सप्तस्थान चूर्णिका

सप्तस्थान चूर्णिका

ॐ श्रीगणेशाय नमः । अस्ति खलु सप्तसागरसप्तकुलाचलसप्तद्वीपपरिमण्डिते भूमण्डले पञ्चाशत्कोटियोजनविस्तीर्णे जम्बूद्वीपो रत्नद्वीपः । तत्रात्युत्तमाः षट्पञ्चाशद् देशाः । तेष्वपि अनेककोटिसुरालयभूसुरालयमण्डितश्चोलदेशः । तस्मिन्नपि अपरिमितहरिहरालयविबुधकोटिसङ्कीर्णसह्यजातीरस्थलानि सर्वोत्तमानि । तेष्वपि एतावत्त्वरहितवैभवं साक्षाद्दाक्षायणीपतिनिवासभूतं सहस्रवदनेनापि सहस्रकोटियुगैरपि वर्णितुमशक्यमवाङ्मनसगोचरमत्यद्भुतवैभवमनाद्यं किञ्चिदस्ति स्थलम् । तस्मिन् वृन्दारकपतिनन्दनवनशोभिमन्दारमुखवृन्दारकतरुसन्दोहसन्देहकरमाकन्दकुन्दतिन्दुकचन्दनचम्पकचाम्पेयपनसपाटलप्रियालहिन्तालतालतमालकृतमालनक्तमालतक्कोलरसालवकुलसरलतिलकामलकजम्बुजम्बीरखर्जूरनालिकेरदाडिमद्राक्षानारङ्गबदरीबि ल्वकपित्थकदलीपटलजटिलघटविटपुटतटकुटजलिकुचपलाशचिलपुन्नागनागकिंशुक बन्धूकच्छायकजीवकाशोकहिन्दूककेतकरसपूर्णगन्धपूर्णिमुचुकुन्दरसगन्धघनबृन्दपुलिन्दवकुलवञ्जुलकरलकोमलस्फूर्जविस्फूर्जविदारकोविदारकूर्मारमन्दारतुम्बीरार्जुन तर्जनविकर्जनकदम्बकादम्बहेरम्बविलम्बतुम्बकुरुम्बाश्वकर्णगोवर्णगोकर्णगोचूर्णघनसविघसवरुणतरुणतरङ्गविचुलिङ्गविबधवनयक्षफलयक्षधवसूधवमाधवमरुधवपुरीधव सिन्धूपनिक्षीपदीपनीपप्रदीपभूपगोपोपकूपवित्पलतित्पलमरुत्पलवीरवीरवसुवीरफलपूरबीजपूरकन्दसारतिन्त्रणघन्त्रणयन्त्रणबोधसम्बोधन्यग्रोधहिम्बुमल्लीमतल्लीबल्लीवीरवल्लीवसन्तीवासन्तीजीवन्तीजवन्तीजातीहेमजतीविदूतीविशालीवेशालीतुलसीकुमुदोत्पलनीलोत्पलमालतीमाधवीमधुकरपङ्कजपारिजातप्रमुखनिखिलभूरुहलतामण्डलनिरन्तरदलकुसुमफलभरितविटपावृतोद्यानसुशोभिते, कृतपातकपामरजनपावनकरणनिपुणकावेरीशीतलजलस्पृष्टमन्दमलयमारुतसम्पर्कविकसितकेतकीचम्पकमल्लिकादिकुसुमघुमुवुमितवासनानन्तभरितविबुधनिकरे, अखिलप्रपञ्चस्थलसञ्चारापूरणमनोरथचन्द्रशेखरचरणारविन्दमकरन्दनिश्चञ्चलचञ्चरीकायमानविरिञ्चतनयादिमुनिसञ्चयतपःसञ्चयसिद्धिप्रदे मुक्तिप्रदे, नित्योत्सवपक्षोत्सवमासोत्सवसंवत्सरोत्सवरथोत्सवडोलोत्सववसन्तोत्सवपुप्योत्सवपुष्पोत्सवप्रजो?(प्लवे)त्सवविजयोत्सवमहोत्सवमहावैभवे, चैत्रोत्सवपञ्चमदिनकृतात्मपूजानन्दभरितमहेश्वरवृषभवाहनमहरथोत्सवसन्दर्शनागतसप्तस्थलदेवतागणसुरगणमुनिगणनिबिडीभूतनृत्तगीतवाद्यसङ्गीतसङ्घोषसन्तोषितचतुर्वर्णजनकोटिसंसेविन्ते प्रपञ्चसंरक्षण दीक्षिते शकृतपञ्चाक्षरतारकमन्त्रोपदेशपञ्चशरारिशरीरदायके पञ्चनदस्थले यो देवः सकलकोटिदेवेषु महादेव इति सकलकोटिविबुधैः सततं सम्पूज्यते स भगवान् धर्मसंवर्धनीशः जगदीशः, चन्द्रामृतसूर्यपुष्करणीजलजटामण्डलस्थगङ्गातोयगिरिजापयोधरक्षीरवृषभफेनपञ्चनदीपतिः पशुपतिः विशिष्टमहामुनिवरिष्ठवसिष्ठभगिनीविवाहमहोत्सवसन्तोषितनन्दिकेश्वरसमेतः गिरिजासमेतः सप्तस्थलप्रदक्षिणागमनस (द) हृदयः सदयः