शरभाष्टोत्तरशतनामावलिः
ॐ श्रीगणेशाय नमः ।
अथ आकाशतन्त्रे एकोनाशीतितमोऽध्यायः
शरभाष्टोतरशतनामस्तोत्रम्
श्रीशिव उवाच -
अस्य श्रीशरभाष्टोत्तरशतनाममहामन्त्रस्य योगानन्द ऋषिः
अनुष्टुप्छन्दः श्रीमदघोरवीरशरभेश्वरो देवता,
खं बीजम्, स्वाहाशक्तिः, फट् कीलकम्,
श्रीमच्छरभसालुवाष्टोत्तरशतनाम सिद्ध्यर्थे जपे विनियोगः ।
ध्यानम् -
अष्टाङ्घ्रिश्च सहस्रबाहुरनलच्छाया शिरोयुग्मधृग्-
यस्त्र्यक्षो द्विखुपुच्छउदितः साक्षान्नृसिंहासनः ।
अर्धेनापि मृगाकृतिः पुनरथाप्यर्धेन पक्ष्याकृतिः
श्री वीरः शलभः स पातु शलभश्चिन्त्यः सदा मां हृदि ॥
ॐ सदाशिवाय नमः । उग्ररूपाय । पक्षविक्षिप्तभूभृते । रुद्राय ।
रौद्राय । महाग्रासाय (महोग्रासाय) । विष्णवे (जिष्णवे) । उग्राय ।
भीमाय । क्रोधाय (क्रुद्धाय) । मन्यवे । भवाय । शर्वाय । शङ्कराय ।
शिवाय । कालकालाय । कालाय । महाकालाय । मृत्यवे । वीराय नमः । २०
ॐ वीरभद्राय नमः । क्षयद्वीराय । शूलिने । महादेवाय । महते ।
पशूनां पतये । एकाय । नीलकण्ठाय । श्रीकण्ठाय । पिनाकिने । अनन्ताय ।
सूक्ष्माय । मृत्युमृत्यवे (मृत्युमन्यवे) । पराय । परमेशाय ।
परात्परतराय (तत्पराय परमात्मने) । परापराय (परात्पराय) ।
विश्वाय । विश्वमूर्त्तये (विश्वमूर्तये) । विष्णुकलत्राय नमः । ४०
ॐ विष्णुक्षेत्राय । भानवे । कैवर्ताय (वैकर्ताय) । किराताय ।
महाव्याधाय । शाश्वते । भैरवाय । शरण्याय (शरव्याय) ।
महाभैरवरूपिणे । नृसिंहसंहर्त्रे । कामकालपुरारये
(कालकालपुरारये) । महापाशौघसंहर्त्रे (कर्मपाशौघसंहर्त्रे,
पाशौघसंहर्त्रे) । विष्णुमायान्तकारिणे । त्र्यम्बकाय । त्र्यक्षराय
(त्र्यक्षाय) । शिपिविष्टाय । मीढुषे । मृत्युञ्जयाय । सर्वज्ञाय ।
मखारये नमः । ६०
ॐ मखेशाय (खखोल्काय) नमः । वरेण्याय । वह्निरूपिणे
(वाग्भिरेतसे, वह्निरेतसे) । महाघ्राणाय (महाप्राणाय) । जिह्वाय
(देवाय) । प्राणापानप्रवर्त्तिने । त्रिगुणाय । त्रिशूलाय । गुणातीताय ।
योगिने । संसारप्रवाहाय (संसारचक्रवाहाय, संसारयन्त्रवाहाय) ।
महायन्त्रप्रवर्तिने । चन्द्राग्निसूर्याय (तमस्विद्व्योमसूर्याय) ।
मूर्तिवैचित्र्यहेतवे (मुक्तिवैचित्रहेतवे, मुक्तिवैचित्र्यहेतवे) ।
वरदाय । अवताराय (विकाराय) । सर्वकारणहेतवे । कपालिने । करालाय ।
पुण्यकीर्त्तये (पुण्यकीर्तये, पुण्यमूर्तये) नमः । ८०
ॐ अघोरायाग्निनेत्राय (अमोघायाग्निनेत्राय) नमः । लकुलीशाय
(नकुलीशाय, अकुलीशाय) । शम्भवे । भिषक्तमाय (भीषाम्बराय) ।
चण्डाय (मुण्डाय) । दण्डिने । घोररूपिणे (योगरूपिणे) । मेघवाहाय ।
देवाय । पार्वतीपतये । अव्यक्ताय । विशोकाय । स्थिराय । स्थिरधन्वने ।
स्थाणवे । कृत्तिवासाय । पञ्चार्थहेतवे । वरदाय (विरजाय) ।
एकपादाय । चन्द्रार्द्धमौलिने (चन्द्रार्द्धमौलये) नमः । १००
ॐ अध्वरराजाय नमः । वचसां पतये । योगीश्वराय । नित्याय ।
सत्याय । परमेष्ठिने (परमात्मने) । सर्वात्मने । सर्वेश्वराय
(सर्वस्वराय) नमः । १०८
सूत उवाच
नाम्नामष्टशतेनैव स्तुत्वाऽमृतये न तु ।
पुनस्तु प्रार्थयामास नृसिंहं शरभेश्वरम् ॥
यदा यदा ममाज्ञानमत्यहङ्कारदूषितम् ।
तदा तदाऽपनेतव्यं त्वयैव परमेश्वरः ॥
एवं विज्ञापयन्प्रीतः शंङ्करं नरकेसरी ।
नन्वशक्तो भवान्विष्णो! जीवितान्तं पराजितः ॥
तद्वक्त्रशेषमात्रान्तं कृत्वा शर्वस्य विग्रहम् ।
शुक्तिशित्यं तदामङ्गं वीरभद्रः क्षणात्ततः ॥
इति लिङ्गपुराणोक्ता श्रीनृसिंहकृता
शरभाष्टोत्तरशतनामावलिः समाप्ता ।
Proofread by PSA Easwaran, Ruma Dewan