सदाशिवेन्द्रस्तुतिः
श्रीगणेशाय नमः ।
परतत्त्वलीनमनसे प्रणमद्भवबन्धमोचनायाशु ।
प्रकटितपरतत्त्वाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १॥
परमशिवेन्द्रकराम्बुजसम्भूताय प्रणम्रवरदाय ।
पदधूतपङ्कजाय प्रणतिं०॥ २॥
विजननदीकुञ्जगृहे मञ्जुलपुलिनैकमञ्जुतरतल्पे ।
शयनं कुर्वाणाय प्रणतिं- ॥ ३॥
कामाहिद्विजपतये शमदममुखदिव्यरत्नवारिधये ।
शमनाय मोहविततेः प्रणर्ति०॥ ४॥
नमदात्मबोधदात्रे रमते परमात्मतत्त्वसौधाग्रे ।
समबुद्धयेऽश्महेम्नोः प्रणतिं०॥ ५॥
गिलिताविद्याहालाहलहतपुर्यष्टकाय बोधेन ।
मोहान्धकाररवये प्रणतिं०॥ ६॥
शममुखषट्कमुमुक्षाविवेकवैराग्यदाननिरताय ।
तरसा नतजनततये प्रणतिं०॥ ७॥
सिद्धान्तकल्पवल्लीमुखकृतिकर्त्रे कपालिभक्तिकृते ।
करतलमुक्तिफलाय प्रणतिं०॥ ८॥
तृणपङ्कलिप्तवपुषे तृणतोऽप्यधरं जगद्विलोकयते ।
वनमध्यविहरणाय प्रणतिं०॥ ९॥
निगृहीतहृदयहरये प्रगृहीतात्मस्वरूपरत्नाय ।
प्रणताब्धिपूर्णशशिने प्रणतिं०॥ १०॥
अज्ञानतिमिररवये प्रज्ञानाम्भोधिपूर्णचन्द्राय ।
प्रणताघविपिनशुचये प्रणतिं०॥ ११॥
मतिमलमोचनदक्षप्रत्यग्ब्रह्मैक्यदाननिरताय ।
स्मृतिमात्रतुष्टमनसे प्रणतिं०॥ १२॥
निजगुरुपरम शिवेन्द्रश्लाघितविज्ञानकाष्ठाय ।
निजतत्त्वनिश्चलहृदे प्रणतिं०॥ १३॥
प्रविलाप्य जगदशेषं परिशिष्टखण्डवस्तुनिरताय ।
आस्यप्राप्तान्नभुजे प्रणर्ति०॥ १४॥
उपधानीकृतबाहुः परिरब्धविरक्तिरामो यः ।
वसनीकृतखायास्मै प्रणतिं०॥ १५॥
सकलागमान्तसारप्रकटनदक्षाय नम्रपक्षाय ।
सच्चित्सुखरूपाय प्रणतिम् ॥ ३६॥
द्राक्षाशिक्षणचतुरव्याहाराय प्रभूतकरुणाय ।
वीक्षापावितजगते प्रणतिं०॥ १७॥
योऽनुत्पन्नविकारो बाहौ म्लेच्छेन छिन्नपतितेऽपि ।
अविदितममतायास्मै प्रणतिं०॥ १८॥
न्यपतन्सुमानि मूर्धनि येनोच्चरितेषु नामसूग्रस्य ।
तस्मै सिद्धवराय प्रणतिं०॥ १९॥
यः पापिनोऽपि लोकान् तरसा प्रकरोति पुण्यनिष्ठाग्र्यान् ।
करुणाम्बुराशयेऽस्मै प्रणतिं०॥ २०॥
सिद्धेश्वराय बुद्धेः शुद्धिप्रदपादपद्मनमनाय ।
बद्वा प्रमोचकाय प्रणतिं०॥ २१॥
हृद्याय लोकविततेः पद्यावलिदाय जन्ममूकेभ्यः ।
प्रणतेभ्यः पदयुगले प्रणतिं०॥ २२॥
जिह्वोपस्थरतानप्याह्वोच्चारेण जातु नैजस्य ।
कुर्वाणाय विरक्तान्प्रणतिं०॥ २३॥
कमनीयकवनकर्त्रे शमनीयभयापहारचतुराय ।
तपनीयसदृशवपुषे प्रणतिं०॥ २४॥
तारकविद्यादात्रे तारकपतिगर्ववारकास्याय ।
तारजपप्रवणाय प्रणतिं०॥ २५॥
मूकोऽपि यत्कृपा चेल्लोकोत्तरकीर्तिराशु जायेत ।
अद्भुतचरितायास्मै प्रणतिं०॥ २६॥
