शरभेशाष्टकम्

शरभेशाष्टकम्

श्रीशिव उवाच - श‍ृणु देवि महागुह्यं परं पुण्यविवर्धनम् । शरभेशाष्टकं मन्त्रं वक्ष्यामि तव तत्त्वतः ॥ १॥ ऋषिन्यासादिकं यत्तत्सर्वपूर्ववदाचरेत् । ध्यानभेदं विशेषेण वक्ष्याम्यहमतः शिवे ॥ २॥ ध्यानम् - ज्वलनकुटिलकेशं सूर्यचन्द्राग्निनेत्रं निशिततरनखाग्रोद्धूतहेमाभदेहम् । शरभमथ मुनीन्द्रैः सेव्यमानं सिताङ्गं प्रणतभयविनाशं भावयेत्पक्षिराजम् ॥ ३॥ अथ स्तोत्रम् - देवादिदेवाय जगन्मयाय शिवाय नालीकनिभाननाय । शर्वाय भीमाय शराधिपाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ४॥ हराय भीमाय हरिप्रियाय भवाय शान्ताय परात्पराय । मृडाय रुद्राय विलोचनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ५॥ शीतांशुचूडाय दिगम्बराय सृष्टिस्थितिध्वंसनकारणाय । जटाकलापाय जितेन्द्रियाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ६॥ कलङ्ककण्ठाय भवान्तकाय कपालशूलात्तकराम्बुजाय । भुजङ्गभूषाय पुरान्तकाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ७॥ शमादिषट्काय यमान्तकाय यमादियोगाष्टकसिद्धिदाय । उमाधिनाथाय पुरातनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ८॥ घृणादिपाशाष्टकवर्जिताय खिलीकृतास्मत्पथि पूर्वगाय । गुणादिहीनाय गुणत्रयाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ९॥ कालाय वेदामृतकन्दलाय कल्याणकौतूहलकारणाय । स्थूलाय सूक्ष्माय स्वरूपगाय नमोऽस्तु तुस्तु तुभ्यं शरभेश्वराय ॥ १०॥ पञ्चाननायानिलभास्कराय पञ्चाशदर्णाद्यपराक्षयाय । पञ्चाक्षरेशाय जगद्धिताय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ११॥ नीलकण्ठाय रुद्राय शिवाय शशिमौलिने । भवाय भवनाशाय पक्षिराजाय ते नमः ॥ १२॥ परात्पराय घोराय शम्भवे परमात्मने । शर्वाय निर्मलाङ्गाय सालुवाय नमो नमः ॥ १३॥ गङ्गाधराय साम्बाय परमानन्दतेजसे । सर्वेश्वराय शान्ताय शरभाय नमो नमः ॥ १४॥ वरदाय वराङ्गाय वामदेवाय शूलिने । गिरिशाय गिरीशाय गिरिजापतये नमः ॥ १५॥ कनकजठरकोद्यद्रक्तपानोन्मदेन प्रथितनिखिलपीडानारसिंहेन जाता । (सकलभुवन पीडा) शरभ हर शिवेश त्राहि नः सर्वपापा- दनिशमिह कृपाब्धे सालुवेश प्रभो त्वम् ॥ १६॥ (कनकजठरपीनोद्रिक्तपानोन्मदेन सकलभुवन पीडानारसिंहेन जाता । झडिति सकरुणं यः सर्वदेवैः स्तुतस्तां अहरदभयदायी सालुवः पक्षिराजः ॥ १६॥ दंष्ट्रानखोग्रः शरभः सपक्षः चतुर्विधश्चाष्टपदः चतुर्भुजः । किरीटगङ्गेन्दुधरो नृसिंहक्षोभापहोऽस्मद्रिपुहास्तु शम्भुः ॥ १७॥ शरभेशस्तवं नित्यं यः पठेत् शिवसन्निधौ । इह भुक्त्वाऽखिलान्भोगानन्ते ब्रह्मपुरं व्रजेत् । इति शरभकल्पतः ।) सर्वेश सर्वाधिकशान्तमूर्ते कृतापराधानमरानथान्यान् । विनीय विश्वविधायि नीते नमोऽस्तु तुभ्यं शरभेश्वराय ॥ १७॥ दंष्ट्रानखोग्रः शरभः सपक्षश्चतुर्भुजश्चाष्टपदः सहेतिः । कोटीरगङ्गेन्दुधरो नृसिंहक्षोभापहोऽस्मद्रिपुहास्तु शम्भुः ॥ १८॥ हुङ्कारी शरभेश्वरोऽष्टचरणः पक्षी चतुर्बाहुकः । पादाकृष्टनृसिंहविग्रहधरः कालाग्निकोटिद्युतिः । विश्वक्षोभहरः सहेतिरनिशं ब्रह्मेन्द्रमुख्यैः स्तुतो गङ्गाचन्द्रधरः पुरत्रयहरः सद्यो रिपुघ्नोऽस्तु नः ॥ १९॥ मृगाङ्कलाङ्गूलसचञ्चुपक्षो दंष्ट्राननाङ्घ्रिश्च भुजासहस्रः । त्रिनेत्रगङ्गेन्दुधरः प्रभाढ्यः पायादपायाच्छरभेश्वरो नः ॥ २०॥ नृसिंहमत्युग्रमतीवतेजःप्रकाशितं दानवभङ्गदक्षम् । प्रशान्तिमन्तं विदधाति यो मां सोऽस्मानपायाच्छरभेश्वरोऽवतु नः ॥ २१॥ योऽभूत् सहस्रांशुशतप्रकाशः स पक्षिसिंहाकृतिरष्टपादः । नृसिंहसङ्क्षोभशमात्तरूपः पायादपायाच्छरभेश्वरो नः ॥ २२॥ त्वां मन्युमन्तं प्रवदन्ति वेदास्त्वां शान्तिमन्तं मुनयो गृणन्ति । दृष्टे नृसिंहे जगदीश्वरे ते सर्वापराधं शरभ क्षमस्व ॥ २३॥ करचरणकृतं वाक्कर्मजं कायजं वा श्रवणनयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत्क्षमस्व शिव शिव करुणाब्धे श्रीमहादेव शम्भो ॥ २४॥ रुद्रः शङ्कर ईश्वरः पशुपतिः स्थाणुः कपर्दी शिवो वागीशो वृषभध्वजः स्मरहरो भक्तप्रियस्त्र्यम्बकः । भूतेशो जगदीश्वरश्च वृषभो मृत्युञ्जयः श्रीपतिः योऽस्मान् कालगलोऽवतात्पुरहरः शम्भुः पिनाकी हरः ॥ २५॥ यतो नृसिंहं हरसि हर इत्युच्यते बुधैः । यतो बिभर्षि सकलं विभज्य तनुमष्टधा ॥ २६॥ अतोऽस्मान् पाहि भगवन्प्रसीद च पुनः पुनः । इति स्तुतो महादेवः प्रसन्नो भक्तवत्सलः । २७॥ सुरानाह्लादयामास वरदानैरभीप्सितैः । प्रसन्नोऽस्मि स्तवेनाहमनेन विबुधेश्वराः ॥ २८॥ मयि रुद्रे महादेवे भयत्वं भक्तिमूर्जितम् । ममांशोऽयं नृसिंहोऽयं मयि भक्ततमस्त्विह ॥ २९॥ इमं स्तवं जपेद्यस्तु शरभेशाष्टकं नरः । तस्य नश्यन्ति पापानि रिपवश्च सुरोत्तमाः ॥ ३० ॥ नश्यन्ति सर्वरोगाणि क्षयरोगादिकानि च । अशेषग्रहभूतानि कृत्रिमाणि ज्वराणि च ॥ ३१॥ सर्पचोराग्निशार्दूलगजपोत्रिमुखानि च । अन्यानि च वनस्थानि नास्ति भीतिर्न संशयः ॥ ३२॥ इत्युक्त्वान्तर्दधे देवि देवान् शरभसालुवः । ततस्ते स्व-स्वधामानि ययुराह्लादपूर्वकम् ॥ ३३॥ एतच्छरभकं स्तोत्रं मन्त्रभूतं जपेन्नरः । सर्वान्कामानवाप्नोति शिवलोकं च गच्छति ॥ ३४॥ इति श्रीआकाशभैरवकल्पोक्तं प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शरभेशाष्टकस्तोत्रमन्त्रं सम्पूर्णम् । श्लोकानि २५-३४ शरभशान्तिस्तोत्रम् Verses 25-34 are marked as sharabhashAntistotram Proofread by Venkata Subramanian, PSA Easwaran
% Text title            : Sharabhesha Ashtakam
% File name             : sharabheshAShTakam.itx
% itxtitle              : sharabheshAShTakam
% engtitle              : sharabheshAShTakam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Venkata Subramanian, PSA Easwaran
% Description-comments  : (shlokAni 25\-34 sharabhashAntistotram)
% Indexextra            : (Scan)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org