शतरत्नसङ्ग्रह

शतरत्नसङ्ग्रह

(॥ उमापति शिवाचार्य॥) शिवं प्रणम्य परमं निधनेशमतः परम् । ज्ञानदीक्षे प्रवक्ष्यामि ते श‍ृणुध्वं समाहिताः ॥ १॥ -- स्वायम्भुवागमः ॥ विद्यापादः । १-पशुविचारः । १॥ अथात्ममलमायाख्यकर्मबन्धविमुक्तये । (अथाऽऽत्म) व्यक्तये च शिवत्वस्य शिवाज्ज्ञानं प्रवर्तते ॥ २॥ -- स्वायम्भुवागमः ॥ विद्यापादः । १-पशुविचारः । २॥ ज्ञानं द्विविधामाख्यातं परं चैवापरं स्मृतम् । परं चैवाबोधाख्यमपरं शास्त्रमुत्तमम् ॥ ३॥ -- देव्यामतम् ॥ ??॥ सृष्टिकाले महेशानः पुरुषार्थप्रसिद्धये । विधत्ते विमलं ज्ञानं पञ्चस्रोतोऽभिलक्षितम् ॥ ४॥ -- मृगेन्द्रागमः ॥ विद्यापादः । १-उपोद्घातप्रकरणम् । २१॥ ज्ञानमेतच्छिवक्ष्मोत्थं सङ्गृहाणात्मभेषजम् । परिणमसुखं स्वादु विशेषगुणदर्शकम् ॥ ५॥ -- पराख्यतन्त्रम् ॥ १-पशुपदार्थविचारः । ३॥ धर्मेण साध्यते धर्मी क्वचित्कार्येण कारणम् । कारणेन क्वचित्कार्यं क्वचिदाम्नायदर्शनात् ॥ ६॥ -- मतङ्गपारमेश्वरागमः ॥ विद्यापादः । ३-लयभोगाख्यतत्त्वद्वयविचारप्रकरणम् । ९॥ अचेतनस्य मायादेः प्रवर्तकतया पतिः । (प्रवर्त्तकतया) सिद्धः सर्वार्थवित्कर्ता व्यापकः सततोदितः ॥ ७॥ -- विश्वसारोत्तरम् ॥ ??॥ दृक्क्रियात्मकमैश्वर्यं यस्य तद्दात्रपूर्वकम् । (तद्धात्रपूर्वकम् , तद्दातृपूर्वकम् , तद्धातृपूर्वकम्) ईश्वरः सोऽत्र मन्तव्यः शक्तिद्वययुतः प्रभुः ॥ ८॥ -- पराख्यतन्त्रम् ॥ २-पतिदार्थविचारः । ७८॥ अथ पत्युर्धिष्ठानं स्वशक्तिकिरणात्मकम् । तस्यां दिवि सुदीप्तात्मा निष्कम्पोऽचलमूर्तिमान् ॥ ९॥ -- मतङ्गपारमेश्वरागमः ॥ विद्यापादः । ३-लयभोगाख्यतत्त्वद्वयविचारप्रकरणम् । १॥ काष्ठा सैव परा सूक्ष्मा सर्वदिक्काऽमृतात्मिका । प्रध्वस्तावरणा शान्ता वस्तुमात्राऽतिलालसा ॥ १०॥ आद्योन्तोपरता साध्वी मूर्तित्वेनोपचर्यते । (साध्वमूर्ति) -- मतङ्गपारमेश्वरागमः ॥ विद्यापादः । ३-लयभोगाख्यतत्त्वद्वयविचारप्रकरणम् । २-३अ॥ वपुषोऽविद्यमानत्वाद्यद्यत्कृत्यं करोति सः । तत्र तत्रास्य तत्कर्तृवपुषाऽनुकृतं वपुः ॥ ११॥ -- मृगेन्द्रागमः ॥ क्रियापादः । ३-अर्चाप्रकरणम् । ४१॥ करणं च न शक्त्यन्यच्छक्तिर्नाचेतना चितः । विषयानियमादेकं बोधे कृत्ये च तत्तथा ॥ १२॥ -- मृगेन्द्रागमः ॥ विद्यापादः । ३-पतिलक्षणप्रकरणम् । ४॥ यथा कालो ह्यमूर्त्तोऽपि दृश्यते फलसाधकः । एवं शिवो ह्यमूर्त्तोऽपि कुरुते कार्यमिच्छया ॥ १३॥ -- किरणागमः ॥ विद्यापादः । ३-कर्मपटलः । १०॥ शक्तोद्युक्तप्रवृत्तश्च कर्ता त्रिविध इष्यते । (शक्तोद्युक्तः प्रवृत्तश्च) शक्तेः प्रवृत्तिभेदेन भेदस्तस्योपचारतः ॥ १४॥ -- मृगेन्द्रागमः !! निमित्तमीश्वराख्यं तद्यद्दृष्टं सहकारणम् । (यद्दृष्टं) उपादानं च यत्सूक्ष्मं सर्वकार्येषु संहितम् ॥ १५॥ -- पराख्यतन्त्रम् ॥ २-पतिदार्थविचारः । २९॥ मूर्त्ताः सावयवा येऽर्था नानारूपपरिच्छदाः । स्थूलावयवशिष्टत्वाद्बुद्धिमद्धेतुपूर्वकाः ॥ अतोऽस्ति बुद्धिमान्कश्चिदीश्वरः समवस्थितः ॥ १६॥ -- पराख्यतन्त्रम् ॥ २-पतिदार्थविचारः । २-३अ॥ जगज्जन्मस्थितिध्वंसतिरोभावविमुक्तयः । कृत्यं सकारकफलं ज्ञेयमस्यैतदेव हि ॥ १७॥ -- मृगेन्द्रागमः ॥ विद्यापादः । २-परमोक्षनिरासप्रकरणम् । ३॥ स्वापेऽप्यास्ते बोधयन्बोधयोग्यान्रोध्यान्रुन्धन्पाचयन्कर्मिकर्म । मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन्पश्यन्सर्वं यद्यथावस्तुजातम् ॥ १८॥ -- मृगेन्द्रागमः ॥ विद्यापादः । ४-पतिस्वरूपनिरूपणम् । १५॥ देहान्योऽनश्वरो व्यापीविभिन्नः समलोऽजडः । स्वकर्मफलभुक्कर्ता किञ्चिज्ज्ञः सेश्वरः पशुः ॥ १८/१९॥ -- पराख्यतन्त्रम् ॥ १-पशुपदार्थविचारः । १५॥ अथाऽनादिमलः पुंसां पशुत्वं परिकीर्त्तितम् । तुषकम्बुकवद्ज्ञेयं मायावापाङ्कुरस्य तत् ॥ १९/२०॥ (तुषकम्बुकवज्ज्ञेयं) -- स्वायम्भुवागमः ॥ विद्यापादः । २-पाशविचारः । १॥ तदेकं सर्वभूतानामनादि निबिडं महत् । प्रत्यात्मस्थस्वकालान्तापायिशक्तिसमूहवत् ॥ २०/२१॥ -- मृगेन्द्रागमः ॥ विद्यापादः । ७-पाशलक्षणप्रकरणम् । ८॥ तासां माहेश्वरी शक्तिः सर्वानुग्राहिका शिवा । धर्मानुवर्तनादेव पाश इत्युपचर्यते ॥ २१/२२॥ (धर्मानुवर्त्तनादेव) -- मृगेन्द्रागमः ॥ विद्यापादः । ७-पाशलक्षणप्रकरणम् । ११॥ परिणामयत्येताश्च रोधान्तं कार्कचित्त्विषा । यदोन्मीलनमाधत्ते तदानुग्राहिकोच्यते ॥ २२/२३॥ -- मृगेन्द्रागमः ॥ विद्यापादः । ७-पाशलक्षणप्रकरणम् । ११॥ वागीश्वरी च शुद्धाध्वमूलोपादानकारणम् । नोपादानं विना कार्यं कदाचिदुपलभ्यते ॥ २३/२४॥ -- विश्वसारोत्तरम् ॥ ??॥ याऽथ कुण्डलिनी शक्तिर्मायाकर्मानुसारिणी । (यथा) नादबिन्द्वादिकं कार्यं तस्या इति जगत्स्थितिः ॥ २४/२५॥ -- विश्वसारोत्तरम् ॥ ??॥ तस्याश्चतस्रो वाग्रूपा वृत्तयो वैखर्यादयः । वैखरी मध्यमा चान्या पश्यन्ती सूक्ष्मसंज्ञिता ॥ २५/२६॥ -- विश्वसारोत्तरम् ॥ ??॥ मायातत्त्वं जगद्बीजमविनाश्यशिवात्मकम् । विभ्वेकमकलं सूक्ष्ममनाद्यव्ययमीश्वरम् ॥ २६/२७॥ -- स्वायम्भुवागमः ॥ विद्यापादः । २-पाशविचारः । ८॥ तदेकमशिवं बीजं जगतश्चित्रशक्तिमत् । सहकार्यधिकारान्तसंरोधि व्याप्यनश्वरम् ॥ २७/२८ ॥ -- मृगेन्द्रागमः ॥ विद्यापादः । ९-मायालक्षणप्रकरणम् । २॥ शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः ॥ २८/२९॥ -- किरणागमः ॥ विद्यापादः । ३-कर्मपटलः । २६ब॥ ग्रन्थिजन्यकलाकालविद्यारागनृमातरः । गुणधीगर्वचित्ताक्षमात्राभूतान्यनुक्रमात् ॥ २९/३०॥ -- मृगेन्द्रागमः ॥ विद्यापादः । १०-कलादिकार्यप्रकरणम् । १॥ धर्माधर्मात्मकं कर्म तच्च त्रिविधमर्थतः । जात्यायुर्भोगदं येन नामिश्रं पच्यते क्वचित् ॥ ३०/३१॥ -- विश्वसारोत्तरम् ॥ ??॥ कर्म व्यापारजन्यत्वाददृष्टं सूक्ष्मभावतः । जनकं धारकं भोग्यमध्यात्मादित्रिसाधनम् ॥ ३१/३२॥ -- मृगेन्द्रागमः ॥ विद्यापादः । ८-कर्मविचारप्रकरणम् । ३ब-४अ॥ तत्सत्यानृतयोनित्वाद्धर्माधर्मस्वरूपकम् । स्वापे विपाकमभ्येति तत्सृष्टावुपयुज्यते ॥ ३२/३३॥ मायायां वर्तते चान्ते नाभुक्तं क्षयमेति च ॥ ३३/३४॥ -- मृगेन्द्रागमः ॥ विद्यापादः । ८-कर्मविचारप्रकरणम् । ४ब-५॥ अथात्माऽविमलो बद्धः पुनर्मुक्तश्च दीक्षया । (अथात्माविमलो) विज्ञेयः स त्रिधावस्थः केवलः सकलोऽमलः ॥ ३४/३५॥ -- स्वायम्भुवागमः ॥ विद्यापादः । १-पशुविचारः । ५॥ अचेतनो विभुर्नित्यो गुणहीनोऽक्रियोऽप्रभुः । व्याघातभागशक्तश्च शोध्यो बोध्योऽकलः पशुः ॥ ३५/३६॥ -- स्वायम्भुवागमः ॥ विद्यापादः । १-पशुविचारः । ६॥ यद्यशुद्धिर्न पुंसोऽस्ति सक्तिर्भोगेषु किङ्कृता । शुद्धे पुंसि न तद्भोगो जाघटीति विपश्चितः ॥ ३६/३७॥ -- स्वायम्भुवागमः ॥ विद्यापादः । २-पाशविचारः । ४॥ चैतन्यं दृक्क्रियारूपं तदस्यात्मनि सर्वदा । सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥ ३७/३८॥ -- मृगेन्द्रागमः ॥ विद्यापादः । २-परमोक्षनिरासप्रकरणम् । ५॥ सदप्यभासमानत्वात्तन्निरुद्धं प्रतीयते । वश्योऽनावृतवीर्यस्य सोऽत एवाऽविमोक्षणात् ॥ ३८/३९॥ (स्रोत) -- मृगेन्द्रागमः ॥ विद्यापादः । २-परमोक्षनिरासप्रकरणम् । ६॥ विना सम्भवतीत्याह विद्यादर्शितगोचरः । रागेण रञ्जितस्याऽपि बुद्ध्यादिकरणैर्युतः ॥ ३९/४०॥ -- मृगेन्द्रागमः ** (कलोद्वलित चैतन्यो विद्यादर्शितगोचरः । रागेण रञ्जितश्चापि बुद्ध्यादिकरणैर्युतः ॥ -- स्वायम्भुवागमः ॥ विद्यापादः । १-पशुविचारः । १०॥) मायाद्यवनिपर्यन्ते तत्वभूतात्मवर्त्मनि । (मायाद्यवनिपर्यन्त) भुङ्क्ते तत्र स्थितान् भोगान्भोगैकरसिकः पुमान् ॥ ४०/४१॥ (स्थितो) -- स्वायम्भुवागमः ॥ विद्यापादः । १-पशुविचारः । ११॥ भोगोऽस्य वेदना पुंसः सुखदुःखादिलक्षणः । (सुखदुःखादिलक्षणा) तां समर्थितचैतन्यः पुमानभ्येति कर्मतः ॥ ४१/४२॥ -- स्वायम्भुवागमः ॥ विद्यापादः । १-पशुविचारः । १२॥ कर्मतश्च शरीराणि विषयाः करणानि च । भोगसंसिद्धये भोक्तुर्भवन्ति न भवन्ति च ॥ ४२/४३॥ -- स्वायम्भुवागमः ॥ विद्यापादः । १-पशुविचारः । १३॥ एवं मायाञ्जनस्थोऽणुर्निजदोषतिरस्कृतः । याति तन्मयतां तेषु मायाभोगेषु रञ्जितः ॥ ४३/४४॥ -- स्वायम्भुवागमः ॥ विद्यापादः । १-पशुविचारः । १४॥ संसारी विषयी भोक्ता क्षेत्री क्षेत्रज्ञ एव च । शरीरी चेति बन्धात्मा सकलः सोच्यते बुधैः ॥ ४४/४५॥ (सकलश्चोच्यते) -- स्वायम्भुवागमः ॥ विद्यापादः । १-पशुविचारः । १५॥ तमःशक्त्यधिकारस्य निवृत्तेस्तत्परिच्युतौ । व्यनक्ति दृक्क्रियानन्त्यं जगद्बन्धुरणोः शिवः ॥ ४५/४६॥ -- मृगेन्द्रागमः ॥ विद्यापादः । ५-पञ्चकृत्यप्रकरणम् । १॥ येषां शरीरिणां शक्तिः पतत्यविनिवृत्तये । (पतत्यपिनिवृत्तये) तेषां तल्लिङ्गमौत्सुक्यं मुक्तौ द्वेषो भवस्थितौ ॥ ४६/४७॥ भक्तिश्च शिवभक्तेषु श्रद्धा तच्छासके विधौ ॥ ४७/४८॥ -- मृगेन्द्रागमः ॥ विद्यापादः । ५-पञ्चकृत्यप्रकरणम् । ४-५अ॥ तन्निपाताच्च तस्येत्थमज्ञस्याप्यभिलाषिणः । बुद्धिरुत्पद्यतेऽकस्माद्विवेकेनात्मवर्त्तिना ॥ ४८/४९॥ -- मतङ्गपारमेश्वरागमः ॥ विद्यापादः । ४-अधिकातरतत्त्वप्रकरणम् । ४५॥ विवेकिनो विरक्तस्य जिज्ञासा चोपजायते । जिज्ञासोपेतचैतन्यं पशुं संसारसागरात् ॥ ४९/५०॥ जिघृक्षया युनक्त्येनं युक्तं प्रेरयति प्रभुः ॥ ५०/५१॥ -- मतङ्गपारमेश्वरागमः ॥ विद्यापादः । ४-अधिकातरतत्त्वप्रकरणम् । ४६-४७अ॥ प्रेरणे प्रेरकः श्रीमान्द्वयोरपि स मन्त्रराट् । अनुग्राह्यस्य विनये तथाऽनुग्राहकस्य च ॥ ५१/५२॥ (तथानुग्राहकस्य) कारुण्ये त्वनयोर्यस्मात्तयोर्योगः सुदुर्लभः ॥ ५२/५४॥ -- मतङ्गपारमेश्वरागमः ॥ विद्यापादः । ४-अधिकातरतत्त्वप्रकरणम् । ४७ब-४८॥ स देशिकमनुप्राप्य दीक्षाविच्छिन्नबन्धनः । प्रयाति शिवसायुज्यं निर्मलो निरुपप्लवः ॥ ५३/५४॥ (निरनुप्लवः) -- स्वायम्भुवागमः ॥ विद्यापादः । १-पशुविचारः । १८॥ तत्त्वैरेभिर्निबद्धात्मा सर्वधर्मैश्च संयुतः । नाऽनेन शक्यते मोक्तुं वर्ज्य दीक्षां शिवात्मिकाम् ॥ ५४/५५॥ -- सर्वज्ञानोत्तरागमः ॥ क्रियापादः । ९-अध्वप्रकरणम् । २०२॥ कतृशक्तिरणोर्नित्या विभ्वी चेश्वरशक्तिवत् । (कर्त्तृशक्तिरणोर्नित्या) तमश्छन्नतयाऽर्थेषु नाभाति निरनुग्रहा ॥ ५५/५६॥ (तमश्छन्नतयार्थेषु) -- मृगेन्द्रागमः ॥ विद्यापादः । १०-कलादिकार्यप्रकरणम् । ३॥ विभुः संज्ञानरूपोऽपि प्रदेशे वेत्ति येन तत् । किञ्चिज्ज्ञस्तेन सः प्रोक्तो व्यवधानानिदर्शनात् ॥ ५६/५७॥ -- पराख्यतन्त्रम् ॥ १-पशुपदार्थविचारः । ९१ब-९२अ॥ स्वल्पेऽपि व्यञ्जके स्वल्पं महन्महति तत्स्थितम् । यादृक्तादृग्भवेत्तस्य प्रदीपस्तिमिरे यथा ॥ ५७/५८॥ -- पराख्यतन्त्रम् ॥ १-पशुपदार्थविचारः । ९०ब-९१अ॥ स चेतनः स्मृतो जीवो यदा शक्त्या तु युज्यते । अन्यथा निष्कलो ह्यात्मा विषसुप्त्येव लक्ष्यते ॥ ५८/५९॥ -- निश्वासकारिकागमः * (एतैर्विहीनं यदात्मानं विषसुप्ते च लक्ष्यते । तथा हि लक्ष्यते देवि एतैर्हीनस्तु चेतनः ॥ -- निश्वासकारिकागमः ॥ ज्ञानकाण्डः । १२ । ९३॥) गुरुर्यथाऽग्रतः शिष्यान्सुप्तान्दण्डेन बोधयेत् । (गुरुर्यथाग्रतः) शिवोऽपि मोहनिद्रायां सुप्ताञ्च्छक्त्या प्रबोधयेत् ॥ ५९/६०॥ -- किरणागमः ॥ विद्यापादः । ५-शक्तिपटलः । ६ब-७अ॥ यथा भेषजसामर्थ्यादशक्तांनां बलं परम् । तेन तच्छक्तियोगेन सामर्थ्यममितं भवेत् ॥ ६०/६१॥ -- किरणागमः * (यथा भेषजसामर्थ्यादशक्तानां बलं परम् ॥ याति तच्छक्तिसामर्थ्यादनन्तस्य परे बलम् । तेन सामर्थ्ययोगेन योनिं प्रेरयते क्षणात् ॥ -- किरणागमः ॥ विद्यापादः । ४-पतिपटलः । १३ब-१४॥) शिवत्वाद्युज्यते मोक्षे पशुत्वाद्युज्यते तनौ । भोगेष्वपि च सामर्थ्यात्कर्मणो मुनिसत्तम ॥ ६१/६२॥ ईश्वराधिष्ठितात्माऽसावस्वतन्त्रो यतस्तु सः ॥ ६२/६३॥ -- पराख्यतन्त्रम् !! नित्यव्यापकचिच्छक्तिनिधिरप्यर्थसिद्धये । पाशवं शाम्भवं वापि बलमन्वेष्टि नान्यथा ॥ ६३/६४॥ -- मृगेन्द्रागमः * (नित्यव्यापकचिच्छक्तिनिधिरप्यर्थसिद्धये । पाशवं शाम्भवं वापि नान्विष्यत्यन्यथा बलम् ॥) -- मृगेन्द्रागमः ॥ विद्यापादः । ७-पाशलक्षणप्रकरणम् । ५॥) विश्वस्याऽनेकरूपस्य ज्ञानमेकं शिवात्मकम् । व्यापकं विमलं शान्तं भुक्तिमुक्तीति येन तत् ॥ ६४/६५॥ -- कालोत्तरागमः ॥ ??॥ एकैव वस्तुतः शैवी या शक्तिर्निर्मला परा । अविनाभाविनी शम्भोः शुचेरुष्णमिव प्रभोः ॥ ६५/६६॥ तयाऽऽत्मशिवयोः सन्धिः शिवबोधपरापरा ॥ ६६/६७॥ -- निश्वासकारिकागमः ॥ ??॥ नाध्यक्षं नापि तल्लैङ्गं न शाब्दमपि शाङ्करम् । ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुषु ॥ ६७/६८॥ -- मृगेन्द्रागमः ॥ विद्यापादः । ५-पञ्चकृत्यप्रकरणम् । १६॥ अस्मात्प्रवितताद्बन्धात्परसंस्थानिरोधकात् । (तस्मात्) दीक्षैव मोचयत्वूर्ध्वं शैवं धाम नयत्यपि ॥ ६८/६९॥ -- स्वायम्भुवागमः ॥ विद्यापादः । २-पाशविचारः । २४॥ अनयोः शासने सिद्धा दीक्षा क्षपणदानयोः । दानं नाम स्वसत्तैव या सा ज्ञानक्रियात्मिका ॥ ६९/७०॥ -- मतङ्गपारमेश्वरागमः ॥ विद्यापादः । ४-अधिकातरतत्त्वप्रकरणम् । ??-५८ब॥ सा शक्तिस्तस्य संस्पर्शाद्व्यक्तीभूता सुनिर्मला । पत्युर्दानं तदेवोक्तं न स्वयं व्यज्यते पशोः ॥ ७०/७१॥ -- मतङ्गपारमेश्वरागमः ॥ विद्यापादः । ४-अधिकातरतत्त्वप्रकरणम् । ५९॥ अशरीरं यदात्मानं पश्यति ज्ञानचक्षुषा । तदा भवति शान्तात्मा सर्वतो विगतस्पृहः ॥ ७१/७२॥ -- देव्यामतम् ॥ ??॥ **(देवीकालोत्तरागमः । ५१॥) दीक्षानलप्लुष्टमलस्य जन्तोः स्वाक्यं बलं व्यक्तिमुपैति योगात् । शक्त्या विभोश्चुम्बितहृत्प्रदेशो नान्येन पुंसो विनिवृत्तिमेति ॥ ७२/७३॥ -- मतङ्गपारमेश्वरागमः !! अनेन क्रमयोगेन परां केवलतां गतः । अनाद्यशुद्धिशून्यत्वात् प्राप्नोति न भवान्तरम् ॥ ७३/७४॥ -- स्वायम्भुवागमः ॥ विद्यापादः । १-पशुविचारः । १९॥ यस्य जाग्रे प्रलीयन्ते सर्वे भावाः सुषुप्तवत् । पर्याप्तं तस्य विज्ञानं त्रिपदं तेन लङ्घितम् ॥ ७४/७५॥ -- निश्वासकारिकागमः ॥ ज्ञानकाण्डः । ३२ । ८१ब-८२अ॥ शिवार्कशक्तिदीधित्या समर्थीकृतचिद्दृशा । शिवं शक्त्यादिभिः सार्द्धं पश्यत्यात्मागतावृतिः ॥ ७५/७६॥ (सार्धं) -- निश्वासकारिकागमः !! उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत् । ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ ७६/७७॥ -- निश्वासकारिकागमः !! (सार्धत्रिशतिकालोत्तरागमः ॥ २३-ज्ञानामृतप्रकरणम् । २३ । ५॥) यदा मनः परे तत्त्वे लब्धलक्ष्यं निलीयते । (लब्धलक्षो) तदाह्यशेषविज्ञानं विनाशमुपगच्छति ॥ ७७/७८॥ -- निश्वासकारिकागमः ॥ ज्ञानकाण्डः । ३२ । ३५॥ अनाख्ये तु निरालम्बे अग्राह्ये मानवर्जिते । नस्तत्त्वे योजितो मुक्त इति शास्त्रस्य निश्चयः ॥ ७८/७९॥ -- निश्वास ॥ ??॥ * (अनाख्ये तु निरालम्बे ह्यग्राह्ये भाववर्जिते । निस्तत्त्वे योजितो मुक्त इति शास्त्रस्य निश्चयः ॥ -- निश्वासकारिका => सिद्धान्तशिखामणिः तत्त्वप्रदीपिकासहितः) भवोद्भवपदातीतो निष्कम्पार्च्चिरिव स्थितः । (निष्कम्पार्चिरिव) मुक्तौ व्यक्तशिवत्वोऽसौ कृतकृत्यो यतस्ततः ॥ ७९/८०॥ -- स्वायम्भुवागमः ॥ विद्यापादः । २-पाशविचारः । २६॥ नात्र पूजा नमस्कारो न जपो ध्यानमेव च । केवलं ज्ञेयमित्युक्तं वेदितव्यं न किञ्चन ॥ ८०/८१॥ -- देवीकालोत्तरागमः । १८॥ यथा वायुस्सुशीघ्रोऽपि मुक्त्वाऽकाशन्न गच्छति । ज्ञेये निक्षिप्तचित्तस्तु विषयस्थो न मुञ्चति ॥ ८१/८२॥ * (ज्ञेयं विक्षिप्तचित्तस्य विषस्थोऽपि निश्चलः । ) -- निश्वासकारिकागमः ॥ ज्ञानकाण्डः । ३२ । ३९ब-४०अ॥ इन्द्रियार्थे यथा चित्तं नित्यं गच्छति देहिनाम् । तथा चैवेन्द्रियातीते तस्य नैराकृते पदे ॥ ८२/८३॥ (नैकाकृते) -- निश्वासकारिकागमः ॥ ज्ञानकाण्डः । २७ । ४॥ क्षीरक्षयाद्यथा वत्सः स्तनान्मातुर्निवर्त्तते । (क्षीरक्षये)* रागक्षयात्तथा पुंसां मनश्शीघ्रं निवर्त्तते ॥ ८३/८४॥ (रागक्षये तथा)* -- निश्वासकारिकागमः ॥ ज्ञानकाण्डः । ३२ । ४३॥ गोदोहमिषुपातं वा नयनोन्मीलनमात्रकम् । सकृत्परपदे युक्तो न पुनर्भवमाप्नुयात् ॥ ८४/८५॥ -- निश्वासकारिकागमः ॥ ??॥ !! ** (गोदोहमिषुपातं वा नयनोन्मीलनात्मकम् । सकृद्युक्तः परे तत्त्वे स मुक्तो मोचयेत्परान् ॥ -- श्रीमन्निशाटन => परमार्थसार) पशुभावद्यदातीत्य पतिभवेन तिष्ठति । (पशुभावापदातीत्य)* तत्तस्य गमनं नाम सर्वगे गमनं कुतः ॥ ८५/८६॥ -- निश्वासकारिकागमः ॥ ज्ञानकाण्डः । ३१ । १४ब-१५अ॥ शिवधामार्पितस्याऽस्य भोगभोक्तुर्न जातुचित् । भोक्तृत्वमधिकारित्वं पतिकृत्यानुकारिता ॥ ८६/८७॥ -- स्वायम्भुवागमः ॥ विद्यापादः । २-पाशविचारः । २५॥ विषसम्बन्धिनी शक्तिर्यथा मन्त्रैर्निरुध्यते । (मन्त्रैर्निरुध्द्यते) तदा न तद्विषं क्षीणमेवं पुंसो मलक्षयः ॥ ८७/८८॥ -- किरणागमः ॥ विद्यापादः । २-मायापटलः । ३१ब-३२अ॥ अनेकभविकं कर्म दग्धं बीजमिवाऽणुभिः । (दग्धबीजमिवाणुभिः)* भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः ॥ ८८/८९॥ -- किरणागमः ॥ विद्यापादः । ६-दीक्षाकर्मपटलः । १९/२०॥ जातायां घटनिष्पत्तौ यथा चक्रं भ्रमत्यपि । पूर्वसंस्कारसंसिद्धं तथा वपुरिदं स्मृतम् ॥ ८९/९०॥ -- किरणागमः ॥ विद्यापादः । ६-दीक्षाकर्मपटलः । १८/१९॥ भग्ने घटे यथा दीपः सर्वतः संप्रकाशते । देहपाते तथा चात्मा भाति सर्वत्र सर्वदा ॥ ९०/९१॥ -- देव्यामतम् ॥ ??॥ प्रकटयस्वेदं ज्ञानं मद्भक्तानां वरानने । रक्षणीयं प्रयत्नेन तस्करेभ्यो धनं यथा ॥ ९१/९२॥ -- निश्वासकारिकागमः !! ॥ इति उमापतिशिवाचार्यसङ्गृहीतशतरत्नसङ्ग्रहः समाप्तः ॥ ॥ ॐ चिदम्बरेश्वरशिवकामसुन्दरीभ्यां नमः ॥ Notes: An attempt has been made in the interest of earnest readers; of tracing the shloka-s from the respective source-Agama mentioned in the sa~Ngraha (compilation), to the Agama’s publication or text readily available in public domain. As on the date of uploading this document, it has been noted that some but not all such publications are readily available; but, may nevertheless be found at a later date. Indicators have therefore been put in place within the sangraha as follows: ॥??॥ The mentioned source-Agama's text or publication could not be traced in public domain so far, hence the chapter/shloka-number etc. remains unrevealed yet. !! Shloka-s or lines have been mentioned as pertaining to a certain Agama, but the same was not found in the source Agama text publication available in public domain. * Shloka-s or lines or words were found in the mentioned source-Agama with variation. The latter has been mentioned with the respective shloka, where available. ** Shloka-s or lines were found in a source-text other than that mentioned in the sangraha; and in some instances, with a variation. The source / variation has been mentioned with the respective shloka where available. The book published by University of Madras 1973 (link 1) has an addendum of about 14 shloka-s (link-2 doesn't). Related pointers for interested readers: devyAmatam is also known as nishvAsAkhyamahAtantram. kAlottarAgama is said to have several recensions, all of which may not be readily available. nishvAsakArikAgama is one of the upAgama of nishvAsAgama. nishvAsa (the word) can pertain to nishvAsAgama, nishvAsakArikA/nishvAsakArikAgama, nishvAsottara, etc. that may not be synonymous. Encoded and proofread by Ruma Dewan
% Text title            : shataratnasaMgraha
% File name             : shataratnasaMgraha.itx
% itxtitle              : shataratnasaMgraha (umApatishivAchAryasaNgRihIta)
% engtitle              : shataratnasaMgraha
% Category              : shiva, sangraha, major_works
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Indexextra            : (Scans 1, 2)
% Latest update         : February 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org