शरभाष्टोत्तरशतनामावलिः

शरभाष्टोत्तरशतनामावलिः

ॐ श्रीगणेशाय नमः । अथ आकाशतन्त्रे एकोनाशीतितमोऽध्यायः शरभाष्टोतरशतनामस्तोत्रम् श्रीशिव उवाच - अस्य श्रीशरभाष्टोत्तरशतनाममहामन्त्रस्य योगानन्द ऋषिः अनुष्टुप्छन्दः श्रीमदघोरवीरशरभेश्वरो देवता, खं बीजम्, स्वाहाशक्तिः, फट् कीलकम्, श्रीमच्छरभसालुवाष्टोत्तरशतनाम सिद्ध्यर्थे जपे विनियोगः । ध्यानम् - अष्टाङ्घ्रिश्च सहस्रबाहुरनलच्छाया शिरोयुग्मधृग्- यस्त्र्यक्षो द्विखुपुच्छउदितः साक्षान्नृसिंहासनः । अर्धेनापि मृगाकृतिः पुनरथाप्यर्धेन पक्ष्याकृतिः श्री वीरः शलभः स पातु शलभश्चिन्त्यः सदा मां हृदि ॥ ॐ सदाशिवाय नमः । उग्ररूपाय । पक्षविक्षिप्तभूभृते । रुद्राय । रौद्राय । महाग्रासाय (महोग्रासाय) । विष्णवे (जिष्णवे) । उग्राय । भीमाय । क्रोधाय (क्रुद्धाय) । मन्यवे । भवाय । शर्वाय । शङ्कराय । शिवाय । कालकालाय । कालाय । महाकालाय । मृत्यवे । वीराय नमः । २० ॐ वीरभद्राय नमः । क्षयद्वीराय । शूलिने । महादेवाय । महते । पशूनां पतये । एकाय । नीलकण्ठाय । श्रीकण्ठाय । पिनाकिने । अनन्ताय । सूक्ष्माय । मृत्युमृत्यवे (मृत्युमन्यवे) । पराय । परमेशाय । परात्परतराय (तत्पराय परमात्मने) । परापराय (परात्पराय) । विश्वाय । विश्वमूर्त्तये (विश्वमूर्तये) । विष्णुकलत्राय नमः । ४० ॐ विष्णुक्षेत्राय । भानवे । कैवर्ताय (वैकर्ताय) । किराताय । महाव्याधाय । शाश्वते । भैरवाय । शरण्याय (शरव्याय) । महाभैरवरूपिणे । नृसिंहसंहर्त्रे । कामकालपुरारये (कालकालपुरारये) । महापाशौघसंहर्त्रे (कर्मपाशौघसंहर्त्रे, पाशौघसंहर्त्रे) । विष्णुमायान्तकारिणे । त्र्यम्बकाय । त्र्यक्षराय (त्र्यक्षाय) । शिपिविष्टाय । मीढुषे । मृत्युञ्जयाय । सर्वज्ञाय । मखारये नमः । ६० ॐ मखेशाय (खखोल्काय) नमः । वरेण्याय । वह्निरूपिणे (वाग्भिरेतसे, वह्निरेतसे) । महाघ्राणाय (महाप्राणाय) । जिह्वाय (देवाय) । प्राणापानप्रवर्त्तिने । त्रिगुणाय । त्रिशूलाय । गुणातीताय । योगिने । संसारप्रवाहाय (संसारचक्रवाहाय, संसारयन्त्रवाहाय) । महायन्त्रप्रवर्तिने । चन्द्राग्निसूर्याय (तमस्विद्व्योमसूर्याय) । मूर्तिवैचित्र्यहेतवे (मुक्तिवैचित्रहेतवे, मुक्तिवैचित्र्यहेतवे) । वरदाय । अवताराय (विकाराय) । सर्वकारणहेतवे । कपालिने । करालाय । पुण्यकीर्त्तये (पुण्यकीर्तये, पुण्यमूर्तये) नमः । ८० ॐ अघोरायाग्निनेत्राय (अमोघायाग्निनेत्राय) नमः । लकुलीशाय (नकुलीशाय, अकुलीशाय) । शम्भवे । भिषक्तमाय (भीषाम्बराय) । चण्डाय (मुण्डाय) । दण्डिने । घोररूपिणे (योगरूपिणे) । मेघवाहाय । देवाय । पार्वतीपतये । अव्यक्ताय । विशोकाय । स्थिराय । स्थिरधन्वने । स्थाणवे । कृत्तिवासाय । पञ्चार्थहेतवे । वरदाय (विरजाय) । एकपादाय । चन्द्रार्द्धमौलिने (चन्द्रार्द्धमौलये) नमः । १०० ॐ अध्वरराजाय नमः । वचसां पतये । योगीश्वराय । नित्याय । सत्याय । परमेष्ठिने (परमात्मने) । सर्वात्मने । सर्वेश्वराय (सर्वस्वराय) नमः । १०८ सूत उवाच नाम्नामष्टशतेनैव स्तुत्वाऽमृतये न तु । पुनस्तु प्रार्थयामास नृसिंहं शरभेश्वरम् ॥ यदा यदा ममाज्ञानमत्यहङ्कारदूषितम् । तदा तदाऽपनेतव्यं त्वयैव परमेश्वरः ॥ एवं विज्ञापयन्प्रीतः शंङ्करं नरकेसरी । नन्वशक्तो भवान्विष्णो! जीवितान्तं पराजितः ॥ तद्वक्त्रशेषमात्रान्तं कृत्वा शर्वस्य विग्रहम् । शुक्तिशित्यं तदामङ्गं वीरभद्रः क्षणात्ततः ॥ इति लिङ्गपुराणोक्ता श्रीनृसिंहकृता शरभाष्टोत्तरशतनामावलिः समाप्ता । Proofread by PSA Easwaran, Ruma Dewan
% Text title            : sharabhAShTottarashatanAmAvaliH 108 Names
% File name             : sharabhAShTottarashatanAmAvaliH.itx
% itxtitle              : sharabhAShTottarashatanAmAvaliH (liNgapurANoktaM shrInRisiMhakRitA)
% engtitle              : sharabhAShTottarashatanAmAvaliH by Shri Nrisimha from Lingapurana
% Category              : shiva, aShTottarashatanAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran, Ruma Dewan
% Description/comments  : Also in Askashabhairavatantra adhyAyaH 79.  See corresponding stotram
% Indexextra            : (Scans 1, 2, stotram)
% Latest update         : March 27, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org