नन्दिकेशप्रोक्तं शिवाध्वन्रहस्यम्

नन्दिकेशप्रोक्तं शिवाध्वन्रहस्यम्

सशिवं हृदि साधु शीलयन्तः शिवपञ्चाक्षरमक्षरं जपन्तः । गिरिशाय हितार्थमर्पयन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ १॥ गिरिशाहितमर्थमर्दयन्तः शिवपूजार्थमिहार्थमर्थयन्तः । शिवमार्गरतान् प्रचारयन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ २॥ शिवशास्त्ररतान् परीक्षयन्तः शिवपूजानिरतान् प्रमोदयन्तः । शिवमेव सुरोत्तमं वदन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ ३॥ शिवपूजनपुण्यमाचरन्तः शिवपूजानियमान् प्रतीक्षयन्तः । शिवभक्तिविरोधमाक्षिपन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ ४॥ शिवभक्तिनिधानमार्जयन्तः शिवभक्त्यम्बुनिधीन् प्रवर्धयन्तः । शिवभक्तिरसं प्रबोधयन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ ५॥ श्रुतिबोधितभूतिमुद्वहन्तः श्रुतरुद्राक्षविभूषणं वहन्तः । शिवलिङ्गमसङ्गमर्चयन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ ६॥ स्मरशासकमेव संस्मरन्तो भगवन्तं भवमेव भावयन्तः । भवभूतभयानि संहरन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ ७॥ शिवनामसुधानिधिं पिबन्तः शिवमूर्तिं हृदि सन्ततं भजन्तः । शिवसुन्दरमन्दिरे वसन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ ८॥ त्रिपुरारिपुरेषु सञ्चरन्तः त्रिपुरारातिकथां विचारयन्तः । त्रिदशेशविधेयमाचरन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ ९॥ नवरत्ननुतिं मुहुः पठन्तो नवचन्द्राभरणं विलोकयन्तः । नवखण्डमहीं प्रशासयन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ १०॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवाध्वन्रहस्यं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४३। ६६-७५ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 43. 66-75 .. Proofread by Ruma Dewan
% Text title            : Nandikeshaproktam Shivadhvanrahasyam
% File name             : shivAdhvanrahasyaMnandikeshaproktam.itx
% itxtitle              : shivAdhvanrahasyaM nandikeshaproktam (shivarahasyAntargatam)
% engtitle              : shivAdhvanrahasyaM nandikeshaproktam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 43| 66-75 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org