श्रीशरभेश्वरकवचम्

श्रीशरभेश्वरकवचम्

(शरभकवचम्) ॐ श्रीगणेशाय नमः । श्री देव्युवाच । सर्वज्ञ सर्वमन्त्रस्य सर्वाचार्य शिव प्रभो । शरभं कवचं दिव्यं सर्वरक्षाकरं परम् ॥ १॥ वज्रपञ्जर नामाख्यं वद मे करुणाकर । श्रीशिव उवाच । वक्ष्यामि श‍ृणु देवेशि सर्व लक्षणमद्भुतम् । (श‍ृणु ते देवि) शारभं कवचं नाम्ना चतुर्वर्गफलप्रदम् ॥ २॥ शरभ-सालुव-पक्षिराजाख्य कवचस्य तु । (शरभशालुव) सदाशिव ऋषिश्छन्दो बृहती शरभेश्वरः ॥ ३॥ देवता प्रणवं बीजं प्रकृतिः शक्तिरुच्यते । कीलकं पक्षिराजाय सर्वरक्षाकरोविभुः ॥ ४॥ पर-प्रयोग-शान्त्यर्थ सर्वशत्रुनिवृत्तये । चतुर्वर्गार्थ-सिध्यर्थे विनियोगोऽथ भावना ॥ ५॥ ध्यानम् । रक्ताभं सुप्रसन्नं त्रिनयनममृतोन्मत्त भाषाभिराममं कारुण्याम्भोधिमीशं वरदमभयदं चन्द्ररेखावतंसम् । (शरभमभयदं) शङ्ख-ध्माताखिलाशा प्रतिहतविधिना भासमानात्म-भावं (शङ्खध्वानाखिलाशा) सर्वेशं सालुवेशं प्रणतभयहरं पक्षिराजं नमामि ॥ ६॥ (सर्वेशंशालुवेशं) ॐ श्री शिवः पुरतः पातु मायाधीशस्तु पृष्ठतः । पिनाकी दक्षिणं पातु वामपार्श्वं महेश्वरः ॥ १॥ शिखाग्रं पातु मे शम्भुर्निटिलं पातु शङ्करः । ईश्वरो वदनं पातु भ्रुवोर्मध्यं पुरान्तकः ॥ २॥ भ्रुवौ पातु मम स्थाणुः कपर्दी पातु लोचने । शर्वो मे श्रोत्रयोः पातु वागीशः पातु लम्बिकाम् ॥ ३॥ (श्रोत्रके पातु) नासयोर्मे वृषारूढो नासाग्रं वृषभध्वजः । (नासिके, नासाग्रे) स्मरारिः पातु मे ताल्वेरोष्ठयोर्भक्तवत्सलः ॥ ४॥ जिह्वां मम सदा पातु सर्वविद्या प्रदायकः । पातु मृत्युञ्जयो दन्तान्चिबुकं पातु भूतराट् ॥ ५॥ परमेशः कपोलौ मे त्रिकं पातु कपालभृत् । कण्ठं पशुपतिः पातु शूली पातु हनू मम ॥ ६॥ स्कन्धद्वयं हरः पातु धूर्जटि पातु मे भुजौ । भुजसन्धिं महादेव ईशानो मे प्रकूपरे ॥ ७॥ मध्यसन्धी जगन्नाथः प्रकोष्ठे चन्द्रशेखरः । मणिबन्धौ त्रिनेत्रो मे भीमः पातु करस्थले ॥ ८॥ करपृष्ठे मृडः पातु रुद्रोऽगुंष्ठद्वये मम । उमासहायस्तर्जन्यौ भर्गो मे पातु मध्यमे ॥ ९॥ अनामिके करालास्यः कालकण्ठः कनिष्ठिके । गङ्गाधरोऽङ्गुलीपर्वाण्यप्रमेयो नखानि मे ॥ १०॥ वक्षस्तत्पुरुषः पातु कक्षे दक्षाध्वरान्तकः । अघोरो हृदयं पातु वामदेव स्तनद्वयम् ॥ ११॥ भालदृक् जठरं पातु नाभिं नारायणप्रियः । कुक्षौ प्रजाकरः पातु कुक्षिपार्श्वे महाबलः ॥ १२॥ सद्योजातः कटी पातु पृष्ठभागं तु भैरवः । मोहनोजघनं पातु गुदं मम जितेन्द्रियः ॥ १३॥ ऊर्ध्वरेता लिङ्गदेशं वृषणं विश्वमोहनः । ऊरूद्वयं भवः पातु जानुयुग्मं भवान्तकः ॥ १४॥ (ऊरुयुग्मं हरः पातु) हुङ्कारः पातु मे जङ्घे फट्कारो मम गुल्फके । वषट्कारः पादपृष्ठे वौषट्कारोऽङ्घ्रिणस्तले ॥ १५॥ (खट्कारः) स्वाहाकारोऽङ्गुलीपार्श्वे स्वधाकारोऽङ्गुलीर्मम । त्वरितः सर्व सन्धीन्मे रोमकूपाणि सिंहजित् ॥ १६॥ (त्वरितः सन्धिबन्धं मे) त्वचं पातु मनोवेगः कालजिद्रुधिरं मम । पुष्टिदः पातु मे मांसं मेदो मे स्वस्तिदोऽवतु ॥ १७॥ सर्वात्मास्थिचयं पातु मज्जानं मे जगत्प्रभु । (मज्जां मम) शुक्रं वृद्धिकरः पातु बुद्धिं वाचामधीश्वरः ॥ १८॥ मूलाधाराम्बुजं पातु भगवान्शरभेश्वरः । स्वाधिष्ठानमजः पातु मणीपूरं हरिप्रियः ॥ १९॥ अनाहतं सालुवेशोविशुद्धं जीवनायकः । (शालुवेशोविशुद्धं) सर्वज्ञानप्रदोह्याज्ञां ललाटं मे सदाशिवः ॥ २०॥ (प्रदो देवो) ब्रह्मरन्ध्रं महादेवः पक्षिराजोऽखिलात्मवान् । सर्वलोकवशीकारः पातु मां परगर्वजित् ॥ २१॥ वज्र-मुष्टि-वराभीतिहस्तः कालाभ्रसन्निभः । विजया सहितः पातु चैन्द्रीं ककुभमग्निजित् ॥ २२॥ शक्ति-शूल-कपालासिहस्तः सौदामिनीप्रभः । जयायुतो महाभीमः पातु वैश्वानरीं दिशम् ॥ २३॥ दण्डासि-मुसलं-हाल-पाशाङ्कुश कराम्बुजः । (दण्डासि-मुसली सीर) यमान्तकोऽजितायुक्तो याम्यीं पातु दिशं ममः ॥ २४॥ (कामान्तकोऽजितायुक्त्ऱः दिशं याम्यां सदाऽवतु) खड्ग-खेटासि-परशुहस्त-शत्रुविमर्दनः । (खेटाग्नि) अपराजितया युक्तः सदाव्यान्नैरॄतिं दिशम् ॥ २५॥ पाशाङ्कुश-धनुर्बाण-पाणि-घोणियुतोऽग्रकः । हरिद्राभोऽनिशं पायाद्वारुणीं दिशमात्मजित् ॥ २६॥ ध्वज-चक्रयुतोदारिभुजो दुर्गा युतोऽर्गलः । (ध्वजछत्रगदाकुन्त) चण्डवेगः शिवः पायात्सततं मारुती दिशम् ॥ २७॥ गदास्त्रग्वरदाभीति कराम्भोज श्रियायुतः । (गदाक्षर) कनकाभो महातेजः पातु कौबेरकीदिशम् ॥ २८॥ त्रिशूलाहि-कपालाग्निदोस्तलो विद्ययायुतः । भस्मोद्धूलितसर्वाङ्ग ऐशीं पात्वपराजितः ॥ २९॥ (सर्वाङ्गो दिशं पातु शिवप्रियाम्) जपास्त्रक्पुस्तकाम्भोज कमण्डलुं कराम्बुजः । (जपस्रक्) ऊर्ध्वं पातु गिरायुक्तः सर्वभूतहितेरतः ॥ ३०॥ शङ्ख-चक्र-गदाऽभीति-हस्तः पद्मायुतोऽव्ययः । कालाञ्जनसमोनीलः पातालं पात्वनारतम् ॥ ३१॥ (नीलाञ्जनो) अनुक्ता विदिशः पातु सालुवो नारसिंहजित् । शरभः पातु सङ्ग्रामे युद्धे वैरिकुलान्तकः ॥ ३२॥ सर्वसौभाग्यदः पातु जाग्रत्स्वप्नसुषुप्तिषु । सर्वसम्पत्प्रदः पातु धनधान्यादिकं मम ॥ ३३॥ सन्तानदः सुतान्पातु दारानायुष्करोऽनिशम् । (पुत्रानायुषकरो) बन्धून्वृद्धिकरः पातु गृहं सर्ववशङ्करः ॥ ३४॥ ग्रामं ग्रामेश्वरः पातु राज्यं पातु दिगम्बरः । राष्ट्रं शान्तिकरः पातु राजानं धर्मशासकः ॥ ३५॥ मार्गं दुष्टहरः पातु धर्मकर्माणि भैरवः । बटुकः पातु मे सर्वं त्र्यवस्थासु भयेषु च ॥ ३६॥ स्पर्श-वीक्षण-संयुक्तः प्राणरक्षां मनोजवः । प्रधानमूर्तिभावश्च प्रासादेष्वाशुसिद्धिकृत् ॥ ३७॥ साधकः प्रणवं बीजं नमो भगवतेति च । (प्रणवं ध्यायान् ज्वलद्द्विः प्रज्ज्वलद्वयम्) प्रतिनाम चतुर्थ्यन्तं स्पर्श इत्यभिधीयते ॥ ३८॥ (प्रत्यावृत्ति चतुर्थ्यन्तं) द्विर्ज्वल-प्रज्वले साध्यं साधय द्विर्द्वि रक्ष तत् । सर्वदुष्टेभ्यो हुं फट् स्वाहान्त युग्वीक्षणम् ॥ ३९॥ स्पृशन् पश्यन् जपं कृत्वा प्रतिस्थानं समाहितः । (स्पर्शं स्पर्शं जपं) प्रार्थयेदखिलं स्वेष्टं हृदिस्थं सालुवेश्वरम् ॥ ४०॥ (शालुवेश्वरम्) ये ग्रामघातकाः क्रूराः कपटा दौष्टिका भटाः । (कपटा दुर्मदा ग्रहाः) तस्कराः शत्रवः क्रुद्धा वधे सक्ताः पलाशनाः ॥ ४१॥ छद्मचाराः विटाः भ्रष्टास्दिवाचर-निशाचराः । ते सर्वे पक्षिराजस्य पक्षवातपराहताः ॥ ४२॥ स्त्री-बाल-सहिताः क्षिप्रं पितृ-मातृ कुलान्विताः । भग्नचित्ता गतस्थाना यान्तु देशान्तरं स्वयम् ॥ ४३॥ (जगस्थाना यान्तु) ये च दुष्टग्रहा रक्षः-पिशाचाः देवयोनयः । (ये तु दुष्टाहा यक्षाः) चतुःषष्टिगणाः सप्तसप्तत्युन्मादका ग्रहाः ॥ ४४॥ (मत्तका ग्रहाः) अष्टाशीति महाभूताः सप्तकोटि महाग्रहाः । नवति ज्वरभेदाश्च शतभेदाश्च कृत्तिकाः ॥ ४५॥ (शतभेदाश्च कृत्रिमाः ) पञ्चाशद् गणनाथाश्च नियुता कृत्रिमा ग्रहाः । प्रेतारूढास्त्रयस्त्रिंशत्पिण्डदान परायणाः ॥ ४६॥ अयुतं क्षुद्र-भेदाश्च चत्वारिंशच्छिवाह्वयाः । द्वात्रिंशद्वह्निवक्त्राश्च त्रिंशन्मार्जारवक्त्रकाः ॥ ४७॥ चतुःषष्ट्याखुरूपाश्च ये चान्ये क्षुद्रयोनयः । ते सर्वे सालुवेशस्य शङ्ख-निःस्वन-मोहिताः ॥ ४८॥ (शालुवेशस्य) विषण्णाः खिलतःस्वान्ताः प्राण-त्राण-परायणाः । गच्छन्तु सम्प्रयोक्तारो देशान्तरमनिच्छया ॥ ४९॥ (सत्प्रयोक्तारो) ये च मूषक-वैडालाः शुनकोरगवृश्चिकाः । आशीविषाः शिवा व्याला व्याघ्र-ऋक्षेभसूकराः ॥ ५०॥ (शूकराः) गृध्राः श्येनाः खगाः कङ्का दंशका भ्रंशका मृगाः । (काकदंशका भृशका ग्रहाः) एते शरभहस्ताग्र-नख-क्षतविमोक्षगाः ॥ ५१॥ स्रवद्रक्ततलासिक्ताः शिलातलनिपीडिताः । सम्भिन्नतनवः शीघ्रं नश्यत्खिलदुश्चराः ॥ ५२॥ न दंशन्तूरगाः क्वापि नातिवातोऽपि वीजतु । (नातिवातोऽपि धातु च) न दहत्वसहो वह्निरायान्त्वापो न चाधिकाः ॥ ५३॥ न वर्षत्वतिवृष्टिश्च न पतत्वशनिः क्वचित् । नाक्रामत्वपमृत्युश्च नास्त्युत्पातं कदाचन ॥ ५४॥ न भ्रियन्त्वम्भसि जना न भवत्वशुभं क्वचित् । न वदन्त्वसहं वाक्यं जन्तवो मम देशके ॥ ५५॥ नास्ति वैरं तु जन्तूनामन्योऽयं राजके मम । भवन्तु सुखिनः सर्वे नार्यः सन्तु पतिव्रताः ॥ ५६॥ (सर्वे सर्वाः सन्तु) सर्वाः सूयन्तु सत्पुत्रान्पुत्रीश्च शुभलक्षणाः । सर्वे देवाश्च नन्दन्तु सन्तु कल्याणकारकाः ॥ ५७॥ राजन्वती मही चास्तु राजा भवतु धार्मिकः । ससंस्त्रवं-पयोगावः फलन्त्वोषधयोऽधिकम् ॥ ५८॥ (संस्रवन्तु पयो) भवन्तु फलदा वृक्षाः सिद्धिर्भवतु मेऽखिला । ममास्तु तरसा नूनमात्मज्ञानमचञ्चलम् ॥ ५९॥ महाक्रोध-महालोभाः समदा लोभ मत्सराः । (मोह मत्सराः) न सन्तु क्वापि मे सर्वे भगवन्करुणानिधे ॥ ६०॥ (नाक्रामेयुश्च सर्वेश्) शरभेश्वर विश्वेश पक्षिराज दयानिधे । देहि मे ह्यचलां भक्ति प्रणतोऽस्मि पुनः पुनः ॥ ६१॥ गौरिवल्लभ कामारे कालकूटविषादन । मामुद्धरापदम्भोधेस्त्रिपुरघ्नान्तकान्तक ॥ ६२॥ सालुवेश (शालुवेश) जगन्नाथ सर्वभूतहिते रत । (शालुवेश) पाहि मां तरसा चौरान्दुष्टान्नाशय नाशय ॥ ६३॥ (त्राहि मां तरसा घोरान्) कालभैरव विश्वेश विश्वरक्षापरायण । रक्ष मूषक-चौरेभ्यो धान्यराशिमिमं प्रभो ॥ ६४॥ (मूषिकचोरेभ्यो) पक्षिराज महादेव प्रणतार्तिविनाशन । मदीयानि पदार्थानि नित्यं पालय पालय ॥ ६५॥ सर्वज्ञ सर्वलोकेश सर्वदुष्टविनाशन । तस्करेण हृतं वस्तु द्रुतं दापय दापय ॥ ६६॥ ये मर्मवादिनः क्षुद्राः छिद्रोपद्रवकारकाः । (ये मर्मघातिनः) सर्वाचार-परिभ्रष्टा मानहीनाश्च रोधकाः ॥ ६७॥ (सर्वाचारपरित्यक्ताः) ते सर्वे सालुवेशस्य मुसलायुधचूर्णिताः । (शालुवेशस्य) नश्यन्तु निमिषार्धेन पावकावृततूलवत् ॥ ६८॥ ये जना द्रोहिणोऽश्लाघ्यास्त्वकालोचितभाषणाः । (ये जनद्रोहिणोऽल्पाश्च दुरालोचितभाषिणः) सत्कर्म विघ्नकर्तारः शान्त भर्त्सापरायणाः ॥ ६९॥ (सत्कर्मविघ्नकर्तारश्चासत्कर्मपरा नराः) ते सालुवेश हस्ताग्र-खड्गनिर्भिन्नदेहिनः । (शालुवेशहस्ताग्रहस्तनिर्भिन्नदेहिनः) पतन्तु भूतले याम्यां प्राणास्तेषां प्रयान्त्वरम् ॥ ७०॥ (प्रयान्तु वै) त्वदङ्घ्रि ध्यान निर्दग्ध पापकोशाय मन्त्रिणे । (पापकोशाय मे शिव) मह्यं द्रुह्यन्ति ये तेषां विभवानि क्षयन्त्वरम् ॥ ७१॥ त्वदाचारं परं भक्तं साधकानां विवेकिनम् । य आक्रमन्ति सङ्ग्रामे ते गच्छन्तु पराहताः ॥ ७२॥ (आक्रामन्ति च सङ्ग्रामे) त्वदीयेनैव मार्गेण सञ्चरन्तं जपातुरम् । (मार्गेण चरतां जपतां सदा) ये वदन्ति परीवादं भ्रान्ताः शीघ्रं भवन्तु ते ॥ ७३ ॥ (परीवादे) त्वद्दासममलं धीरं ये मां तर्जयितुं बलात् । (त्वद्दासमुख्यं मां धीरं तर्जयन्ति बलाच्च ये) मनसा ये न मन्यन्ते तत्स्वान्तं भ्रमतु क्षणात् ॥ ७४॥ (मनसा येऽव्मन्यन्ते) मनसा कर्मणा वाचा ये कुर्वन्त्यतिदुःसहम् । ते महाशोकरोगाब्धौ पतन्त्वाशु शिवाज्ञया ॥ ७५॥ मदीयानि पदार्थानि गृहीतुं योऽवलोकते । (ग्रहितुं) तत्क्षणादेव नष्टाक्षो भवत्वाश्वीश्वराज्ञया ॥ ७६॥ (भवत्वाशु शिवाज्ञया) मदीयं द्रव्यमादाय ये गच्छन्तीह तस्कराः । सिंहारि-पाश-सम्बद्धास्ते चरन्तु प्रदक्षिणम् ॥ ७७॥ (पाशसम्बन्द्धात् ते) सीमातीताश्च ये चौरा गृहीतद्रव्यसञ्चयाः । (सीमान्तरगताश्चोरा) अवशावयवास्ते तु आगच्छन्तु शिवाज्ञया ॥ ७८॥ (च गच्छन्तु शरभाज्ञया) तस्कराः निम्नगातीताः स्वान्त-धान्य-धनाधिकाः । (तस्करा येऽपगृह्णन्ति मम धान्यधनादिकम्) पक्षिराजाङ्कुशाकृष्टाः समागच्छन्तु मद्गृहम् ॥ ७९॥ (पक्षिराट् क्रोडिकाकृष्टाः समागच्छन्तु ते द्रुतम्) समाहृत-पदार्थाद्या देशातीताश्च तस्कराः । शरभेश-हलाकृष्टास्ते आगच्छन्तु वै द्रुतम् ॥ ८०॥ चौरा ग्रहीतुमुद्युक्ताः समागच्छन्ति मद्गृहे । ते सालुवेशपक्षोत्थवातैर्गच्छन्तु सत्वरम् ॥ ८१॥ (शालुवेशपक्षोत्थवातैर्गच्छन्तु) शान्तं विवेकिनं भक्तं त्वदङ्घ्रि ध्यानतत्परम् । ब्रुवन्ति ये सहप्राणास्तेषां यान्ति यमीं पुरीम् ॥ ८२॥ (द्रुह्यन्ति य इह प्राणास्तेषां यान्तु यमं शिव) षट्त्रिंशत्कोष्टके यन्त्रे रेखाशूलाग्रसाध्यके । स्वेच्छामन्त्रं लिखित्वा तु जपेदाराध्य साधकः ॥ ८३॥ मध्ये पाशाङ्कुशे वह्नि साध्य नाम लिखेत्क्रमात् । उदङमुखः सहस्त्रं तु रक्षणाय जपेन्निशिः ॥ ८४॥ नष्टाहरणके पञ्चरात्रं पश्चिम-दिङ्मुखः । मारणे सप्तरात्रं तु दक्षिणाभिमुखो जपेत् ॥ ८५॥ रोगनिग्रहणे चाष्टरात्रमाग्नेयदिङ्मुखः । इति गुह्यं महामन्त्रं परमं सर्वसिद्धिदम् ॥ ८६॥ शरभेशाख्यकवचं चतुर्वर्गफलप्रदम् । प्रत्यहं प्रतिपक्षं वा प्रतिमासमथापि वा ॥ ८७॥ यो जपेत्प्रतिवर्षं वा वरेण्यः स शिवो भवेत् । एवं हि जपतः पुंसां पातकं चोपपातकम् ॥ ८८॥ तत्सर्वं लयमाप्नोति रविणा तिमिरं यथा । दशाब्दं यो जपेन्नित्यं प्रातरुत्थाय साधकः ॥ ८९॥ सर्वसिद्धिं समाश्लिष्य देहान्ते स शिवो भवेत् । (सर्वसिद्धिं समाश्रित्य) त्रिकालं ध्यानपूर्वं तु जपेद्द्वादशवार्षिकम् । कायेनानेन सो देवि जीवन्मुक्तो भवेन्नरः ॥ ९०॥ (जीवन्मुक्तो भवेच्छिवे) शतवारं जपेन्नित्यं मण्डलं यो वरानने । सोऽणिमादिगुणान्प्राप्य विचरेत्स्वेच्छया सदा ॥ ९१॥ अतलादिधरण्यादि भुवनानि चतुर्दश । (अतलादिधरण्यन्तर्भुवनेषु तथोपरि) विचरेत्कामतः सर्वैः पूज्यमानो यथासुखम् ॥ ९२॥ (विचरेत्कामगः) त्रिमासं यो जपेन्नित्यमष्टोत्तरसहस्रकम् । सहसा शरभेशस्य सारूप्यं लभतेऽम्बिके ॥ ९३॥ षण्मासं यो जपेद्देवि प्रयतस्तु दृढव्रतः । मद्रूपधारको मर्त्यः सर्वसिद्धिप्रदायकम् ॥ ९४॥ (मद्रूपधारकैर्मत्यैः सहसिद्धिप्रदायकैः) मम लोके सम्पूज्यो विष्णुलोके विशेषतः । ब्रह्मलोके च रमते सर्वत्र न निवार्यते ॥ ९५॥ इन्द्राग्नियमरक्षेशजलेशपवनैः सह । सोमेशैः सह रुद्रेशैर्दिशाम्पालैः स पूज्यते ॥ ९६॥ (सोमेशानकलक्ष्मीशैर्दिशाम्) आदित्य-सोम-पृथ्वीज-बुध-श्रीगुरु-भार्गवैः । पूज्यते स ग्रहैः सर्वैस्सशनि-राहु-केतुभिः ॥ ९७॥ भृग्वङ्गिरः-पुलस्त्यैश्च-पुलहात्रि मरीचिभिः । (पुलहादि) दक्ष-कश्यप-भृग्वाद्यैर्योगिभिश्च स पूज्यते ॥ ९८॥ (दक्षकाश्यपक्रत्वब्जयोनिभिः स च पूज्यते) भैरवैर्वसुभी रुद्रैरादित्यैर्बालखिल्यकैः । दिग्गजैश्च महानागैर्दिव्यास्त्रैर्दिव्यवाहनैः ॥ ९९॥ माहेश्वरैर्महारत्नैः कामधेनु-सुरद्रुमैः । सरिद्भिः सागरैः शैलैर्देवताभिस्तपोधनैः ॥ १००॥ दानवै राक्षसैः क्रूरैः सिद्ध-गन्धर्व-किन्नरैः । यक्ष-विद्याधरैर्नागैरप्सरोभिश्च पूज्यते ॥ १०१॥ अपस्मार-ग्रहैर्भीमैरुन्मतैर्ब्रह्मराक्षसैः । वेतालैः खेचरैर्मर्त्यैः कूष्माण्डै राक्षसग्रहैः ॥ १०२॥ (खेचरैर्क्रूरैः) ज्वालावक्त्रैस्तमोहारैः स्त्रीग्रहैः पावकग्रहैः । भूत-प्रेत-पिशाचाद्यैर्ग्रहैः सर्वैः स पूज्यते ॥ १०३॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरन्यैश्च जातिभिः । (शुद्रैरन्यैश्च मानवैः) पशु-पक्षि-मृग-व्यालैः पूज्यते सर्वजन्तुभिः ॥ १०४॥ किमत्र बहुना देवि तव वक्ष्येऽहं यथातथम् । मया च विष्णुना चैव विश्वकर्त्रा च कल्प्यते ॥ १०५॥ (विश्वकर्त्रा च पाल्यते) भवत्या च गिरा लक्ष्म्या ब्रह्माण्याद्यष्टमातृभिः । गणेश्वरादियोगीन्द्रैर्योगिनीभिः स पाल्यते ॥ १०६॥ य इदं प्रजपेद्भक्त्या तस्यासाध्यं न विद्यते । कवचेन्द्र महामन्त्रं जपेत्तस्मादनुत्तमम् ॥ १०७॥ उच्चाटने मरुद्वक्त्रो विद्वेषे राक्षसाननः । प्रागाननोऽभिवृद्धौ तु सर्वेष्वीशानदिङ्मुखः ॥ १०८॥ यो जपेत्कवचं नित्यं त्रिकालं ध्यानपूर्वकम् । सर्वसिद्धिमवाप्नोति सहसा साधकोत्तमः ॥ १०९॥ श्रीदेव्युवाच । देव देव महादेव शिव कारुण्यवारिधे । पाहि मां प्रणतं स्वामिन्प्रसीद सततं मम ॥ ११०॥ सर्वार्थसाधनोपाय सर्वैश्वर्यप्रदायक । समस्तापत्प्रतीकार चन्द्रशेखर ते नमः ॥ १११॥ यत्कृत्यं तन्नकृतं यदकृत्यं कृत्यवदाचरितम् । उभयोः प्रायश्चित्तं शिव तव नामाक्षरद्वयोच्चरितम् ॥ ११२॥ (नामाक्षरद्वितयम्) ॥ इति श्री आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शरभकवचं सम्पूर्णम् ॥ ॥ आकाशभैरवकल्पम् । एकचत्वारिंशोऽध्यायः ॥ इति श्रीशरभेश्वरकवचं अथवा श्रीशरभकवचं सम्पूर्णम् । Encoded by Sivakumar Thyagarajan Proofread by Sivakumar Thyagarajan, PSA Easwaran, Ruma Dewan
% Text title            : Sharabheshvara or Sharabha Kavacham
% File name             : sharabheshvarakavacham.itx
% itxtitle              : sharabheshvarakavacham sharabhakavacham
% engtitle              : sharabheshvarakavacham sharabhakavacham
% Category              : shiva, kavacha
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran, Ruma Dewan
% Description-comments  : sharabhakalpam
% Indexextra            : (Scans 1 2)
% Latest update         : March 8, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org