रम्भाप्रोक्तं शिवानुग्रहफलस्वरूपशिवभक्तिप्रसादवर्णनम्

रम्भाप्रोक्तं शिवानुग्रहफलस्वरूपशिवभक्तिप्रसादवर्णनम्

आशास्या भक्तिरस्माकमीदृशी खलु दुर्लभा । वाञ्छयापि न तत्प्राप्तिर्मुनीनामपि दुर्लभा ॥ १४९॥ तपो घोरतरं प्राप्तं वनेषु मुनिपुङ्गवैः । तथापि तादृशी भक्तिर्न प्राप्ता तत्तपस्यया ॥ १५०॥ अपाराण्यपि दानानि कृतानि जगतीतले । भूपालैस्तादृशी भक्तिः न प्राप्ता शङ्करे खलु ॥ १५१॥ गोकोटीनां प्रदानेन तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १५२॥ तुला कोटिप्रदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥॥ १५३॥ रत्नराशिप्रदानेन तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १५४॥ रत्नाभरणदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १५५॥ दुकूलगिरिदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १५६॥ दिव्यचन्दनदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १५७॥ कर्पूरराशिदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १५८॥ घृतकम्बलदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १५९॥ कन्याकोटिप्रदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १६०॥ गजकोटिप्रदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १६१॥ वाजिकोटिप्रदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १६२॥ अन्नराशिप्रदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १६३॥ केन स्वरूपेण महेश्वरोऽपि भक्तावनाशाय करोति यत्नम् । केनापि न ज्ञायत एव नूनं तज्ज्ञानमप्यक्षयपुण्यहेतुः ॥ १६४॥ धन्याः कृतार्थाश्च शिवार्चनेन भवन्ति मुक्ताश्च महाघबन्धात् । संसारबन्धोऽपि स नाशमेति महेशलिङ्गार्चनपुण्यलेशात् ॥ १६५॥ धर्मास्तु सन्त्येव सहस्रशोऽपि किं तैः फलं शङ्करपूजनेन । यद्यद्भवेत् तत्सममप्यनल्पं न पुण्यमित्यस्ति मतिस्वभावात् ॥ १६६॥ अहो महद्भाग्यफलप्रदाने समर्थमेतद्गिरिशार्चनं हि । इदं कथं पुण्यमहाब्धिपूरैर्विना भविष्यत्यतिदुर्लभत्वात् ॥ १६७॥ एतल्लिङ्गविलोकनेन बहुधा नष्टेषु पापेष्वियं तल्लिङ्गे बहुपुण्यराशिरधुना क्षिप्तस्ततः शङ्करः । सन्तुष्टो गिरिशः स्वभावतः इति ज्ञेयः स लिङ्गार्चनात् प्रीतः स्यादिति तस्य दिव्यमहिमा ज्ञेयः कथं मादृशैः ॥ १६८॥ ॥ इति शिवरहस्यान्तर्गते रम्भाप्रोक्तं शिवानुग्रहफलस्वरूपशिवभक्तिप्रसादवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३२। १४९-१६८ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 32. 149-168 .. Proofread by Ruma Dewan
% Text title            : Rambhaproktam Shivanugrahaphalasvarupashivabhaktiprasadavarnanam
% File name             : shivAnugrahaphalasvarUpashivabhaktiprasAdavarNanam.itx
% itxtitle              : shivAnugrahaphalasvarUpashivabhaktiprasAdavarNanam (shivarahasyAntargatam)
% engtitle              : shivAnugrahaphalasvarUpashivabhaktiprasAdavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 32 | 149-168 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org