श्रीरुद्रमङ्गलाशंसनम्
श्रीमहादेवाय सेवकामरद्रुमाय
सोमशेखराय दिव्यसुन्दराय ।
भीमभुजबलाय दैत्यभीकराय
तुहिनशैलजामनोनलदिनेशाय मङ्गलं (?) ॥ १॥
मङ्गलं कैलासमन्दिराय चारुसा-
रङ्गधृतकराय भक्तरञ्जनाय ।
भृङ्गिनाट्यप्रियाय त्रिपुरदानवान्तकाय
गङ्गानदीभुजङ्गाय मङ्गलम् ॥ २॥
साम्बशङ्कराय हेमशैलजा(चा)पधारणाय
शम्बरासुरारिगर्वसंहराय ।
अम्बुजासनादिवन्द्यनित्यताण्डवाडम्बराय
नीलकण्ठाय मङ्गलम् ॥ ३॥
पुण्यपूरुषाय सर्वभूतिदायकाय
कारुण्यमानसाय निटिललोचनाय ।
गण्यगुणगणाय कलुषगहनकीलाय
लावण्यदेहाय शर्वाय मङ्गलम् ॥ ४॥
अन्तकान्तकाय प्रत्यहं नमः शिवाय
सुमहदन्तरङ्गवासिने दिगन्तशाटिने ।
चिन्तितार्थदायिने भसितविलेपनाङ्गाय
शान्ताय श्रीगिरीशाय मङ्गलम् ॥ ५॥
मङ्गलं मङ्गलं मङ्गलं जयमङ्गलाय भवते ।
अङ्गजारिभुजङ्गभूषण लिङ्गवृषभतुरङ्ग जय जय ॥ ६॥
॥ इति श्रीरुद्रमङ्गलाशंसनं सम्पूर्णम् ॥
Proofread by Aruna Narayanan