शिवार्चनं परो धर्मः
॥ शिवार्चनैव सवितुर्गायत्रीकथनम् ॥
(व्यासः -
शृणुध्वं मुनयः सर्वे भूतिधारणपूर्वकम् ।)
हृदि ध्यात्वा महादेवं मङ्गलार्धाङ्गमव्ययम् ॥ १॥
शिवार्चनं परो धर्मः सर्वधर्मोत्तमोत्तमः ।
तद्भिन्नधर्माः सर्वेऽपि तदर्था एव केवलम् ॥ २॥
शिवः परं परं ब्रह्म सच्चिदानन्दलक्षणम् ।
विज्ञानघन एवेति सानन्दघनमुच्यते ॥ ३॥
तन्निर्विकारं निर्लिप्तं तदाद्यन्तविवर्जितम् ।
ज्योतिःस्वरूपममलं नामरूपविवर्जितम् ॥ ४॥
अप्रमेयं निर्गुणं च निरञ्जनमनामयम् ।
वाचामगोचरं मन्ये मनसामप्यगोचरम् ॥ ५॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
वेदवेदान्तवचनैरशक्यं तन्निरूपणम् ॥ ६॥
पुराणानां का कथात्र वाङ्मार्गार्गलमेव तत् ।
अनर्गलप्रवाहाणां कथानामपि वा कथा ॥ ७॥
वागगोचरमप्येतत् कथञ्चित् कृपया प्रभोः ।
शम्भोर्विषयतामाप (?) ततस्तद्वचसामपि ॥ ८॥
इदमप्युच्यते तावत् प्रेरितेन कथञ्चन ।
शिवेनैव मया विप्राः स बुद्धिप्रेरकः शिवः ॥ ९॥
देवस्य सवितुर्बुद्धिं प्रचोदयति शङ्करः ।
स एव भगवान् भर्गो धियो यो नः प्रचोदयात् ॥ १०॥
देवस्य दीप्यमानस्य सवितुः ज्ञानमुत्तमम् ।
प्रचोदयति विश्वात्मा वरेण्यः शिव एव सः ॥ ११॥
अस्य भर्गपदस्यैव माहात्म्यं श्रुतिषु श्रुतम् ।
संसारभर्जनाद्भर्गः सोयं स्वर्गापवर्गदः ॥ १२॥
॥ इति शिवरहस्यान्तर्गते शिवार्चनैव सवितुर्गायत्रीकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २। १५-२७॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 2. 15-27..
Proofread by Ruma Dewan