सुरथमहीपतिमनोरथपूरणसन्दर्शितदक्षिणोत्तरकैलास (भण्ड) भर्मनिर्मितप्राकारगोपुरविमानगर्भगृहार्धमण्टपमहामण्टपस्नपनमण्टपपुजामण्टपपुण्यमण्टपनृत्तमण्टपनाट्यमण्ट्पसोपानप्रदक्षिणमण्टपपाश्चमेधप्रदक्षिणमण्टपजपतपः सिद्धिकरजप्येश्वरमण्टपशान्तमण्टपदान्तमण्टपवसन्तमण्टपोद्यानमण्टपश्रीविलासमण्टपश्रीचूर्णमण्टपकृष्णगन्धमण्टपपारार्तिकमण्टपकौतुकभूकृत(मत) मण्टपवेदशास्त्रसर्वपुरणव्यवहारमण्टपहरिब्रह्मेन्द्रादिसमूहमण्टपाष्टादशवाद्यघोषमण्टपरत्नमण्टपपुष्पसुगन्धपरिमलविलासमण्टपधर्मसंवर्धनीसकलभोगभोभ्यमण्टपविचित्रचित्राङ्कितमण्टपोपमण्टपमहामण्टपचतुःस्तम्भमण्टपषोडशस्तम्भमण्टपशतस्तम्भमण्टपसहस्रस्तम्भमण्टपानेकस्तम्भमण्टपादिमण्टपविराजितमहालयविनिर्गतः, अतिधवलितवुमुबुमायमाननवकोटिमल्लिकाहारमुक्ताहारमुकुरवरनिकरसिंहमुखशरभमुखकनकदण्डमण्डितनवरत्नमणिखचिततप्तकाञ्चनशिबिकासुस्थितः मुनिहृदि स्थितः, अपहसितचन्द्रमण्डलश्वेतच्छत्रोभयचामरवालव्यजनपताकादिसकलबिरुदादिविराजमानः सकलविबुधसंस्तूयमानः भेरीमृदङ्गमद्दलतालकाहलदुन्दुभितूर्यतुम्बुरुवीणावेणुनू पुरमड्डुकडिण्डिमडमरुकजर्झरधवलशङ्खपणवपटहाष्टादशवाद्यघोषसमेतशब्दायमानसकलदिगन्तरः नानाविधवर्णसुवर्णपुष्पस्तबककोटिन्देदीप्यमानमलयचन्दनागरुगुग्गुलुगोघृतघनसारधूपवर्तिदिव्यपरिमलवासनादिघुमुघुमायमानसकललोकः संरक्षितसकललोकः हाटककटककेयूरनूपुरहारविराजितकलेबरः कटितटसुघटितहेमाम्बरः चण्डकिरणमण्डलरुचिषण्डकखण्डकमणिखचितमुकुटमण्डितशशिखण्डः रत्नकुण्डलशोभितगण्डः ताराधिपसेवारतमुक्ताहारायिततारालिविराजितः मारायुतकोटिसुकुमाराकृतिः मारारातिः शरणागतशतकोटिजनशतकोटिपापगिरिशतकोटिः धूर्जटिः सप्तस्थलप्रदक्षिणविचक्षणपदक्रमश्रुतिस्मृतिसुलक्षणलक्षकोटिब्राह्मणोत्तमकृतवेदपारायणश्रवणपरमानन्दभरितः गानविशारदनारदसन्निभपरमभागवतोत्तमकृतदिव्यनामसङ्कीर्तनश्रवणहर्षपुलकाङ्कितदेहः धर्मसंवर्धनीविलसदर्धदेहः भक्तापदन्धतमःसप्ताश्वबृहदम्बासहित-आपत्सहायेश्वराभ्यागमनसम्मानसम्पूजितः श्रीप्रयाणस्थलनिकटघटितपटहभेरीवाद्यडमडमध्वनिश्रवणससम्भ्रमसन्दर्शनाय समुस्थितदिवाकरः करुणाकरः अनेककोटिभूसुरवरान्नदाननिपुण-असदृशनायकीसहितओदनेश्वर प्रत्युत्थान बहुमानसम्पूजितः चतुर्वेदोद्धारण निपुण मङ्गलनायकीसहितवेदपुरीश्वरसपर्यासम्मोदितमानसः मुनिजननिहितमानसः अखिलभूसुरवराद्यनेककोटिभक्तजनसूर्यातपपरिश्रमापनोदनकामो भक्तपराधीनः चराचरप्रपञ्चनिर्माणचतुरचतुराननशिरःखण्डनपण्डित मङ्गलनायकीसहितखण्डीश्वरालयस्थः एलोशीरलवङ्गसंवासितबहुशीतलस्वच्छजलशुण्ठीरामठसैन्धवजम्बीरफलसारबहुरुचिरतक्रशर्करामिश्रितगोघृतसंसिक्तपृथुकपानकपादुकाव्यजनच्छत्रमुद्गखण्ड चणकखण्डखण्डशर्करापनसचूतकपित्थकदलीफलपटलीप्रदानसुगन्धचन्दनालेपमल्लिकाहारपुष्पपरिशोभितकण्ठ परमसन्तुष्टब्राह्मणकोटिसमीरितवेदघोषायमाणखण्डीश्वरालयः करुणालयः सुरवरमुनिवरभूसुरवरदायकत्रिपुरसंहारविशारद