दुर्जनदूरायतरां सज्जनसुलभाय हस्तपात्राय ।
तरुतलकेतिनाय ग्रणतिं०॥ २७॥
भवसिन्धुधारयित्रे भवभक्ताय प्रणम्रवश्याय ।
भवबन्धविरहिताय प्रणतिं०॥ २८॥
त्रिविधस्यापि त्यागं वपुषः कर्तुं स्थलत्रये य इव ।
अकरोत्समाधिमस्मै प्रणतिं०॥ २९॥
कामिनमपि जितहृदयं क्रूरं शान्तं जडं सुधियम् ।
कुरुते यत्करुणाऽस्मै प्रणतिं०॥ ३०॥
वेदस्मृतिस्थविद्वल्लक्षणलक्ष्येषु सन्दिहानानाम् ।
निश्चयकृते विहर्त्रे प्रणतिं०॥ ३१॥
बालारुणनिभवपुषे लीलानिर्धूतकामगर्वाय ।
लोलाय चितिपरस्यां प्रणति०॥ ३२॥
शरणीकृताब सुगुणैणीकृतरक्तपङ्कजाताय ।
धरणीसदृक्क्षमाय प्रणति०॥ ३३॥
प्रणताय यतिवरेण्यैर्गणनाथेनाप्यसाध्यविघ्नहृते ।
गुणदासीकृतजगते प्रणति०॥ ३४॥
सहमानाय सहस्राण्यप्यपराधान्प्रणम्रजनरचितान् ।
सहसैव मोक्षदात्रे प्रणतिं०॥ ३५॥
धृतदेहाय नतावलितूणप्रज्ञाप्रदानवाञ्छातः ।
श्रदिक्षिणवक्त्राय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३६॥
तापत्रयार्तहृदयस्तापत्रयहारदक्षनमनमहम् ।
गुरुवरबोधितमहिमन् शरणं यास्ये तवाङ्घ्रिकमलयुगम् ॥ ३७॥
सदाऽऽत्मनि विलीनहृत्सकलवेदशास्त्रार्थवित्
सरित्तटविहारकृत् सकललोकहृतापहृत् ।
सदाशिवपदाम्बुजप्रणतलोकलभ्य ग्रभो
सदाशिवयतीट् सदा मयि कृपामपारां कुरु ॥ ३८॥
पुरा यवनकर्तनस्रवदमन्दरक्तोऽपि यः
पुनः पदसरोरुहप्रणतमेनमेनोविधिम् ।
कृपापरवशः पदं पतनवर्जितं प्राप यत्-
सदाशिवयतीट् स मय्यनवधिं कृपां सिञ्चतु ॥ ३९॥
हृषीकहृतचेतसि प्रहृतदेहके रोगकै-
रनेकवृजिनालये शमदमादिदिगन्धोज्झिते ।
तवाङ्घ्रिपतिते यतौ यतिपते महायोगिराट्
सदाशिव कृपां मयि प्रकुरु हेतुशून्यां द्रुतम् ॥ ४०॥
न चाहमतिचातुरीरचितशब्दसङ्घैः स्तुतिं
विधातुमपि च क्षमो न च जपादिकेऽप्यस्ति मे ।
बलं बलवतां वर प्रकुरु हेतुशून्यां विभो
सदाशिव कृपां मयि प्रवर योगिनां सत्वरम् ॥ ४१॥
शब्दार्थविज्ञानयुता हि लोके वसन्ति लोका बहवः प्रकामम् ।
निष्ठायुता न श्रुतदृष्टपूर्वा विना भवन्तं यतिराज नूनम् ॥ ४२॥
स्तोकार्चनप्रीतहृदम्बुजाय पादाब्जचूडापररूपधर्त्रे ।
शोकापहर्त्रे तरसा नतानां पाकाय पुण्यस्य नमो यतीश ॥ ४३॥
नाहं हृषीकाणि विजेतुमीशो नाहं सपर्याभजनादि कर्तुम् ।
निसर्गया त्वं दययैव पाहि सदाशिवेमं करुणापयोधे ॥ ४४॥
कृतयाऽनयानतावलिकोटिगतेनातिमन्दबोधेन ।
मुदमेहि नित्यतृप्तप्रवर स्तुत्या सदाशिवायाशु ॥ ४५॥
इति श्रीजगद्रुरुशृङ्गगिरिश्रीसच्चिदानन्दशिवाभिनव-
नृसिंहभारतीस्वामिभिर्विरचिता सदाशिवमहेन्द्रस्तुतिः समाप्ता ॥
Proofread by PSA Easwaran