शशाङ्कमौलीश्वरस्तोत्रम्
श्रीगणेशाय नमः ॥
माङ्गल्यदाननिरत प्रणमज्जनानां
मान्धातृमुख्यधरणीपति चिन्तिताङ्घ्रे
मान्धान्तकारविनिवारणचण्डभानो
मां पाहि वीरगुरुभूत शशाङ्कमौले ॥ १॥
मां प्राप्नुयदखिलसौख्यकरी सुधीश्च
माकन्दतुल्यकविता सकलाः कलाश्च ।
क्वाचित्कमत्पदसरोजनतेर्हि स त्वं
मां पाहि धीरगुरुभूत शशाङ्कमौले ॥ २॥
मातङ्गकृत्तिवसन प्रणतार्तिहारिन्-
मायासरित्पतितशोषणावाहवाग्ने ।
मानोन्नतिप्रद निजाङ्घ्रिजुषां नराणाम्
मां पाहि वीरगुरुभूत शशाङ्कमौले ॥ ३॥
इति शशाङ्कमौलीश्वरस्तोत्रं सम्पूर्णम् ॥
धीरगुरुभूतेश्वरस्तोत्रम्
Proofread by Pallasena Narayanaswami ppnswami at gmail.com