सूतप्रोक्ता शिवनाममहिमा
महेशनामामृतदिव्यधारापरिप्लुताङ्गो दवमध्यगोऽपि ।
न शोकमाप्नोति नरो यतोऽहं संरक्षितो वह्निगतः शिवेन ॥ २१॥
यतो विभूतिकवचाः शिवनामास्त्रपाणयः ।
चत्वार एव यामीयैश्चक्रुर्युद्धं पुरा मुदा ॥ २२॥
ब्रह्महत्यासहस्राणि पुरा कृत्वापि पुल्कसः ।
शिवेति नाम विमलं श्रुत्वा मोक्षं गतः पुरा ॥ २३॥
एतेऽपि प्रमथाःशुद्धाः शिवनामामृताशनाः ।
इन्द्राद्यर्चितपादाब्जाः वसन्ति शिवसन्निधौ ॥ २४॥
शिवनामैव संसारमहारोगैकशामकम् ।
नान्यत्संसाररोगस्य शामकं दृश्यते मया ॥ २५॥
शिव शङ्कर रुद्रेति महादेवेति यन्मया ।
पूर्वमुच्चरितं युद्धे जयस्तेनाभवन्मम ॥ २६॥
शङ्करेश महेशेति नाम दिव्यं महावने ।
पुरा श्रुतं पिशाचेन ततस्तस्मात्स मोचितः ॥ २७॥
समस्तवेदवेदान्तसारभूतं शिवप्रदम् ।
शिवनामामृतं दिव्यं पेयं सर्वार्थसाधकम् ॥ २८॥
ये सन्ततं शङ्करमादरेण
मनःसरोजासनसन्निविष्टम् ।
ध्यायन्ति शम्भुं (शम्भोः) स्मरणानुरक्ताः (ध्यायन्ति शम्भुस्मरणानुरक्ता)
त एव धन्याः शिवसम्मताश्च ॥ २९॥
शिवनामामृताप्लुष्टरसनाः शिवपूजकाः ।
शिवध्यानरता नित्यं सन्ति धन्याःक्वचित्क्वचित् ॥ ३०॥
॥ इति शिवरहस्यान्तर्गते सूतप्रोक्ता शिवनाममहिमा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १ । २१-३०॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 1 . 21-30..
Proofread by Ruma Dewan