श्रीसदाशिवाष्टकम्
नन्दिस्कन्धविराजितं गिरिजापतिं सुरसुन्दरं
गङ्गाधारकपापनाशकताण्डवप्रियनागरम् ।
कामध्वंसकयोगकारकमोक्षदायकत्र्यम्बकं
वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ १॥
ओङ्कारेश्वरभैरवं प्रमथेश्वरं वटुकेश्वरं
श्रीमुक्तेश्वरभीमशङ्करलोकनाथमहेश्वरम् ।
पातालेश्वरनन्दिकेश्वरशूलिनं कपिलेश्वरं
वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ २॥
ईशानेश्वरभूतखेचरक्षेत्रपालकयोगिनं
नेत्रज्वालकदक्षनाशकरामतारणकारितम् ।
कण्ठे वासुकिसर्पशोभितकालकूटविशोषितं
वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ ३॥
ब्रह्मामाधवशक्रभास्करचन्द्रनारदसेवितं
हेरम्बानलयक्षमारुतविश्रवासुतपूजितम् ।
कैलासालयचारिणं परमेश्वरं गिरिवासिनं
वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ ४॥
योग्नीभीषणकालकौणपरक्षकिन्नरवन्दितं
सिद्धश्रीघनजैनगुह्यकनागनायकचर्चितम् ।
कालीकान्तनृमुण्डलम्बितपादपङ्कजशोभितं
वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ ५॥
लिङ्गे शोभितब्रह्मभास्वरसत्यसौरभनिर्गुणं
मायातामससत्त्वराजसगौणकारणकारितम् ।
विद्यापङ्कजधारिणं पुरुषार्थकारकमङ्गलं
वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ ६॥
ब्रह्माण्डालयजीवनायकनायकेश्वरपूजितं
वं वं वं वमघोषितं विजयारसेन विलासितम् ।
श्रीश्रीश्री अवधूतशेखरसिद्धगोरखनामितं
वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ ७॥
श्रीमृत्युञ्जयचन्द्रशेखरश्रीस्वप्नेश्वरशूलिनं
मार्कण्डेश्वरश्रीसुरेश्वरभस्मचन्दनलेपितम् ।
दिक्पालावृतवेदवर्णितदिव्यताधनदायकं
वन्दे श्रीहरपार्वतीवरदायकं शिवशङ्करम् ॥ ८॥
इति श्रीप्रदीप्तनन्दशर्मविरचितं श्रीसदाशिवाष्टकं सम्पूर्णम् ।
Composed, encoded, proofread by Dr. Pradipta kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com