शङ्करस्तोत्रम् १
%१९
नमस्तुभ्यं भगवते शङ्कराय महात्मने ।
जगदुत्पत्तिविनाशानां हेतवे मोक्षहेतवे ॥ १॥
सर्वदेवाधिदेवाय पार्वतीपतये नमः ।
ऋषियोगिमुनीन्द्राणां त्वमेव परमा गतिः ॥ २॥
ब्रह्माण्डगोलके देव दयालुनां त्वमग्रणीः ।
अत एवोल्बणं पीतं त्वया हालाहलं विषम् ॥ ३॥
गङ्गाधर महादेव चन्द्रालङ्कृतमस्तक ।
परमेश्वर मां पाहि भयं वारय वारय ॥ ४॥
सर्वपापं प्रशमय सर्वतापं निवारय ।
दुःखं हर हराशेषं मृत्युं विद्रावय द्रुतम् ॥ ५॥
स्तुतिं कर्तुं न मे शक्तिस्तव वाग्गत्यगोचर ।
देहि सत्सङ्गतिं भकिन्त निश्चलां त्वयि शङ्कर ॥ ६॥
सर्वारिष्टं परिहर सर्वशत्रून्विनाशय ।
दारिद्र्यं हर सर्वेश सर्वान्कामान् प्रपूरय ॥ ७॥
मुखे नाम दृशो रूपं हृदये त्वत्पदाम्बुजम् ।
ममास्तु ते नमः साम्ब प्रसन्नो भव सर्वदा ॥ ८॥
त्वदर्चनविधिं जाने न भक्तिस्त्वयि मे हृदि ।
अथाप्यनुग्रहाणेश केवलं दययोद्धर ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं शङ्करस्तोत्रं सम्पूर्णम् ।