हर शङ्कर स्मरहर त्राहीत्यमन्दोत्सवः ॥ ६॥
सङ्गस्तेन ममास्तु सन्ततमुमाकान्तं प्रदोषेषु यः
क्षीराद्यैरभिषिच्य लिङ्गविलयं श्रीचन्दनालेपनैः ।
बिल्वैरप्यमलैरमन्दविलसद्गन्धैर्मरन्दान्वितैः
कुन्दैरर्चयति प्रकृष्टविभवैः कर्पूरदीपादिभिः ॥ ७॥
सत्सङ्गैदिनयापनं भवतु मे यः सायमीशार्चनं
ध्यात्वाऽऽनन्दघनो विभूतिकवचो रुद्राक्षभूषोत्सवः ।
जिह्वा शङ्करनामरूपसुसुधापूरादरास्वादन-
व्यासक्ता शिवलिङ्गपूजनमहोत्साहस्य सायं मुहुः ॥ ८॥
वासः स्यान्मम तस्य मन्दिरवरे यः सायमीशार्चना-
नन्दापारतरङ्गसङ्गततनुर्भूतिप्रभाभूषितः ।
रुद्राक्षाभरणः प्रतिक्षणमपि श्रीमन्विरूपाक्ष मां
रक्ष्यं प्रेक्ष्य परीक्ष्य मामकधिया रक्षेति यः संवसेत् ॥ ९॥
पातालेऽप्युरगेश्वरप्रभृतयः श्रीहाटकेशार्चनं
सायं सन्ततमेव शान्तहृदयाः सायं वधूसंयुताः ।
धूपैर्दीपगणैश्च चन्दनवरैः पुष्पैरमन्दैरपि
प्राज्याज्यान्नवरैरपारमधुरैर्नाट्यादिभिश्चान्वहम् ॥ १०॥
सायङ्कालशिवार्चनस्य महिमा केनापि न ज्ञायते
तस्मादेव विमोहमेत्य बहवः त्यक्त्वा शिवाराधनम् ।
कुम्भीपाकमुपेत्य गर्भजनितक्लेशं च सम्प्राप्य ते
संसारार्णवमज्जनैरनुदिनं तिष्ठन्ति बम्बारवैः ॥ ११॥
लोके शाङ्करसङ्गतिः खलु सदा सायं शिवाराधन-
ध्यानाय प्रभवत्यवश्यमसकृत् तत्सङ्गतेस्तत् फलम् ।
सा यस्यास्ति स एव भाग्यनिवहाधारः सुराराधितः
तत्पादाम्बुजपूजनेन भगवान् भालेक्षणस्तुष्यति ॥ १२॥
आकल्पं यदि धर्मकोटिभिरहोरात्रं च यो नीयतां
किं तैः सायमुमासहायचरणाम्भोजार्चनं चेद्भवेत् ।
पातिव्रत्यसमं खलु व्रतमिदं त्यागेऽस्य किं दुर्भगो
न स्यादेव ततः कदापि न परित्याज्यं शिवाराधनम् ॥ १३॥
सायङ्कालशिवार्चनेन भगवान् तुष्टो यथा शङ्करः
तद्वन्नान्यविशेषकारनियमाचारैः स तुष्यत्यपि ।
तस्मात्सायमुमासहायभजनं कृत्वा विमुक्तो भवेत्
पापापारमहाम्बुराशिभिरपि प्राप्नोति भाग्यान्यपि ॥ १४॥
॥ इति शिवरहस्यान्तर्गते प्रदोषपूजामहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४८। ६९-८४ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 48. 69-84 ..
Proofread by Ruma Dewan