श्रीरामनाथसुप्रभातम्
श्री गुरुभ्यो नमः ।
श्रीरामनाथ भगवंस्तव सुप्रभातं
श्रीपर्वतेन्द्रकुलवर्धनि सुप्रभातम् ।
श्रीरामलक्ष्मणहनूमदुपासितेश
श्रीसेतुनाथ भगवंस्तव सुप्रभातम् ॥ १॥
प्राच्यप्रतीच्यजलधी मिलितौ तरङ्गैः
मन्द्रं मृदङ्गनिनदांस्तनुतस्तवेह ।
मूर्च्छन् तटावनिरुहामिह शाखिकासु
तानं समर्पयति मारुतवांशिकोऽयम् ॥ २॥
गायन्त्यमी द्विजगणाः श्रुतिरम्यमुच्च-
नीचस्वरेण समुपाश्रितनैकशाखाः ।
त्वत्सौखशायनिकसप्तऋषिव्रजोऽय-
मभ्येति नन्दिमुखपार्षददत्तमार्गः ॥ ३॥
भीषा तवायमरुणोऽर्करथं युनक्ति
तन्मुञ्च तं तव दृगन्तरलीनमर्कम् ।
पूर्वं प्रबुध्य गिरिजा तव पादपद्मे
संयोज्य नैजकरपद्ममुपस्थितेयम् ॥ ४॥
तद्भूतहृच्छय विभो शयनं विमुञ्च
बुध्यस्व बुद्ध, कमुपस्पृश नित्यशुद्ध ।
देवीकपोलतलदर्पणमेव पश्य
पश्यानताग्रसुतरूपमिमं गजेन्द्रम् ॥ ५॥
वाहो वृषः; किमथवेदृशमङ्गलैस्ते
नित्यं यदङ्कनिलयाखिलमङ्गलाम्बा ।
श्रीरामनाथ भुवनावनजागरूक
निद्राच्छलेन तदलं दिश दर्शनं नः ॥ ६॥
बुध्यस्व देव नयनोन्मिषितेन तेऽद्य
सर्वे सुरा निजकृतिप्रसृता भवन्तु ।
धर्म्यप्रवृत्तिरपि सर्वजनोऽत्र भूयात्
ते रामनाथ वृषकेतन सुप्रभातम् ॥ ७॥
रामाः सहस्रश इमे भववार्धिसेतुं
तिष्ठन्ति बन्धुमिह ते करुणेक्षणोत्काः ।
गृह्णीष्व यात्रिकशताहृतगाङ्गतीर्थं
क्षेत्रान्तरे त्वमुपयुङ्क्ष्व शिरस्स्थगङ्गाम् ॥ ८॥
गङ्गां पुरा त्वमदधा ननु सत्यमद्य
गङ्गाजलैः प्रतिदिनोपहृतैर्न एतैः ।
गङ्गाधरस्त्वमिति भक्तजना गृणन्ति
श्रीरामनाथ तव पावनसुप्रभातम् ॥ ९॥
रत्नाकरेण च महोदधिना च तीर्थं
सम्मेल्य पावनतमं परिगृह्य तेऽद्य ।
पाद्याय पाशभृदसौ समुपस्थितोऽत्र
श्रीरामनाथ भवते शुभसुप्रभातम् ॥ १०॥
अप्स्वप्लवन्त गिरयः कथमत्र नूनं
त्वद्वैभवेन हि गिरीश धृतस्स सेतुः ।
क्षिप्तं जले तव धनुर्हि बभार शैलान्
श्रीरामनाथ भवतेऽद्भुतसुप्रभातम् ॥ ११॥
त्वां सैकताकृतिमकल्पयदत्र सीता
तच्चालने स हनुमानपि नैव शक्तः ।
तत्तत्प्रपत्त्यनुगुणं गुरुलाघवं ते
श्रीरामनाथ महितं तव सुप्रभातम् ॥ १२॥
काश्या मरुत्सुतसमाहृतविश्वलिङ्ग-
दत्ताग्रपूजनसमर्हण विश्वनाथ ।
देवीसनाथ भववारिधिसेतुनाथ
श्रीरामनाथ भगवंस्तव सुप्रभातम् ॥ १३॥
स्वं स्वं महत्त्वमधिकृत्य मिथो विवादे
विष्णोर्विधेश्च तदमृग्यशिरोङ्घ्रिलिङ्गम् ।
यत्तैजसं तव बभौ, सविभीषणोऽत्र
