सूतकृता शिवस्तुतिः
वेदान्तवेद्यमीशानं शङ्करं लोकशङ्करम् ।
विश्वतश्चक्षुषं देवं विश्वतोमुखमव्ययम् ॥ ६॥
विश्वतोबाहुमाराध्यं विश्वतः पादमीश्वरम् ।
निष्कलं निर्गुणं शान्तं निरवद्यमनामयम् ॥ ७॥
निष्प्रपञ्च निराकारं निर्मलं निरुपाधिकम् ।
शर्वं प्रसन्नवरदं सर्वाभरणभूषितम् ॥ ८॥
गौरीभूषितवामाङ्ग ब्रह्मविष्ण्वादिसेवितम् ।
अप्रमेयं जगज्जन्मस्थितिसंहारकारणम् ॥ ९॥
सोमसूर्याग्निनयनं सोमार्धकृतशेखरम् ।
दिव्यचन्दनलिप्ताङ्गं नवबिल्वदलार्चितम् ॥ १०॥
व्याघ्रचर्मपरीधानमनन्तेन्दुरविप्रभम् ।
नानामणिगणाकीर्णं किरीटकटकावृतम् ॥ ११॥
दयासुधार्द्रनयनं वरदाभयपाणिनम् ।
तिर्यक्सन्तोष(निर्यत्सन्तोष)पूर्णाङ्गमुमालिङ्गितविग्रहम् ॥ १२॥
विलोक्यातीव सन्तुष्टः षण्मुखः साम्बमीश्वरम् ।
मत्वा कृतार्थमात्मानं प्रणिपत्य सदाशिवम् ॥ १३॥
॥ इति शिवरहस्यान्तर्गते सूतकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १ । ६-१३॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 1 . 6-13..
Proofread by Ruma Dewan