श्रीरामेश्वरस्तोत्रम्
(शिखरिणीवृत्तम्)
दयासिन्धुं देवं भवदलनदक्षं श्रुतिनतं
महाभक्तैर्नित्यं जयजय जयेति स्तुतमजम् ।
स्वभक्तानां मुक्त्यैर्धुतसगुणरूपं परविशं
भजेऽहं रामेशं सुरमुनिगणैर्सेवितपदम् ॥ १॥
जगत्कर्यिआं धायिआं ह्यतुलनिजशक्त्या विलसितं
गणेशस्कन्दाभ्यां सकलपरिवारेणसहितम् ।
हनूमद्रामाभ्यां निखिलकपियूथैः परिवृतं
भजेऽहं रामेशं सुरमुनिगणैर्सेवितपदम् ॥ २॥
कलौ प्रायः पापाः परधनवधूसक्तमनसः
जनिष्यन्ति ज्ञात्वा दशमुखविदारेण गुरुणा ।
क्षयार्थ दुष्टानां निजशुभकरस्थापितविभुं
भजेऽहं रामेशं सुरमुनिगणैर्सेवितपदम् ॥ ३॥
स्वभक्तानामिष्टं ह्यमितकरुणार्देर्रण मनसा
वितन्वन्नास्तेयः सकलभुवि राराजितपदः ।
नयतुल्यं किञ्चित्परमिति च यस्मात्तमभयं
भजेऽहं रामेशं सुरमुनिगणैर्सेवितपदम् ॥ ४॥
न चेशानो जीवः स्थिरचर विभानं नच मनः
न माया नोएविद्या भवति न च यस्मिंस्तमजरम् ।
सुशान्तं चिन्मात्रं निरतिशयसौख्यं निजमहो
भजेऽहं रामेशं सुरमुनिगणैर्सेवितपदम् ॥ ५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य सद्गुरु भगवान
श्रीधरस्वामीविरचितं श्रीरामेश्वरस्तोत्रं सम्पूर्णम् ॥
रचनास्थान - श्रीरामेश्वरक्षेत्रं
रचना काल - वैशाख शुद्ध !*^
Encoded and proofread by Sonali Upendra Dasare