शक्रकृता शिवस्तुतिः
बलप्रमथनं हरं बहुदबाहुसंशोभितं
बलारिबलिनन्दनैः प्रथितवन्दनं शङ्करम् ।
बलं धनवरप्रदं बकुलपुष्पमालोज्वलं
बलं विलशयाङ्घ्रिकं बडवपूज्यपादाम्बुजम् ॥ २२॥
विनीतजनवत्सलं विगतमानहृत्तापहं
विमानवरसञ्चरं प्रथिनवेदगीताशयम् ।
विशेषणविवर्जितं विविधबन्धदुःखापहं
भवाम्बुधिविशोषकं भवहरं प्रपद्ये शिवम् ॥ २३॥
श्रुतिश्रवणभूषणं मदनबाणसंशोषणं
त्रिपुण्ड्रपरितोषणमुडुगणेन्द्रसम्भूषणम् ।
भजामि अघहारिणं सुकृतराशिसम्पूरणं
स्वभक्तपरिपोषणं यमपुरादिसंहारिणम् ॥ २४॥
उडुराजकलाधरं महेशं वरकाकोदरहारभूषितम् ।
सुरराजसमर्चिताङ्घ्रिपद्मं भजतां नास्ति पुनर्भवो भवेषु ॥ २५॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये शक्रकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २९ । २२-२५॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 29 . 22-25..
Notes: Śakra शक्र (Indra इन्द्र) seeks pardon from, and eulogizes Śiva शिव; as He gets rid of the distress that had ensued, following annihilation of Vṛtra वृत्र.
Proofread by Ruma Dewan