॥ श्रीशरभसहस्रनामस्तोत्रम् ॥

श्रीगणेशाय नमः । श्रीदेव्युवाच । देवदेव महादेव भक्तानुग्रहकारकः । दुर्ल्लभा शारभी विद्या गुह्याद्गुह्यतरापरा ॥ १॥ गुटिका पादुका सिद्धिस्तथासिद्धिश्च खेचरी । शापानुग्रहसामर्थ्यापरकायाप्रवेशने ॥ २॥ सद्यः प्रत्यक्षकामार्थकेनसेव्याः सुरासुरैः । श्रीशिव उवाच । लक्षवारसहस्राणि वारितासि पुनःपुनः ॥ ३॥ स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि । महागुह्यं महागोप्यं वाञ्छाचिन्तामणि स्मृतम् ॥ ४॥ न वक्तव्यं त्वयादेवि शापितासिममोपरि । सर्वसिद्धिप्रदः साक्षात् शरभः परमेश्वरः ॥ ५॥ तस्यनामसहस्राणि तवस्नेहाद्वदामिते । श्रुणुचैकमनाभूत्वा सावधानावधारय ॥ ६॥ ब्रह्माविष्णुश्चरुद्रश्चईशकर्ताहमव्ययः । मोहनस्तम्भनाकर्षमारणोच्चाटनक्षमः ॥ ७॥ सिद्धिप्रदमसिद्धानां ज्ञानिनां ज्ञानसिद्धिदम् । मोक्षप्रदं मुमुक्षुणां नान्यथा श्रृणुसादरे ॥ ८॥ वन्ध्या वा काकवन्ध्या वा सद्यः पुत्रप्रदः स्त्रियां । सर्वशक्तियुतोदाता दयावान्शरभेश्वरः ॥ ९॥ तस्यनामसहस्राणिकथयासि तव प्रिये । ॐअस्यश्रीशरभसहस्रनामस्तोत्रमहामन्त्रस्य , श्रीभगवान्कालाग्निरुद्रऋषिः ,विराट्छन्दः , श्रीशरभेश्वरपक्षिराजो देवता , ॐ खं बीजं , स्वाहा शक्तिः , फट् इति कीलकं , मम धर्मार्थकाममोक्षार्थे जपे विनियोगः , ॐ भूर्भुवःस्वरोमितिदिग्बन्धः ॥ अथ ध्यानम् । चन्द्रार्कौवह्निदृष्टिः कुलिशवरनखश्चञ्चलात्युग्रजिह्वः कालीदुर्गाचपक्षौहृदयजठरगोभैरवोवाडग्निः । उरूस्थौव्याधिमृत्युशरभवरखगःश्चण्डवातातिवेगः संहर्तासर्वशत्रुन्सजयतिशरभःसालुवःपक्षिराजः ॥ मृगस्त्वर्द्धशरीरेणपक्षाभ्यां चञ्चुनाद्विजः अधोवक्त्र चतुश्पादरुर्ध्ववक्त्र चतुर्भुजः कालान्तदहनोपम्योनीलजीमूतिनिःस्वनः । अरिस्तद्दर्शनादेव विनष्टबलविक्रमः सटाछाटोग्रतुण्डायपक्षविक्षिप्तभूभृते अष्टपादायरुद्राय नमः शरभमूर्तये ॥ ॐ श्रीं श्रीं सिद्धिश्वरः साक्षात् खें खें गर्वापहारकः । ह्रीं ह्रीं स्प्रें स्फ्रें ह्सौं ह्सौं ज्लूं ज्लूं पक्षिराजः प्रतापवान् ॥ १॥ ह्रौं शिवायगिरीशायतारःसंसारपारगः । गतिदोमतिदः श्रीशः क्लीं क्लीं कामकलाधरः ॥ २॥ सिद्धिदः शरभो योगी स्प्रौं शिवः सिद्धिदायकः । सर्वकल्मषहर्त्ताच क्रीं क्रीं कालकलाधरः ॥ ३॥ प्रीं प्रीं पीताम्बरधरो भस्मोद्धूलित विग्रहः । व्रीं व्रीं विष्णु समाराध्यः सालुवः शक्तिमान्प्रभुः ॥ ४॥ वीरवीराङ्गणाराध्यो ह्रूं ह्रूं सङ्कष्टखण्डनः । शङ्करः शङ्कराराध्यो श्रां श्रीं श्रूं शरभेश्वरः ॥ ५॥ ग्रीं ग्रीं गणपतिः सेव्यो पक्षिराजो महाभुजः । ऐं श्रीं ह्रां ह्रीं ह्सौं ह्रीं क्लीं परमात्मासुरेश्वरः ॥ ६॥ स्वाहा श्रीदो महावीरो सर्वःसर्वै नमस्कृतः । ऐं क्लीं सौं ह्रौं ह्स्फ्रें ह्रैं खैं श्रैं ह्रैं परमेश्वरः ॥ ७॥ स्वाहा विद्यानिधान श्रीवामदेवः प्रतापवान् । ऐं ऐं वागीश्वरो देवो ह्रैं क्रैं त्रैं रक्षकः शिवः ॥ ८॥ ह्रीं फट् स्वाहा व्याघ्रचौरोनासनः सिद्धिसंयुतः । ब्रह्माविष्णुशिवाराध्यः ह्रीं शिवाप्राणवल्लभः ॥ ९॥ भ्रैं भ्रीं भस्मेश्वरीयुक्ता मृं मृं मृत्यु जयङ्करः । विश्वम्भरो विश्वकर्ता विश्वभर्ता गुरोर्गुरुः ॥ १०॥ क्लैं ह्रीं स्वाहा कीर्तियुक्तो ईश्वरः सकलार्थदः । गौरी गिरा महालक्ष्मी ह्रीं ऐं श्रीं नित्यमर्चिता ॥ ११॥ ह्लीं ह्लीं स्वाहाशिवः शम्भोवाचं वाचमगोचरः । ब्रह्मण्यो ब्रह्मकृद्ब्रह्म ज्रौं ज्रौं जाग्रन्महेश्वरः ॥ १२॥ ह्रौं ह्रौं स्वाहा धौतपापः शान्तात्मा शङ्करः खगः । पक्षीन्द्रो पक्षिराजश्च भक्तपक्षकरः परः ॥ १३॥ उत्कृष्टोत्कृष्ट कर्तात्मा श्रीं विश्वात्मा विभावस्सुः । क्रीं खीं खीं सुमुखानन्दो घ्रौं ख्रौं म्रौं प्रौं सनातनः ॥ १४॥ ऐं स्वाहा श्रीमहादेवो सृष्टिस्थितिलयङ्करः । उग्रतारो महातारो वीरतारो ज्वलोज्वलः ॥ १५॥ श्रीं ह्रीं क्रैं ज्लूं ह्सौं स्वाहा पार्वतीशः परात्परः ॥ १६॥ वरदः साधकानाञ्च राजावश्यं प्रजावशी । रैं रैं ध्रैं ध्रैं धराभारो हर्ता कर्ता धुरोधसः ॥ १७॥ वेदमन्त्रार्थ गूढात्मा शास्त्र मन्त्रार्थ सम्मतः । क्रीं स्वाहा परमोदाता ॐ ॐ निर्वाणसम्पदः ॥ १८॥ क्लौं प्लौं हूं हूं शिवास्वाहा राज्यभोगसुखप्रदः । सर्वसौभाग्य संयुक्तः रां रीं रूं रक्तलोचनः ॥ १९॥ सम्पन्नाक्षो विपन्नाक्षो य्रां य्रीं ज्रूं ज्वरमर्दनः । क्रीं ह्रीं हूं फट् पुनः स्वाहा देवदानव सेवितः ॥ २०॥ काली क्रीं ह्रीं शिवादुर्गा पक्षद्वय लसत्सुभः । स्वाहा मन्त्रान्वितः सत्यः सत्यः सत्य पराक्रमः ॥ २१॥ भीमो भयानको दक्षो द्रीं द्रूं दक्षमखापहः । रोगदोषहरः सिद्धः सिद्धिसाधनतत्परः ॥ २२॥ ह्रौं ह्रीं कालकालज्ञानी मानीदादि सुखावहः । ह्रीं फट् स्वाहा कविन्तर्क तर्कविद्याचरपुमान् ॥ २३॥ खर्याङ्गः खेचरी विद्या खां खीं खूं खगतेश्वरः । श्रीं ह्रीं स्वाहायुतो देवो राजराजो सुरेश्वरः ॥ २४॥ इच्छासिद्धिश्वरो देवो क्रियाशक्ति समन्वितः । आं ईं ऊं ज्ञानसंयुक्तो भगवान्सर्वसर्वजित् ॥ २५॥ ऐं फट् स्वाहा पञ्चतत्वात्पञ्चतन्मात्र सायकः । पञ्चकूटाष्टकूटेशौ शङ्करश्चन्द्रशेखरः ॥ २६॥ वां वीं वूं वैष्णवी विद्या श्रीं श्रीं स्वाहा धरणीधरः । अव्ययः सर्वकर्तात्मा शिवः कालान्तकोहरः ॥ २७॥ भूतवेतालजा बाधा शत्रुवा धारणोद्भवा । ख्रैं ख्रैं ह्रूं फट् पूर्णं घे घे सालुवाय प्रतापवान् ॥ २८॥ शीघ्रमारणदेवेश स्वाहा चण्डपराक्रमः । तीक्ष्ण नखं तीक्ष्ण दण्ष्ट्रं तीक्ष्णरूप भयङ्करः ॥ २९॥ तीव्रभक्तप्रतापोग्रं क्रैं ख्रौं स्वाहा स्वरूपकम् । सभाजितः सभामान्यः सभासंक्षोभकारकः ॥ ३०॥ क्ष्म्रौं ह्रौ क्ष्म्रौ ह्रौं ह्सौं ख्रौं ख्रौं सिद्धिमन्त्रनिवेशितः । श्रीं ह्रीं स्वाहा महादेवो आदिदेवो जगन्मयः ॥ ३१॥ सत्कर्तासत्कृतावर्तो ख्रें ख्रेङ्कारो चिदम्बरः । दिगम्बरो धराधीशो छ्रीं छ्रीं स्वाहा स्वरूपधृक् ॥ ३२॥ आदिविद्या जगद्विद्या क्लूं प्लूं म्लूं ह्रूं सुरोन्नतः । वामदक्षिणतोरूपं ह्रीं श्रीं क्लीं शङ्करोव्ययाः ॥ ३३॥ ख्रौं ख्रौं हुं हुं पुनः श्रीं श्रीं गिरिजाप्रियदर्शनः । स्वाहा विघ्नान्तकः सेव्यः सेवा फलप्रदायकः ॥ ३४॥ च्रीं च्रीं छ्रीं क्लीं महाछद्म छलहर्ता छलापहः । श्रीं ह्रीं स्वाहा शिवः शम्भो देवासुर नमस्कृतः ॥ ३५॥ कनकाङ्गदको धीरो मन्त्रतन्त्रवरप्रदः । मन्त्रतन्त्र पराधीनो मन्त्रतन्त्रविहारकः ॥ ३६॥ ऐं ह्रीं क्लीं मन्त्रसन्तुष्ठो प्रें स्वाहा परयेश्वरः । विश्वव्यापीमव्ययात्मा सिद्धाचारैः सुरार्चितः ॥ ३७॥ ह्रीं श्रीं क्लीं कमलानन्दो कालकालो निरामयः । हौं शिवायनमः स्वाहा भवानीशो भयापहः ॥ ३८॥ ज्रीं क्लीं ज्लूं ज्लूं ह्स्प्रें ह्रौं ह्रां ह्रां हं सः स्वरूपकः । विकारहर्ता सर्वज्ञो सर्वशत्रु क्षयङ्करः ॥ ३९॥ हूं हूं स्वाहा महादेवो मुनीनां प्राणदायकः । स्त्रौः ह्रौं विरागी क्रोधात्मा भ्रूं भ्रूं भस्मेश्वरोहरः ॥ ४०॥ लोकपूज्योविलोमात्मा मातृकापरिचारकः । क्लीं त्रीं फट् श्रीं जगद्धर्ता स्वाहा विश्वम्भरोहरः ॥ ४१॥ सिद्धिदातातिरक्ताक्षो रक्तजिह्वः सहस्रपात् । चण्डवातादिवेगात्मा ह्रीं ह्रीं क्लीं चण्डिकार्चितः ॥ ४२॥ रुण्डमालाधरः श्रीमान् ह्रौं ह्रौं स्वाहा खिलेश्वरः । धनधान्यागमः कर्ता कालहर्ता महेश्वरः ॥ ४३॥ खें खें हूं फट् पुनः सौं ह्रौं क्लीं स्वाहाभूतपालकः । भूतात्मा परात्मा च दुःखदुष्ट दुरासदः ॥ ४४॥ सत्यसङ्कल्पकर्तात्मा भूतनाथोव्ययः शुचिः । ह्रीं क्रीं ह्रीं क्रीं शिवानन्दा मदिरानन्दकन्दनः ॥ ४५॥ वामविद्याविहारीच क्रीं स्वाहा यक्षतर्पितः । ह्रीं स्वाहा खातनुः खात्मा खैं खैं हूं फट् स्वाहा तृषापहः ॥ ४६॥ क्षुधा तृषापहारी च क्षुधातृष्णाविवर्धनः । निरञ्जनो निराकारो निर्विकारो धराधरः ॥ ४७॥ यन्त्रमन्त्रप्रतापोग्र परकृत्या विनाशनः । ह्रीं ह्रीं कृत्यकरः शम्भः परकृत्याविषापहः ॥ ४८॥ आत्मविद्याविहारीचक्षुद्रविद्याविनाशकः । श्रीं ग्लीं खैं फट् पुनः स्वाहा शङ्खासुरविनाशनः ॥ ४९॥ त्रां त्रृं नृसिंहतेजोग्रान् ज्वलोज्ज्वलनवर्चसः । खौं खौं खां खां पुनः प्रें प्रें हूं फट् स्वाहा मदापहः ॥ ५०॥ गर्वगाम्भीर्यसिंहस्य नृसिंहस्य विनाशकृत् । गुणोदार गुणाधारो ह्रीं फ्रें शब्दपरायणः ॥ ५१॥ ऋषीणां सिद्धिकर्तात्मा श्रीं स्वाहा धनदार्चितः । तेजोमयः सहस्राक्षो ह्रीं स्वाहा हव्यभुक् स्वराट् ॥ ५२॥ क्लीं क्लीं क्लूं क्रैं ह्स्प्रें ह्सौं ऐश्वर्या निलोनलः । एकपादो द्विपादश्च बहुपादश्चचतुष्पदः ॥ ५३॥ क्रीं स्वाहा श्रीहयग्रीवो वीराराधितपादुकः । मारीभूत महाप्रेत वासुदेव मयोहरः ॥ ५४॥ भूतक्रीडा सुरक्रीडा क्रीडागन्धर्वकिन्नरः । दिव्यभोगी सुरापक्षो ह्रीं ह्रीं खां फट् परं पदः ॥ ५५॥ व्याधिहारी व्याधिहर्ता व्याधिनाशनतत्परः । वामी वाममार्गनिरतो सिद्ध साध्य सुसिद्धिदः ॥ ५६॥ पुष्टिदः स्तुष्टिदः स्वामी समर्थः सर्ववीर्यवान् । ग्लौं ग्लौं ह्रीं क्लीं ह्सौं श्रीं श्रीं हूं हूं स्वाहायहेश्वरः ॥ ५७॥ एहि एहि महावीरो एहि पक्षीन्द्र पक्षिराट् । ऐं पाण्डुवेषोभगवान्कालरूपी कलावरः ॥ ५८॥ वरिष्ठो धनदो शिष्टाविशिष्टः कुलरक्षकः । धर्माधिपो धर्ममूर्तिः ब्रह्म ब्रह्मविवर्द्धनः ॥ ५९॥ घां घां घां घोषनिरतो शरभः सर्वकामदः । फ्रैं फ्रैं श्रीं ह्रीं ह्सौं ह्रीं फट् पक्षीन्द्रो भगवान्हरः ॥ ६०॥ क्रौं क्रौं ह्रौं ह्रौं ह्सौं श्रीं ह्रीं हूं फट् शिकेवेंरः । शरभः कमलानन्दो उग्रोग्रः परमेश्वरः ॥ ६१॥ भू भुजङ्गमगस्तिञ्च पत्रपूजा परिग्रहः । मन्दारकुसुमामोदः मालतीकुसुमप्रियः ॥ ६२॥ म्लीं म्लीं श्रीं श्रीं ह्सौं ह्सौं ह्रीं ह्रीं क्लीं क्लीं इष्टार्थसिद्धिदः । असिताङ्गोसिताङ्गश्च पीताङ्गः परकृत्यहा ॥ ६३॥ खैं खैं स्वाहा सुरश्रेष्ठो विश्वात्मा विश्वजीवनः । रुरुचर्मपरीधानो रुरुभैरववन्दितः ॥ ६४॥ चण्डश्चण्डाङ्ग चण्डात्मा चञ्चचामरवीजितः । हौं हौं हौं पक्षिराजाय पक्षिराजाय क्रीं स्वराट् ॥ ६५॥ श्रीं श्रीं क्लीं ह्रीं ह्सौं स्वाहा योगीशो योगिनीप्रियः । कर्त्ता हर्ता कालातीतो कालसङ्कर्षणो घनः ॥ ६६॥ उन्मत्तोन्मत्तमर्द च भैरवोन्मन्त्रसंयुतः । मधुपानी मदाहारी आधारी सर्वदेहिनाम् ॥ ६७॥ मांसभक्षणकर्तात्मा विश्वरूपी महोज्ज्वलः । ऐश्वर्यदाता भगवान्श्री श्रीं लक्ष्म्याप्रपूजितः ॥ ६८॥ कामदेवकलारामीभिरामी शिवनर्तकी । महापापहरोदर्क वितर्कराज्यकृद्वशी ॥ ६९॥ श्रीं ह्रीं स्वाहेश्वरोदेवो कालीदुर्गावरप्रदः । कौतुकी कौतुकोयुक्तो कां कीं स्वाहा भयापहः ॥ ७०॥ महादेवो विरूपाक्षो शूलपाणिः पिनाकधृक् । शम्भुः पशुपतिर्दक्षो दीक्षितानाञ्जयङ्करः ॥ ७१॥ दां दां दीं दींद हौं डीं डीं डिंण्डिभा वानरः परः । ह्रीं स्वाहा पारगोस्वामी ढणढृणित पातकः ॥ ७२॥ ईश्वरो ईप्सितार्थाङ्गो ईं ईं रावत मातृकः । ह्स्प्रें ख्फ्रें ह्सौं ह्रीं ह्रीं क्ष्म्रीं त्रीं श्रीं कमलद्वयलाञ्छितः ॥ ७३॥ श्रीचक्ररक्षणोद्युक्तो त्रां त्रीं शत्रु विमर्दनः । गङ्गाधरो गाधमूर्ति श्लूं स्वाहा सर्वसम्पदः ॥ ७४॥ हरः मृत्युहरः कर्ता विधाता विश्वतोमुखः । एकचक्रो द्विवक्त्रश्च त्रिवक्त्रः पञ्चवक्त्रगः ॥ ७५॥ चतुर्वक्त्रः सप्तवक्त्रोषष्टवक्त्रोष्टवक्त्रगः । नववक्त्रो महाधीरो ह्रीं श्रीं खें खः सहस्रकः ॥ ७६॥ दशवक्त्रो महातेजो कामिनी महाभञ्जनः । ज्येष्ठो श्रेष्ठो महाश्रेष्ठो तथैकादशवक्त्रमी ॥ ७७॥ सर्वेश्वरी पराकाली सुन्दरी सुरसुन्दरः । श्यामचञ्चुःपुटो दीप्तो रक्तनेत्रो भयङ्करः ॥ ७८॥ श्मशानवासी सर्वात्मा सैन्यस्तम्भनकारकः । सेनानीपूजितः पादौसेनापतिजयङ्करः ॥ ७९॥ फ्रों च्रीं क्लीं त्रूं तथा आं ह्रीं क्रों हूं फट् स्वरूपकः । कार्यकर्ता कार्यवक्त्रा कार्यसाधनतत्परः ॥ ८०॥ श्रीं ह्रीं श्रीं क्लीं पुनः क्रीं क्रीं स्वाहा दुष्टार्थखण्डनः । परब्रह्मस्वरूपात्मा आत्मतत्वमयः पुमान् ॥ ८१॥ विद्यातत्वमयोदेवो शिवतत्व स्वयंहरः । सर्वतत्वार्थतत्वात्मा कामिन्याकर्षणोहरः ॥ ८२॥ क्लैं क्लैं क्लूं म्लूं ह्सूं ह्लीं श्रीं श्रीं श्रीं क्रीं क्रीं फट् परमं पदः । व्याधिहारी विहारीच क्रोधाद्राज्यविनाशनः ॥ ८३॥ रुधिराहारः सन्तुष्टो रक्तपः परमोव्ययः । पुरायात्मा पावनष्टात्मा कालभैरवभैरवः ॥ ८४॥ द्विजिह्वः पञ्चजिह्वाख्यो सप्तजिह्वः सनातनः । हूं हूं हूङ्कारचेतात्मा खें खें खण्डायुधान्वितः ॥ ८५॥ भ्क्लीं भ्क्लीं श्रीं ह्रीं ह्सौं क्लीं क्लीं ह्रीं हूं स्वाहा महाबली । कपाली कपिलाधारी क्रूं क्रूं क्रूं भगवान्भवः ॥ ८६॥ सिद्ध्यादिसेवितः श्रीं श्रीं ह्रौं ह्रौं स्वाहा जगन्मयः । चिन्मयश्चित्कलाकान्तः चैतन्यात्मा प्रतापयुक् ॥ ८७॥ कूं व्रूं ह्रूं श्रूं ह्सौं हौं हौं ॐ शिवाय नमः पदम् । त्रिनेत्रः परमानन्दो ह्रीं फट् स्वाहा सुरोवरः ॥ ८८॥ वरदो वरदाधीशो वायुवाहनवाहकः । वृषभारूढसर्वात्मन् हूं हूं हूं परमेश्वरः ॥ ८९॥ श्रीं ह्रीं ह्रीं ह्रीं ह्लौं क्रीं ह्रीं श्रीं श्रीं स्वाहामयो गुरुः । बृहस्पतिस्वरूपात्मा इन्द्रात्मा चन्द्रशेखरः ॥ ९०॥ चन्द्रचूडश्चन्द्रधारी चन्द्रार्द्धकृतशेखरः । ताम्बूलचर्वणीधाता रक्तदन्तः सुरोहितः ॥ ९१॥ कङ्कालधारी मुण्डात्मा रुण्डमालाधरः शिवः । व्याघ्राम्बरधरोधाता हर्ता संसारसागरः ॥ ९२॥ यमराज भयत्रासनाशनः सर्वकामुकः । भ्रष्टकर्ता सुरद्वेष्टा ये देवानाम्भयकरः ॥ ९३॥ सङ्ग्रामवारी धर्मात्मा सङ्ग्रामोजयवर्द्धनः । राजद्वारे सभामध्ये राजराजेश्वरः शिवः ॥ ९४॥ ह्रीं क्लैं क्लीं क्लूं ह्स्प्रें ऐं मोहनः सर्वभूभुजाम् । विश्वरूपो विशाम्भोक्ता योगोष्टाङ्गनिषेवितः ॥ ९५॥ जयरुद्र महाभाग वीरवीराधिपोज्ज्वलः । ऐं फट् ह्रीं फट् शिवः त्रीं फट् क्रीं फट् हूं फट् करः परः ॥ ९६॥ भस्मासुरेन्द्रवरदो भस्मासुरविनायकः । पञ्चावानवनाथात्मा षडधारमयोहरः ॥ ९७॥ षड्दर्शनसमोपुण्यः श्रीं ह्रीं क्लीं पुण्यदर्शकः । अकारादिक्षाकारान्तो वर्णमात्रार्थमात्रकः ॥ ९८॥ आं आं ईं ईं ह्लौं ह्रीं श्रीं सौः शिवः पापखण्डनः । ज्रां क्लीं ज्लूं क्लीं ह्सौं सौं हौं श्रीं स्वाहा ईशः परात्मनः ॥ ९९॥ एकाहिकोद्व्याहिकश्चतृतीयश्चचतुर्थकः । सर्वज्वरहरोदर्को ज्वरबाधानिवारणः ॥ १००॥ राजचोराग्निबाधाच ह्रीं ह्रूं शमनकारकः । च्रीं ह्स्प्रें ह्रौं ह्रीं ह्सौं ह्रीं फट् स्वाहा शङ्करशङ्करः ॥ १०१॥ महाराजाधिराजश्च राजराजोखिलेश्वरः । क्रीं छ्रौं ह्रीं फट् शिवायेति शरभाय नमोनमः ॥ १०२॥ भीषणोयत्रिशाशाखाय आदिमध्यान्तवर्जितः । आदिविद्या महाविद्या क्लीं छ्रीं ह्रीं खैं ह्स्प्रें हरः ॥ १०३॥ हूं हूं स्वाहा अमेयात्मा वरदो वरदेश्वरः । निष्कलङ्को वेदवक्ता वक्ताशास्त्रस्यबुद्धिमान् ॥ १०४॥ कर्ता कारणमीशानो भूर्भुवःस्वः स्वरूपकः । कुलमार्गरतः कौलः कौलिकानां धनप्रदः ॥ १०५॥ सुखराशिनिधानात्मा विज्ञानघनसाधनः । कालौकल्मषहर्तात्मा दुष्टम्लेच्छविनाशनः ॥ १०६॥ हूं खें खें खें ह्रीं ह्सौं हौं श्रीं क्लीं च्रीं ह्रीं ह्रीं नमोनमः । स्वाहा सर्वाममाचारी विचारी परमेश्वरः ॥ १०७॥ काशिमायातथाऽयोध्या मथुराकान्त्यवन्तिका । निवासीसर्वतीर्थात्मा कोटितीर्थ पदाश्रयः ॥ १०८॥ गङ्गासागरसिन्धुश्च प्रयागोपुष्करप्रियः । नैमिषीमैविषारण्यां नैमिषारण्यवासिनः ॥ १०९॥ पुष्करी पुष्कराध्यक्षो कुरुक्षेत्री च कौरवः । गोदावरीगयाचैव श्रीगिरिः पर्वताश्रयः ॥ ११०॥ गुहानिवासी भगवान् शरभः कमलेक्षणः । नृसिंहगर्वहर्तात्मा शुद्धाचाररतः सदा ॥ १११॥ सर्वधर्ममयोधीरोन्सर्वदेवमयः शिवः । ह्रीं फट् क्रीं फट् नमः खें फट् मन्त्रानां सिद्धिसम्पदः ॥ ११२॥ इतिनाम्नां सहस्राख्यां शरभस्य महात्मनः । पूजाकाले निशिथे च मध्याह्ने प्रपठेत्प्रिये ॥ ११३॥ प्रातःकाले व सन्ध्यायान्सभवेत्सम्पदापदम् । भौमावस्याचतुर्दश्यां संक्रान्तौ तौरविभौमयोः ॥ ११४॥ पठेद्भक्तिसंयुक्तो तस्य सिद्धिर्नसंशयः । शनिमङ्गलवारे च उर्ध्वदृष्टिः पठेन्नरः ॥ ११५॥ सभवेत्पार्वतीपुत्रो सर्वशास्त्रविशारदः । राजानौदासतां यान्ति भवेत्सर्वजनप्रियः ॥ ११६॥ असिताङ्गोरुरुश्चण्डो क्रोधश्चोन्मत्तभैरवः । कपालीभीषणश्चैवस्वयम्भैवभैरवः ॥ ११७॥ ये ये प्रयोगास्तन्त्रेषु नैस्तैसाधय यत्फलम् । तत्फलं लभतेसक्षिप्रं नामसाहस्रपाठतः ॥ ११८॥ भूतप्रेतपिशाचश्च वेतालासिद्धिचेटकाः । ते सर्वे विलयं यान्ति साधकस्यास्य दर्शनात् ॥ ११९॥ सिंहाऋक्षावानराश्च व्याघ्रान्सर्पावराहकाः । गजोष्ट्राक्रूरसत्वाश्रयेचान्येविषधारिणः ॥ १२०॥ ते सर्वे विलयं यान्ति साधकास्यास्य दर्शनात् । अष्टम्यां वा चतुर्दश्यां नवम्यां गुरु संयुतम् ॥ १२१॥ पूजयेत्परयाभक्त्या सभवेत्सम्पदापदम् । यो निन्दां कुरुते नित्यं नामसाहस्रपाठके ॥ १२२॥ ते दुष्टा नाशया यान्ति स्वकर्मस्यापराधतः । मोहनस्तम्भनाकर्षमारणोच्चाटनादिकम् ॥ १२३॥ पाठमात्रेणसिद्ध्यन्ति देतत्सत्यं न संशयः । श्मशानाङ्गारमाहृत्य सपर्यां कुजवासरे ॥ १२४॥ साध्यनामलिखेन्मध्ये पीतसूत्रेणवेष्टयेत् । निःक्षिपेच्छत्रु भवनेतस्य नश्यन्ति सम्पदः ॥ १२५॥ पुत्रनाशं कीर्तिनाशं धननाशं गृहक्षयम् । क्षयः सर्व कुटुम्बानां भूयात्सत्यं न संशयः ॥ १२६॥ गोपनीयमिदं तन्त्रं सद्यः प्रत्ययकारकम् । न देयं यस्य कस्यापि दत्वा सिद्धि क्षयो भवेत् ॥ १२७॥ स्वमातृयोनिवद्गोप्यं विद्यैषे त्यागमाजगुः । पठनीयमिदं नित्यं आत्मनाश्रेयमिच्छता । न मुञ्चतिगृहं तस्याल्लक्ष्मीवाणी सदैवहि ॥ १२८॥ ॥ इतिश्रीआकाशभैरवकल्पे उमामहेश्वरसंवादे शरभेश्वरसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Encoded and Proofread by Ravin Bhalekar ravibhalekar@hotmail.com

% Text title            : sharabheshvarasahasranAmastotram  sharabhasAluvapakShirAjasahasranAma
% File name             : sharabhasahasra.itx
% itxtitle              : sharabhasahasranAmastotram
% engtitle              : sharabhasahasranAmastotram
% Category              : sahasranAma
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravin Bhalekar ravibhalekar at hotmail.com
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : AkAshabhairavakalpe
% Latest update         : Feb, 25, 2009
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP