शिवाराधनमहिमानुवर्णनम्
शिवपूजनमेव केवलं सकलार्थप्रदमर्थसिद्धिभिः ।
तदपेक्षितमेव साधनं विविधं तावदशेषसिद्धिदम् ॥ २४.२॥
यदा शङ्कराराधनासक्तमेतन्मनः स्यात् तदा कालभीतिः कुतः स्यात् ।
वयं शङ्कराराधनेनैव कालं नयामो नयामो नयामो नयामः ॥ २४.११॥
इदं चेयः शङ्कराराधनेन क्षयं याति पुण्यैरगण्यैस्तदा किम् ।
स कालोऽपि भीतोऽतिनित्यं प्रपन्नः भवेदस्मदीयांस्तथाऽस्मान् विशिष्य ॥ २४.१२॥
महाकालकालार्चनासक्तचित्तः क्षणं वा क्षणार्धं य एव प्रबुद्धः ।
तमाराधयत्येव कालोऽपि नूनं स भीतस्तदीयांस्तदाराधकांश्च ॥ २४.१३॥
कः कालकालभजनानुरतो न लोके शोकापहारकरणोद्यतचित्तवृत्तिः ।
सर्वाघनाशक इति प्रथितः स शोकं निर्मूलयिष्यति सदाशिव एव नित्यम् ॥ २४.१४॥
महामृत्युमृत्युं महादेवमेकं समाराध्य को वा न यात्येव मुक्तिम् ।
जराजन्मदुःखादिसंहारहेतुः वृषाधीशकेतुर्हताम्भोजकेतुः ॥ २४.१६॥
महेश्वरकथारसः सरसमानसे केवलं
सुखानि जनयत्यहो मुहुरपाररूपाण्यपि ।
क्षणार्धमपि शङ्करो यदि मुदा हृदम्भोजगः
कदा सुखमहोदधिः किमिति न प्रबुद्धो भवेत् ॥ २४.२९॥
अपारसुखरूपतामुपगतोऽपि मुक्तो भवेत्
उमापतिपदाम्बुजस्मरणलालसे मानसे ।
कदापि न जनिर्भवेत् न च जराऽपि मृत्युर्भवेत्
इति स्मरहरं स्मर स्मर पुनः पुनः शङ्करम् ॥ २४.३०॥
शिवार्चनाकारमहाग्निदग्धमपारपापोरुपतङ्गजातम् ।
भवत्यवश्यं तत एव नित्यं महेश्वराराधनमेव कुर्मः ॥ २४.५५॥
शिवपूजनरूपमौषधं हृदये यस्य निविष्टमेकदा ।
तदपारमहाभयापहं भवतीत्येव मतिर्ममाधुना ॥ २४.५६॥
धन्यास्ते हृदि सन्ततं शिवपदाम्भोजं निधायादरात्
आनन्दामृतधारयाऽपि परया गम्भीरया सेचनम् ।
कुर्वन्तो विरतिं न यान्ति सुकृतैरप्यन्तहीनैर्मुहुः
तद्भाग्यं भुवनेषु दुर्लभतरं तद्भुक्तिमुक्तिप्रदम् ॥ २४.६०॥
निधाय हृदि शङ्करं यदि विधाय पूजां मुहुः प्रनृत्यति महेश्वर स्मरहरेति हारः परम् ।
तदा परमवाप्नुयात् गिरिशपादुकाराधनप्रसादमतिदुर्लभं शुभमद्भुतं सन्ततम् ॥ २४.६१॥
तिरस्करोत्येव यमं यमादिभिः विनापि तावत् सकृदादरेण ।
स्मृत्वा सकृद्वा शिवमादरेण प्रयाति दुःखौघमहाब्धिपारम् ॥ २४.६२॥
शिवनामसुधामुहुर्मुहुः यदि पीता सकृदेव वा तदा ।
सकलाघविपर्यंयो भवेदपि मुक्तिश्च भवत्यपि ध्रुवम् ॥ २४.६८॥
वारं वारं शङ्करध्यानरूपं पीयूषं चेत् पीतमत्यादरेण ।
पापैर्भीति नोपयात्येव सत्यं मोक्षश्रीरप्यादरेणावृता स्यात् ॥ २४.७१॥
॥ इति शिवरहस्यान्तर्गते शिवाराधनमहिमानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २४। वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 24. vAvRRittashlokAH ..
Proofread by Ruma Dewan