सौन्दर्यनायकीसहित पुष्पवनेश्वरपुष्यमण्टपस्थः उभयकावेरीमध्यप्रदेशानन्दकरमन्दगमनसन्दर्शनागतब्रह्मऋषिदेवऋषियक्षगन्धर्वकिन्नरकिम्पुरुषसिद्धसाध्योरगभक्तजनसुरकोटिभूसुरवरकोटिभासुरमुनिकोटिघृतस्थानेशनिकटकावेरीमध्यप्रदेशः गौरीशः मरतकमणिखचिन्तकनकशिबिकामकुटकुण्डलकटकभासापहृतसकलतेजोजातपरिभवासहमानकोपारुणवर्णपश्चिमसागरपतत्पतङ्गः कोमलाङ्गः अर्धास्तमनसमयकृतसन्ध्यावन्दनोपस्थानजपहोमवेदपारायणबहुनिपुणभूसुरपरिश्रमापनोदनाय फालाक्षानलदग्धमदनबालाम्बिकासहितघृतस्थानेश्वरसुखस्थलालयस्थः समकालसमुद्यत्कोटिसूर्यसमानसहस्रकोटिदीपपङ्क्तिदीपवृक्षदीपरत्नदीपरथदीपनानाविधवह्नियन्त्रकोटिदेदीप्यमानमहामार्गप्रदेशमन्दगमनमन्दहासभरितः सकलवाद्यसङ्गीतसङ्घोषसन्तोषित चतुर्वर्णजनकोटिसंसेवितः अम्भोजसम्भवसुरसम्भ्रमकाङ्क्षितशातकुम्भकुम्भकुचकुम्भसम्भासितरम्भादिसुरतरुणिकृतरमणीयनाट्यविराजितचतुर्वीथीमार्गः भक्तसन्दर्शितसन्मार्गः निटिलतटलसितसितविभूतिजटिलघटतनयमुखमुनिपटलपटुतरसुरयोगिबृन्दवन्दितदिव्यश्रीचरणारविन्दः सुन्दरसोमास्कन्दमूर्तिः प्रणतार्तिहरविख्यातकीर्तिः करुणामूर्तिः श्रीसाम्बमूर्तिः पञ्चमहापातकेभपञ्चाननपञ्चनदस्थलालयान्तः प्रविष्टः कर्पूरनीराजनविराजमानकर्पूरगौरशरीरसन्दर्शनायातसकलकोटि भक्तजनाभीष्टः सकलदेववरिष्ठः सकलजगदीशः धर्मसंवर्धनीशः मम हृदन्तरे निरन्तरं निवसन् पातु मां पातु मां पञ्चनदीशः । इति श्रीसप्तस्थानचर्णिका समाप्ता । This chUrNikA is an eulogy on Shri pa~nchApagesha at tiruvaiyyAru on the occasion of the saptasthAna festival. The names of the sapta-sthAna-s (seven shrines within a mile from each), the deities and their consorts referred to in the text are (१) तिरुवय्यारु (श्री-पञ्चनाद) - प्रनतार्तिहर - ढर्मसंवर्धनि ॥ (२) तिरुप्पयनम्(श्री-प्रयाण) - आपत्सहायेश्वर-बृहदम्बा । (३) तिरुशोर्रुत्तुरै(श्री-ओदनेश्वर) - ओदनेश्वर- आसद्र्शनायकी । (४) तिरुवेदकुद्(ट्)ई(श्री-वेदकुटी)-वेदपुरीश्वर- मंगळनायकी । (५) तिरुक्कन्दियूर् (श्री-खन्दीश्वर) -(ब्रह्मशिरह्-) खन्दीश्वर-मंगळाम्बिका ओर् मंगळनायकी ॥ (६) तिरुप्पून्तुरुत्ति (श्री-पुष्पवन) - पुष्पवनेश्वर- सौन्दरनायकी (७) तिरुनैत्तानं (श्री-घृतस्थान) - घृतस्थानेश्वर - बालाम्बिका। (४६) Proofread by Sivakumar Thyagarajan Iyer
% Text title            : Saptasthana Churnika
% File name             : saptasthAnachUrNikA.itx
% itxtitle              : saptasthAnachUrNikA
% engtitle              : saptasthAnachUrNikA
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 46 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : September 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org