शिलादकृता शिवस्तुतिः
तमेकरुद्रमीश्वरं विज्ञानतां तमेकघा
न चैव भेदसन्ततिर्भयं न चैव तस्य हि ।
तमेकमेव सन्तमप्यनेकधाऽवदच्छ्रुतिः
सुरेन्द्रनायकादिनामभिस्तमेव तं भजे ॥ ३८॥
न हि द्वितीयसम्भवं महेश्वराजगद्गतं
द्वितीयकल्पनावशाद्भयं भवेत तस्य हि ।
द्विधैव देहभेदतो भजेऽद्य कृष्णपिङ्गलं
सुमङ्गलं शिवायुतं दिवाकरान्तरं सदा ॥ ३९॥
गुणत्रयातिदूरगं त्रिलोचनं त्रिमूर्तिगं
त्रिधामभूमसामभिस्त्रिलोकवासमीश्वरम् ।
भजे त्रिमात्रसङ्गतं तथोमिति श्रुतीरितं
अहा वुहा वु इत्यथो सुसामवेदवोधदम् ॥ ४०॥
चतुर्भुजाङ्गदेऽङ्गजवदग्धभस्मधारकं
चतुःश्रतीमिरीयमानपादुकं परं शिवम् ।
चतुर्विधार्थभोगदायकं चतुर्दिशाम्बरं
चतुर्मुखस्तुतं भजे चतुर्थमद्वयं सदा ॥ ४१॥
भजामि कोशपञ्चकादिकाशमीश्वरं प्रभुं
प्रपञ्च पञ्चभूतहृत्सुपञ्चबाणहृत्तमोनिवारकम् ।
(भजामि कोशपञ्चकादिकाशमीश्वरं प्रभुं
सुपञ्चबाणहृत्तमोनिवारकं परं शिवम् ।)
सुपञ्चवर्णमन्त्ररूपिणं महाघपञ्चवारणं
नमःशिवायमन्त्रतः प्रसन्नमीश्वरं सदा ॥ ४२॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये शिलादकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ३ । ३८-४२॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 3 . 38-42..
Notes: Muni Shilada (Shilashana) beseeches Śiva शिव to grant His Grace for wish fulfilment.
Proofread by Ruma Dewan