तत्स्थापकः रघुपतीडित सुप्रभातम् ॥ १४॥
श्रीगन्धमादनगिरौ द्रुहिणं नियोज्य
यज्ञेषु, तद्विमलनामभृतं च कुण्डम् ।
भस्मापि तद्भवमदाः प्रबलं मलघ्नं
श्रीरामलिङ्ग भगवन् तव सुप्रभातम् ॥ १५॥
अन्धाय वृद्धमुनये भवता प्रदत्तं
यद्गन्धमादनगिराविह सर्वतीर्थम् ।
तत्स्नायिने दिशसि यौवनमक्षिदाक्ष्यं
रामेश्वरातिमहिमन् तव सुप्रभातम् ॥ १६॥
देव्याः प्रकाशितवतः परिशुद्धिमग्नेः
तीर्थोत्तमस्य महिमा कथमस्तु वर्ण्यः ।
यस्मिन् समक्षमिह ते सतताक्षिपातः
सीतापतीडित तवोज्ज्वलसुप्रभातम् ॥ १७॥
रामो विभीषणकृतेऽनुपरोधमिच्छन्
सेतोर्मुखं यदभिनन्निजचापकोट्या ।
तत्राप्लुता जनततिस्तव दर्शनेच्छुः
श्रीरामनाथ परमेश्वर सुप्रभातम् ॥ १८॥
चापश्चतुर्दशसहस्रपलाशहा यः
पौलस्त्यहा तदपदानपरम्परायाः ।
कोटिः, तव स्नपनतीर्थमखानि कोट्या
रामेण, राघवकृतार्चन सुप्रभातम् ॥ १९॥
सन्त्वाञ्जनेयकपिराजनलाः, परे ये
यान् राम आह स जनः स्वजनो ममेति ।
ते वानराः स्वकपितीर्थकृतिप्रहृष्टाः
तान् पश्य, ते रघुपतीश्वर सुप्रभातम् ॥ २०॥
प्राक्प्रत्यगत्र हि नवाश्मक-दर्भतल्प-
मध्ये स्तृतं स्थलमुशन्ति हि सेतुतीर्थम् ।
सर्वं त्वदीयमहिमाङ्किततीर्थपूर्णं
श्रीरामपूजितविभो तव सुप्रभातम् ॥ २१॥
नश्यन्ति पञ्च दुरितानि महान्ति वार्धौ
पापान्तराणि च तथा लयहीनलिङ्ग ।
अग्रे तवाभिषवणात् तव दर्शनेन
श्रीरामनाथ तव पावन सुप्रभातम् ॥ २२॥
तीर्थानि सन्ति कति वा न तव स्थलेऽस्मिन्
तीर्थस्य तीर्थमिह ते स्मृतिमामनन्ति ।
त्वद्भावतीर्थमनुगृह्य पुनीहि तन्नः
श्रीरामनाथ तव पावनसुप्रभातम् ॥ २३॥
सर्वं जलं यदिह तन्न भवेद्धि तीर्थं
तीर्थं त्वदन्वयगुणात्, तव भक्तसङ्गात् ।
तीर्थाप्लवे फलमपि त्वदधीनमेव
ते रामनाथ वृषनाथ शुभप्रभातम् ॥ २४॥
त्वां राघवोऽभजदिहेप्सितसेतुहेतो-
रप्स्वप्लवन्त गिरयोऽस्य तव प्रसादात् ।
काश्यां जपन्नसि मुमूर्षुजनश्रवस्सु
तद्रामनाम कियतीश रतिर्मिथो वाम् ॥ २५॥
अद्वैतमेव भवतोरथवा यदुक्तं
``नन्दी किमेष भगवान्'' इति वायुसूनौ ।
रामे च ``रुद्र इव'' ``मेऽस्त्रबलं तदेतत्
स्यात् त्र्यम्बकस्य मम वे''त्युपमामिषेण ॥ २६॥
पित्रादिवाक्यपरिपालन-दुष्टशिक्षा-
शिष्टानुपालनकृतो ऋतधर्ममूर्तेः ।
त्वत्स्थापनार्चनकृतो रघुनायकस्य
श्रीरामनाथ तव वामिह सुप्रभातम् ॥ २७॥
श्रीरामनाथ सुषमां तव सुप्रभाते
द्रष्टुं प्रफुल्लनयनः कमलेक्षणोऽसौ ।
