राजा श्वेतकृतं शिवस्तोत्रम्
राजोवाच ।
निरीक्ष्य देवमीश्वरं प्रहृष्टमानसो हरम् ।
ननाम साम्बमव्ययं स राजपुङ्गवस्तदा ॥ १॥
नमो भवाय हेतवे हराय विश्वसम्भवे ।
नमः शिवाय धीमते नमोऽपवर्गदायिने ॥ २॥
नमो नमो नमो नमो महाविभूतये नमः ।
विभागहीनरूपिणे नमो नराधिपाय ते ॥ ३॥
नमोऽस्तु ते गणेश्वर प्रपन्नदुःखनाशन ।
अनादिनित्यभूतये वराहशृङ्गधारिणे ॥ ४॥
नमो वृषध्वजाय ते कपालमालिने नमः ।
नमो महानटाय ते शिवाय शङ्कराय ते ॥ ५॥
अथानुगृह्य शङ्करः प्रणामतत्परं नृपम् ।
स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥ ६॥
इति कूर्मपुराणे उत्तरभागे षट्त्रिंशाध्यायान्तर्गतं
राजा श्वेतकृतं शिवस्तोत्रं समाप्तम् ।
कूर्मपुराणे उत्तरभागे ३६/२८-३२
Proofread by PSA Easwaran