शङ्कुकर्णकृतं शिवस्तोत्रम्

शङ्कुकर्णकृतं शिवस्तोत्रम्

शङ्कुकर्ण उवाच । कपर्दिनं त्वां परतः परस्ताद्गोप्तारमेकं पुरुषं पुराणम् । व्रजामि योगेश्वरमीशितारमादित्यमग्निं कपिलाधिरूढम् ॥ १॥ त्वां ब्रह्मपारं हृदि सन्निविष्टं हिरण्मयं योगिनमादिमन्तम् । व्रजामि रुद्रं शरणं दिविस्थं महामुनिं ब्रह्ममयं पवित्रम् ॥ २॥ सहस्रपादाक्षिशिरोऽभियुक्तं सहस्रबाहुं तमसः परस्तात् । त्वां ब्रह्मपारं प्रणमामि शम्भुं हिरण्यगर्भाधिपतिं त्रिनेत्रम् ॥ ३॥ यतः प्रसूतिर्जगतो विनाशो येनावृतं सर्वमिदं शिवेन । तं ब्रह्मपारं भगवन्तमीशं प्रणम्य नित्यं शरणं प्रपद्ये ॥ ४॥ अलिङ्गमालोकविहीनरूपं स्वयम्प्रभुं चित्पतिमैकरुद्रम् । तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतोऽन्यदस्ति ॥ ५॥ यं योगिनस्त्यक्तसबीजयोगा लब्ध्वा समाधिं परमात्मभूताः । पश्यन्ति देवं प्रणतोऽस्मि नित्यं तं ब्रह्मपारं भवतः स्वरूपम् ॥ ६॥ न यत्र नामानि विशेषतृप्तिर्न सन्दृशे तिष्ठति यत्स्वरूपम् । तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयम्भुवं त्वां शरणं प्रपद्ये ॥ ७॥ यद्वेदवेदाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम् । पश्यन्त्यनेकं भवतः स्वरूपं तद्ब्रह्मपारं प्रणतोऽस्मि नित्यम् ॥ ८॥ यतः प्रधानं पुरुषः पुराणो विवर्त्तते यं प्रणमन्ति देवाः । नमामि तं ज्योतिषि सन्निविष्टं कालं बृहन्तं भवतः स्वरूपम् ॥ ९॥ व्रजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुराणम् । शिवं प्रपद्ये हरमिन्दुमौलिं पिनाकिनं त्वां शरणं व्रजामि ॥ १०॥ इति कूर्मपुराणे त्रयस्त्रिंशाध्यायान्तर्गतं शङ्कुकर्णकृतं शिवस्तोत्रं समाप्तम् । कूर्मपुराणे पूर्वभागे ३३/३६-४५ Proofread by PSA Easwaran
% Text title            : Shankukarnakritam Shiva Stotram
% File name             : shankukarNakRRitaMshivastotram.itx
% itxtitle              : shivastotram (shaNkukarNakRitaM kUrmapurANAntargatam)
% engtitle              : shankukarNakRitaM shivastotram
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Kurmapurana, kUrmapurANe pUrvabhAge 33/36-45
% Indexextra            : (Hindi, English)
% Latest update         : August 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org