ब्रह्मा चतुर्वदनतां बहुमन्यते स्वां
सर्वे सहस्रनयनं प्रति साभ्यसूयाः ॥ २८॥
श्रीसेतुमाधवमुखा विबुधास्तथाष्ट-
लक्ष्म्यश्च सेतुपति-पाण्ड्यनृपादिमुख्याः ।
भक्ता दिगन्तत इमे मिलितास्समस्ताः
श्रीरामनाथ परमं तव सुप्रभातम् ॥ २९॥
अर्घ्यैर्जपेन मननेन च विप्रवर्याः
भर्गात्मकं सवितृमध्यविदीप्यमानम् ।
त्वामेव सान्ध्यविधिना समुपासतेऽद्य
श्रीरामनाथ तव दीव्यति सुप्रभातम् ॥ ३०॥
सन्तानकाङ्क्षिण इमे समुपस्थितास्त्वां
तेभ्यो दिशाभिलषितानि, भवन्तु पुत्राः ।
त्वत्स्थापकेन पितृभक्तिगुणेषु तुल्याः
श्रीरामनाथ सुगुणं तव सुप्रभातम् ॥ ३१॥
यच्छारदीयनवरात्रमहार्चनान्ते
रामो दशास्यविजयं विदधे दशम्याम् ।
सा शक्तिरीश तव पर्वतवर्धनीयं
श्रीरामनाथ युवयोरपि सुप्रभातम् ॥ ३२॥
ते मायया हि परिवेष्टित एष शेते
विद्यामयेन विभवेन तवैव बुद्धः ।
ते पर्वतेन्द्रकुलवर्धनि मातर् अस्तु
ते रामनाथ युवयोरपि सुप्रभातम् ॥ ३३॥
आवारिधेस्तरणमा च दशाननान्त-
मत्यद्भुतं सुबहु साधितवान् य एषः ।
तेजोंऽशभृत्तव कपीन्द्र इहास्ति गायन्
श्रीरामनाथ तव मङ्गलसुप्रभातम् ॥ ३४॥
सम्बन्धमूर्तिरिह वाक्पतिरेष मातृ-
भूतोऽत्र शोणगिरिनाथ इहोपयाताः ।
तेषां शृणुष्व मधुर-द्रमिडस्तुतीस्ते
श्रीरामनाथ सुभगं तव सुप्रभातम् ॥ ३५॥
गीते च मन्त्रनिगमे च पटुस्स मुद्दु-
स्वामी मखीन्द्र इह पन्तुवराळिरागे ।
त्वत्कीर्तनं वितनुते शृणु जागृवांस्त्वं
श्रीरामनाथ तव सुन्दरसुप्रभातम् ॥ ३६॥
अध्यग्नितीर्थतटमादिमशङ्करश्री-
धाम्नस्तदन्वयसमुज्ज्वलदीप एषः ।
श्रीचन्द्रशेखरयतिः त्वदनन्य आस्ते
श्रीरामनाथ युवयोरपि सुप्रभातम् ॥ ३७॥
तत्कामकोटिवरपीठगुरुप्रसाद
चैत्रोत्कलीकलितराघवकोकिलोऽयम् ।
उत्कूजतीह तव कोमलसुप्रभातं
श्रीमातृभूत समुदञ्चय दृग्विलासान् ॥ ३८॥
कैलासतस्तत इतो रघुनाथसेतोः
भूर्भारतीयमखिलापि तवैव गेहम् ।
तद्रक्ष राष्ट्रमिदमाहितसर्वयोग-
क्षेमं सदा विजयतां शिवमस्तु सर्वम् ॥ ३९॥
त्वत्सुप्रभातजनिताभ्युदयाः समस्ता
लोका भवन्तु सुखिनो विरुजस्सुभिक्षाः ।
हिंसां विहाय विविधां धृतमैत्रभावाः
श्रीरामनाथ कृपया दिश विश्वशान्तिम् ॥ ४०॥
शुभम् ।
इति ``कविकोकिल'' डाॅ वे. राघवेण विरचितं
श्रीरामनाथसुप्रभातं सम्पूर्णम् ।
Copyright Dr. V. Raghavan Centre For Performing Arts (Regd.)
www.drvraghavancentre.com
Proofread by Aruna Narayanan