रुद्रकवचम्
॥ अथ श्री रुद्रकवचम् ॥
ॐ अस्य श्रीरुद्रकवचस्तोत्रमहामन्त्रस्य
दुर्वासा ऋषिः । अनुष्टुप्छन्दः । त्र्यम्बकरुद्रो देवता ।
ह्रां बीजम् । श्रीं शक्तिः । ह्रीं कीलकम् ।
मम मानसाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
ह्रामित्यादि षड्दीर्घेष्षडङ्गन्यासः ॥
॥ ध्यानम् ॥
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रञ्च खड्गं परशुमभयदं दक्षभागे महन्तम् । (दक्षिणाङ्गैर्वहन्तम्)
नागं पाशं च घण्टां प्रलय हुतवहं साङ्कुशं वामभागे (घण्टां डमरुकसहितं)
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ (नानालङ्कारदीप्तं)
॥ दुर्वासा उवाच ॥
प्रणम्य शिरसा देवं स्वयम्भुं परमेश्वरम् ।
एकं सर्वगतं देवं सर्वदेवमयं विभुम् ॥ १॥ (एवं)
रुद्रवर्मं प्रवक्ष्यामि अङ्गप्राणस्य रक्षये ।
अहोरात्रमयं देवं रक्षार्थं निर्मितं पुरा ॥ २॥
रुद्रो मे चाग्रतः पातु पातु पार्श्वौ हरस्तथा ।
शिरो मे ईश्वरः पातु ललाटं नीललोहितः ॥ ३॥
नेत्रयोस्त्र्यम्बकः पातु मुखं पातु महेश्वरः ।
कर्णयोः पातु मे शम्भुर्नासिकायां सदाशिवः ॥ ४॥
वागीशः पातु मे जिह्वामोष्ठौ पात्वम्बिकापतिः ।
श्रीकण्ठः पातु मे ग्रीवां बाहूचैव पिनाकधृत् ॥ ५॥
हृदयं मे महादेव ईश्वरोऽव्यात्स्तनान्तरम् ।
नाभिं कटिं च वक्षश्च पातु शर्व उमापतिः ॥ ६॥
बाहुमध्यान्तरं चैव सूक्ष्मरूपस्सदाशिवः ।
सर्वं रक्षतु मे शर्वो गात्राणि च यथा क्रमम् ॥ ७॥
वज्रं च शक्तिदं चैव पाशाङ्कुशधरं तथा ।
गण्डशूलधरान्नित्यं रक्षतु त्रिदशेश्वरः ॥ ८॥
प्रस्थानेषु पदे चैव वृक्षमूले नदीतटे ।
सन्ध्यायां राजभवने विरूपाक्षस्तु पातु माम् ॥ ९॥
शीतोष्णादथ कालेषु तुहिनद्रुमकण्टके ।
निर्मनुष्ये समे मार्गे पाहि मां वृषभध्वज ॥ १०॥
इत्येतद्रुद्रकवचं पवित्रं पापनाशनम् ।
महादेवप्रसादेन दुर्वासोमुनिकल्पितम् ॥ ११।
ममाख्यातं समासेन न भयं तेन विद्यते । (विन्दति)
प्राप्नोति परमारोग्यं पुण्यमायुष्यवर्धनम् ॥ १२॥ (वरमारोग्यं)
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
कन्यार्थी लभते कन्यां न भयं विन्दते क्वचित् ॥ १३॥
अपुत्रो लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात् ।
त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ॥ १४॥
त्राहि मां पार्वतीनाथ त्राहि मां त्रिपुरान्तक ।
पाशं खट्वाङ्गदिव्यास्त्रं त्रिशूलं रुद्रमेव च ॥ १५॥
नमस्करोमि देवेश त्राहि मां जगदीश्वर ।
शत्रुमध्ये सभामध्ये ग्राममध्ये गृहान्तरे ॥ १६॥
गमनेऽगमने चैव त्राहि मां भक्तवत्सल ।
त्वं चित्वमादितश्चैव त्वं बुद्धिस्त्वं परायणम् ॥ १७॥ (चित्वं त्वं मानसं च)
कर्मणा मनसा चैव त्वं बुद्धिश्च यथा सदा ।
सर्वज्वरभयं छिन्धि सर्वज्वरभयं छिन्धि ॥ १८॥
सर्वग्रहभयं छिन्धि सर्वग्रहभयं छिन्धि ।
सर्वशत्रून्निवक्त्यापि सर्वव्याधिनिवारणम् ।
रुद्रलोकं सगच्छति रुद्रलोकं सगच्छत्योन्नम इति ॥
॥ इति (श्रीस्कन्दपुराणे?) दुर्वासः प्रोक्तं रुद्रकवचं सम्पूर्णम् ॥
Although this is said to be from Skanapurana,
we do not know its location in print.
Encoded and proofread by K . Sree Hari, Ruma Dewan