सदाशिवस्तोत्रम्

सदाशिवस्तोत्रम्

ब्राह्मणी उवाच - ततः किं तैः कृतं देवैर्ब्रह्मविष्णुशिवादिभिः । तन्मे कथय तत्त्वज्ञः श्रौतुं कौतूहलं मम ॥ १॥ ब्राह्मण उवाच - श‍ृणु तुभ्यं महाभागे कथयिष्यामि तत्त्वतः । महाविष्णुवचः श्रुत्वा यच्चक्रुर्जगदीश्वराः ॥ २॥ ब्रह्माद्या ऊचुः - भगवन् सर्वभूतात्मन् कोटिब्रह्माण्डविग्रह । त्वयोद्दिष्टो ह्ययं पन्था दुर्दर्शो दुर्गमो हि नः ॥ ३॥ पथिप्रज्ञो यदा कश्चिदग्रगामी भवेद्विभो । तदा वा शक्यते गन्तुं श्रीमद्वृन्दावनं वनम् ॥ ४॥ चक्षर्नस्तादृशं भूयाद्यथा द्रक्ष्याम तां पुरीम् । इत्थं श्रुत्वा वचस्तेषां जहास पुरुषोत्तमः ॥ ५॥ हसतस्तस्य वदनोदको नीलघनच्छविः । अष्टबाहुः पीतवासा नीलेन्दीवरलोचनः ॥ ६॥ वनमालाधरः कण्ठे कोटिकन्दर्पमोहनः । विनिर्गत्य स तानाह ब्रह्मविष्णुमहेश्वरान् ॥ ७॥ गच्छध्वं भो मया सार्द्धं दर्शयिष्यामि तां पुरीम् । महाविष्णोः प्रसादेन यूयं वै दिव्यचक्षुषः ॥ ८॥ भूत्वा द्रक्ष्यथ तद्राज्यं वृन्दावनवनं महत् । अहं पुरःसरो भूत्वा यास्यामि तु सहायताम् ॥ ९॥ ततः सर्वे तेन साकं गच्छन्तस्त्रिदशेश्वराः । दुर्गालोकं च ददृशुः सर्वभूतमनोहरम् ॥ १०॥ तद्गत्वा भुवनं देव्याः कल्पवृक्षोपशोभितम् । पारिजातवनामोदमधुमत्तमधुव्रतम् ॥ ११॥ नानामृगगणाकीर्णं सिंहशार्दूलगर्जितम् । ब्रह्मविष्णुमहेशाद्यैरपरैः परिसेवितम् ॥ १२॥ तन्मध्ये रत्नरचितं दिव्यं सिंहासनोत्तमम् । तस्य मध्ये महाचक्रं कोटिसूर्यसमप्रभम् ॥ १३॥ साष्टवक्त्रं सत्रिवृत्तं षोडशाष्टदलान्वितम् । शक्रकोणयुतं श्रीमद् द्विर्दशारसमन्वितम् ॥ १४॥ साष्टकोणं सत्रिकोणं बिन्दुयुक्तं मनोहरम् । स(श)र्वप्रभृतिसंयुक्तं भैरवीभैरवावृतम् ॥ १५॥ तन्मध्ये च महादेवीं कोटिसूर्य समप्रभाम् । चतुर्भुजां त्रिनेत्रां च पञ्चबाणधनुर्धराम् ॥ १६॥ पाशाङ्कुशधरां देवीं रक्ताभरणभूषिताम् । रक्तवस्त्रपरीधानां पीनोन्नतपयोधराम् ॥ १७॥ नवयौवनसम्पन्नां परमानन्दरूपिणीम् । प्रणेमु दण्डवत् तां च श्रीमत्त्रिपुरसुन्दरीम् ॥ १८॥ ततस्तान् प्रणतान् प्राह देवी त्रिभुवनेश्वरी । तत्सिध्यतु देवेन्द्रा यदर्थं गन्तुमिच्छथ ॥ १९॥ एवं देव्याशिषं देवा गृहीत्वा गन्तुमुद्यताः । ततस्तां त्रिजगद्धात्रीं नमस्कृत्य पुरःसरः ॥ २०॥ प्रतिमूर्तिर्महाविष्णोराह तान् मेघनिस्वनः । आगच्छध्वं महाभागा नात्र कार्या विचारणा ॥ २१॥ ततस्तद्वचनं श्रुत्वा ब्रह्माद्यास्त्रिदशेश्वराः । निर्गत्य देव्या पुरतः शिवलोकपथं गताः ॥ २२॥ तत्र ज्योतिर्मयं लिङ्गं ददर्श परमाद्भुतम् । सर्वव्यापि जगद्रूपं सच्चिदानन्दविग्रहम् ॥ २३॥ महायोनियोगपीठमारूढं परमं पदम् । नानाकार निर्विकारं निराकारं निरञ्जनम् ॥ २४॥ निश्चलं निर्मलं शान्तं नितान्तं तद् गुणागुणम् । ओङ्कारात्मकमाकारमशेषगुणरूपकम् ॥ २५॥ दृष्ट्वा तदद्भुतं ते च महाविष्णुतनुश्च सः । प्रणिपत्य महादेवं तुष्टुवुस्वं सदाशिवम् ॥ २६॥ ब्रह्माद्या ऊचुः - ॐ जय देव निरञ्जन निर्विकार जय तेजोमयतनु दुर्निवार । जय लिङ्गरूप जय योनिरूप जय जय तिरस्कृतसर्वरूप ॥ २७॥ जय शङ्कर सर्वदशाग्रमते जय किङ्करवत्सल सिद्धिगते । जय कान्तिविडम्बितचन्द्ररुचे रुचिरां वरप्रद सर्वशुभे ॥ २८॥ जय वेदागोचरचारुचरित्र भवसागरतारणवाहित्र । ज्ञानानन्दपरमपदकारण नित्यानन्ददुःखनिवारज ॥ २९॥ जय शुद्धसत्त्वमयनिर्मलनिश्चल निर्गुणनित्यनिरामयनिष्कल । जय ब्रह्मविष्णुशिवजुष्टपाद जय नामनिराकृतदेववाद ॥ ३०॥ जय जय मङ्गलदायकनायक निजभक्तोत्कटतापविनाशक । जय निर्जय जयद जगन्मय सदयहृदय दक्ष मखक्षय ॥ ३१॥ लोकातीतसकलरससागर गङ्गाधर जय रजनीनागर । सर्वभूतहितकारणतारण जय परमेश निखिलजनपावन ॥ ३२॥ जय बहुरूप निरूप निरञ्जन शूलहस्त पशुपाशविनाशन । जय जय परम परापरवन्दित वामदेव सकलजनरञ्जित ॥ ३३॥ उत्पत्तिस्थितिविनाशहेतो परमेशान परमवृषकेतो । जय निष्काङ्क्ष निरामय निर्भय जय दुर्जय जय विजय जगत्त्रय ॥ ३४॥ जय चन्द्रचूड विमद विमत्सर गौरीवदनसरोरुहमधुकर । सर्वदेवहृदयान्तनिवास भूतिविभूषणकृत्तिवास । जय राधेश्वर सकलाराधित जय विश्वेश्वर विश्वविबोधित ॥ ३५॥ हे विश्वनाथ सकलेश्वर लिङ्गरूप सर्वान्तरस्थ परमेश परावरेश । भूताधिनाथ भुवनानि बिभर्षि पासि त्वं कृपामयजनान् परिपाह्यनाथान् ॥ ३६॥ हे चन्द्रचूड पुरुषेश्वर शङ्कराद्य गौरीपते सकलनिष्कलशूलपाणे । वेदाद्यगोचरसुगोचरभक्तिभाजां शन्नः कुरु श्रवणमङ्गलमङ्गलेश ॥ ३७॥ सर्वज्ञ सर्वभूतेश सर्वभूतेश्वरेश्वरः । सर्वभूतात्मन् सर्वसिद्धीश विश्वेश्वर नमोऽस्तु ते ॥ ३८॥ त्वं ब्रह्म परमं सूक्ष्म कृष्णस्त्वं पुरुषः परः । प्रकृतिस्त्वं परा सूक्ष्मा प्रधानपुरुषेश्वराः ॥ ३९॥ महाविष्णुस्तु विष्णुस्त्वं ब्रह्मेशानपुरन्दराः । देवाः सर्वे जगन्नाथ त्वमेव सर्वदृक् शिवः ॥ ४०॥ त्वं भूमिस्त्वं जलं वह्निर्वायुराकाशमेव च । त्वमेव सर्वभूतानि स्थावराणि चराणि च ॥ ४१॥ भूतं भवद् भविष्यच्च त्वमेव परमेश्वरः । प्रसीद देवदेवेश परात्पर नमोऽस्तु ते ॥ ४२॥ श्रीनारद उवाच - य इमं पठते स्त्रोत्रं ब्रह्मादिमुखनिर्गतम् । आयुर्विद्या यशो लक्ष्मीर्मुक्तिस्तस्य करस्थिता ॥ ४३॥ ॥ इति श्रीकृष्णजा(या)मले महाशिवदर्शनं सदाशिवस्तोत्रं नाम पञ्चमोऽध्यायः ॥ ५॥ परिशिष्ट १ Proofread by Tanvir Chowdhury
% Text title            : Sadashivastotram 3 from kRRiShNayAmala 
% File name             : sadAshivastotramkRRiShNayAmala.itx
% itxtitle              : sadAshivastotram 3 (kRiShNayAmalatantrAntargatam bhagavan sarvabhUtAtman koTibrahmANDavigraha)
% engtitle              : sadAshivastotram 3
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% SubDeity              : rAdhA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Tanvir Chowdhury
% Description/comments  : Krishna Yamala Tantra Parishishta 1
% Indexextra            : (Scan)
% Latest update         : January 28, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org