आस्तिकप्रोक्तं शिवाराधनपरिपूर्णतानुभववर्णनम्

आस्तिकप्रोक्तं शिवाराधनपरिपूर्णतानुभववर्णनम्

- आस्तिकविष्णुसंवादे - आस्तिकः - वेदैर्वदान्योत्तममीशमेकं मत्वा महादेवमुपाश्रितोऽहम् । स एव मे सर्ववरप्रदाता दाता वराणां वरदोत्तमोऽयम् ॥ ८५॥ यं यं वाञ्च्छति शाम्भवः प्रतिदिनं तं तं प्रयच्छत्युमा- कान्तः सन्ततमन्तकान्तक इति ख्यातो य एव श्रुतौ । तस्मिन् मे वरदोत्तमे सति मनो दैन्यं न जानात्यतः किं मे दुर्लभमस्ति शङ्करपदध्यानेन तन्मे मनः ॥ ८६॥ यो दाताःजगतां तवापि कमलाकान्तामराधीश्वरो गौरीचारुपयोधराधरमहाहाराबलीलया । लोकान् पालयति स्वभावविभवस्तद्वैभवस्या- वधिर्नास्त्येवेति स एव मे वरद इत्यन्यं न मन्यामहे ॥ ८७॥ स्वप्ने वा गिरिजामनोहरपदाम्भोजार्चनान्मे मनो नैवासीद्विरतं न चान्यभञ्जनासक्तं प्रमत्तं च न । तेनैवेप्सितसिद्धिरित्यपि मतिवृद्धिं प्रयात्येव मे दैत्यारातिरुमापतिः शरणमित्यन्यं न मन्यामहे ॥ ८८॥ यद्दौवारिकदण्डमण्डलकशाधातादिभीतो भवानादावेव चतुर्मुखोऽपि स शचीनाथोऽपि तं केवलम् । याचे याचककल्पभूरुहमहं मोहं विहायाधुना मोहध्वान्तविनाशके सति शिवेत्यन्यं न मन्यामहे ॥ ८९॥ अस्माकं गिरिजामनोहरहरापारादरात्यादरे शान्ते शान्ततरं निरन्तरमुमाकान्तानुरक्ते सति । अन्यस्मात् किमपेक्षितं किमपि न न्यूनं जगन्मण्डले पीयूषांशुकलावतंसभजनादन्यन्न मन्यामहे ॥ ९०॥ स्मृत्वा जनाजराभिघातनिहताः शर्वान्यसंसेवनात् श्रान्तं मे मन एव तावदधुना तेभ्यो निवृत्तं ततः । भूयस्तत्पदसेवनं न कुरुते तुच्छ्रत्वबुद्ध्या षरं तांस्त्यक्त्वा शिवपूजनं परमतोऽप्यन्यं न मन्यामहे ॥ ९१॥ मृत्युर्यस्य जरादिजन्मजनितं दुःखं न यस्याभवत् तं मृत्युञ्जयमेकमेव शरणं प्राप्ताः सदा सादरम् । तस्मिन्नेव वदान्यनायकवरे गौरीविहारे षरे इत्थं क्रीडति तेन सिद्धिरभितोऽप्यन्यं न मन्यामहे ॥ ९२॥ यावद् भ्रान्तिरभूत् पुराऽतिविषमा तावत्पराराधने- प्यासक्तं त्वयि जन्ममृत्युवशगे ज्ञाते निवृत्तं मनः । को वा जन्मजराविहीन इति तच्चित्तं विचार्याधुना श्रीमृत्युञ्जयचिन्तने विरतमित्यन्यं न मन्यामहे ॥ ९३॥ को वा रत्नविशेषनिर्मितलसत्पात्रस्य दुग्धं शिवे दत्तं शर्करया समेतमनघेनाज्येन युक्तं परम् । त्यक्त्वा क्षारजलं पिबत्यनुदिनं तस्माछिवान्यः सुरो नोपास्योऽपि न तेन वाक्फलमतोऽप्यन्यं न मन्यामहे ॥ ९४॥ को वा मेरुशरापनं त्रिनयनं गौरीविहारादर- व्याख्यानप्रवणप्रसाधनधनं कैलाससिंहासनम् । त्यक्त्वाऽन्यामरसेवनाय यतते भीतो यथा भीतितः प्राप्नोत्येव विमोहितः प्रकृतितोऽप्यन्यं न मन्यामहे ॥ ९५॥ कः प्राप्यापि सुधाब्धितीरमसकृद्धीरः पिपासातुरः तत्क्षीरं परिहाय दुर्मतियुतः क्षीराम्बुराशिं व्रजेत् । तस्माद्देवशिखामणिं सुरमणिं श्रीशूलपाणिं मनः त्यक्त्वान्यं न भजत्यपि स्वयमतोऽप्यन्यं न मन्यामहे ॥ ९६॥ किं कष्टान्यपि विस्मृतानि भवता विश्वेश्वराराधन- त्यागात् सायमिमं गतैव कमला सिन्धुं ततः पीडया । तन्निर्मन्थनकालकूटकलितज्वालाकुलः कृष्णतां प्राप्तोऽसि स्मर तत्परं स्मृतमतोऽप्यन्यं न मन्यामहे ॥ ९७॥ त्वं घोरे विपिने वराहवपुषा लक्ष्मीविहीनस्तदा तद्वन्याशनजीवनः शिवपदाम्भोजार्चनानादरात् । तत् किं विस्मृतमेव तत्स्मर पुनः तेनापि लज्जा न किं ते तावद्वद तेन तावदधुना त्वन्यं न मन्यामहे ॥ ९८॥ स्वत्वं वस्तुषु भूतलेऽपि विदितं विश्वेश्वरस्येत्यतः सर्वे तस्य स एव तावदसकृद् दाता वदान्योत्तमः । तस्मादेव समस्तवस्तुनिचयप्राप्तिस्तदन्यस्य किं स्वत्वं वस्तुषु केष्वपीत्यपि मितेरन्यं न मन्यामहे ॥ ९९॥ भक्ताभीप्सितवस्तुजातमसकृद्दत्वा पुनर्वाञ्छितं भक्तस्यास्ति किमित्यनक्षणमुमाकान्तो विचार्यादरात । दातृत्वव्यसनेन दातुमभितो वाञ्छत्यपूर्वं फलं लिङ्गाराधनतत्पराद्य सततोप्यन्यं न मन्यामहे ॥ १००॥ वाञ्छा यत्र न सर्वथा न विदितं नापि श्रुतं सर्वथा तद्दातुं शिवपूजकाय यतते मृत्युञ्जयः सर्वथा । तं देवोत्तममप्रयासफलदं त्यक्त्वा तदन्यं मनो गन्तुं वाञ्च्छति तुछमित्यपि कदाप्यन्यं न मन्यामहे ॥ १०१॥ मातेवाशु शरीरपोषणरतो लिङ्गार्चकानां सदा विश्वेशः स पिता पितेव विहिते भक्तिं नियुङ्क्ते पुनः । स्नेहाम्भोनिधिमालया परिवृतं भक्तं करोत्येव तं त्यक्त्वा तावदुमासहायमधुना त्वन्यं न मन्यामहे ॥ १०२॥ अस्मत्पूर्वजपूर्वजार्चितमहापुण्याम्बुराशेः फलं संवृत्तं फलमित्यवैमि बहुधा यस्मादुमावल्लभः । अस्माकं फलदैवतं परहितं कर्तुं समर्थः सदा तस्मादेव हितार्थलाभकथनादन्यं न मन्यामहे ॥ १०३॥ धन्यानां शिव एव दैवतमिति ज्ञातं शिवप्रार्थनं धन्या एव परं विहाय सकलं संसाररूपं फलम् । नित्यं निर्मलचेतसोऽप्यविकलं कुर्वन्त्युदाराः फलं हारा एव हरात्परं परतरं त्वन्यं न मन्यामहे ॥ १०४॥ सम्प्राप्यापि शिवार्चनेन सकलं सर्वः शिवाराधनो- पायः प्राप्त इति प्रभूतविभवाः कुर्वन्ति लिङ्गार्चनम् । तस्मादप्यमितं फलं पुनरुमाकान्तादवाप्यं ततः शान्ता एव शिवं प्रयान्ति तमतोप्यन्यं न मन्यामहे ॥ १०५॥ यद्बिल्वदलमप्युमापतिरतिप्रीत्या गृहीत्वा नवं जीर्णं वा त्रुटितं च नीरसमपि श्रेयस्करं केवलम् । मत्वा सर्वधराधिनाथविनतं दीनं करोत्यादरात् अन्ते मुक्तिमपि प्रयच्छति ततोप्यन्यं न मन्यामहे ॥ १०६॥ श्रीकण्ठाद्गिरिराजराजतनयामेरुस्फुरच्छीकरात् हारश्रीपरिहारदक्षविलसद्वक्षोजवक्षःस्थलात् । इन्द्रादिप्रतिपक्षदक्षदलनात् भालानलाक्षात् परं स्वप्ने वा मरणेऽपि वा स्वकरणैरन्यं न मन्यामहे ॥ १०७॥ ॥ इति शिवरहस्यान्तर्गते आस्तिकप्रोक्तं शिवाराधनपरिपूर्णतानुभववर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २८। २३-१०७ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 28. 23-107 .. Proofread by Ruma Dewan
% Text title            : Astikaproktam Shivaradhanaparipurnatanubhavavarnanam
% File name             : shivArAdhanaparipUrNatAnubhavavarNanam.itx
% itxtitle              : shivArAdhanaparipUrNatAnubhavavarNanam (shivarahasyAntargatam)
% engtitle              : shivArAdhanaparipUrNatAnubhavavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 28 | 23-107 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org