ईश्वरप्रोक्तं शिवार्चनमहात्मयम्

ईश्वरप्रोक्तं शिवार्चनमहात्मयम्

ईश्वरः - श‍ृणु वक्ष्यामि ते देवि हितमात्यन्तिकं शिवे । यत्प्रोक्तं पूजनं देवि सुराणाञ्च नृणां सदा ॥ १॥ सा प्रजानन्तफलदा जन्मकर्यप्रणाशिनी । संविदेव परा पूजा सा तु तस्यां मनोलयः ॥ २॥ साधारणानां सा पूजा ह्यव्यक्तातीव दुर्घटा । मत्प्रसादेन देवेशि पचेलिमतपःफलैः ॥ ३॥ योगर्यागैश्च तपसा महानन्दकदम्बकैः । भस्मनिष्ठस्य सततं रुद्रावर्तनशीलिनः ॥ ४॥ भस्मत्रिपुण्ड्रयुक्तस्य सदा रुद्राक्षधारिणः । पञ्चाक्षरपरस्यैव सदा लिङ्गार्चकस्य च ॥ ५॥ बिल्वपत्रैर्महादेवि प्रदोषे पूजकस्य माम् । नक्ताशनार्चनध्यानचतुर्दश्यष्टमीषु च ॥ ६॥ सोमवारव्रताचारयुक्तस्य नियतस्य च । मत्क्षेत्रवासिनो देवि ह्यविमुक्तरतस्य च ॥ ७॥ विश्वेश्वरार्चकस्यास्य सुरस्य च नरस्य च । तथा महालये पुण्ये रुद्रकोटौ महेश्वरि ॥ ८॥ कालञ्जरे प्रभासेऽपि पुष्करेऽमरकण्टके । पिण्डारके कुरुक्षेत्रे महाकाले महेश्वरे ॥ ९॥ देवदारुवने पुण्ये नैमिषे चित्रकूटके । केदारे कामदे पुण्ये वैद्यनाथे महेश्वरि ॥ १०॥ श्रीशैले च तथोङ्कारे तथा वेणुवने शिवे । आवटङ्के सोमनाथे गोकर्णे त्र्यम्बके गिरौ ॥ ११॥ श्रीमद्दक्षिणकैलासे तथैकाम्रवने मम । वृद्धाद्रावरुणाद्रौ च तथा गोपर्वते शिवे ॥ १२॥ हृत्पुण्डरीके गूढे च जप्येशे श्वेतकानने । गजारण्ये रत्नगिरौ श्रीकण्ठे मातृपर्वते ॥ १३॥ कोटिकायां मङ्गले च पुण्ये द्रुतिवनेऽपि च । कुम्भघोणेऽर्जुने चैव श्रीसुन्दर गिरौ तथा ॥ १६॥ माधवीतेजिनीदेवीक्षीरिणीकानने तथा । शमीवने बिल्ववने घटेशे ब्रह्मकानने ॥ १५॥ छायावने च श्रीवाञ्छ्ये तथा वेदवने शिवे । वल्मीके वातपुर्याञ्च सेतो वै गन्धमादने ॥ १६॥ हालास्ये शालिकवने गजशैले महेन्द्रके । वसतः पुण्यशीलस्य नक्ताशनरतस्य च ॥ १७॥ संवसद्द्वादशाब्दं तु भस्मनोद्धूलितस्य च । कस्यचिद्भाग्यनिवहैर्ज्ञानन्तल्लभ्यते मम ॥ १८॥ बहुभिर्जन्मभिर्देवि मत्प्रसादयुतस्य च । वैराग्यभक्तियुक्तस्य चात्मलिङ्गार्चने मतिः ॥ १९॥ जायते पुण्यपाकेन चित्तशुद्ध्यनुसारतः । जायते जन्मनाशाय नृणामत्यन्तदुर्लभम् ॥ २०॥ नानाचारविहाराणां विषयासक्तचेतसाम् । वाञ्छा न जायते देवि कस्यचित्कचिदेव हि ॥ २१॥ बहुजन्मसहस्रेषु तिर्यक्स्थावरजङ्गमैः । जन्मभिः पुण्यनिचयैर्युक्तस्य पुरुषस्य च ॥ २२॥ मत्प्रसादेन विज्ञानं जायते नान्यधा(नान्यथा) शिवे । मध्यानधारामोदादियुक्तस्य निरतस्य च ॥ २३॥ अथर्वशिरसोऽध्यायशिखाजपयुतस्य च । जावालश्रुतिनिष्टस्य शाम्भवस्य विशेषतः ॥ २४॥ कैवल्यकालरुद्रादिजापिनो ब्राह्मणस्य च । रुद्रावर्तनशीलस्य भस्मनिष्ठस्य मे सदा ॥ २५॥ ज्ञानं विजायते गौरि कस्यचिच्छिवयोगिनः । यततामपि शैवानां कश्चिन्मां वेत्ति तत्वतः ॥ २६॥ मज्ज्ञानसाधनं देवि नृणमत्यन्तदुर्लभम् । मां ध्यायेद्धृदयागारपद्मसंस्थं चतुर्भुजम् ॥ २७॥ मृगटङ्कधरं सौम्यं सञ्चिदानन्दविग्रहम् । शुद्धकर्पूरसाराच्छकुन्देन्दुधवलप्रभम् ॥ २८॥ मुकुटोद्भासिचन्द्राङ्कं गङ्गामलकपर्दकम् । भुजङ्गराजवलय महार्हमणिभूषणम् ॥ २९॥ दिव्यानेकमणिव्रातचितसिह्मासनस्थितम् । त्रिणेत्रं नीलकण्ठञ्चापीन्दुधामसमाननम् ॥ ३०॥ उमया सहितं ध्यायेत्क्षणं वाथ क्षणार्धकम् । सोऽहमीशश्शिवस्साक्षादहं रुद्रो हरिर्विधिः ॥ ३१॥ अहमिन्द्रोऽनलो वायुर्यमोऽहं वरुणोऽर्यमा । चन्द्रः कुबेरो मरुतो ह्यश्विनौ मरुतोऽर्ककाः ॥ ३२॥ स्कन्दो विघ्नेश्वरश्चैव नन्दिकेशादयो गणाः । सर्वेषां जनिता चाहं मत्त एवाद्य निर्गताः ॥ ३३॥ मयैव विधये दत्ता वेदास्सर्वे सनातनाः । मयैव विष्णवे दत्तं सहस्रारं सुदर्शनम् ॥ ३४॥ अहमेवेति विज्ञाय ध्यायेन्मद्रूपमैश्वरम् । एवं हि ध्यायतां देवि मज्ज्ञानं जायते नृणाम् ॥ ३५॥ अथवा देवमीशानं मां ध्यायेत्सूर्यमण्डले । हिरण्यबहुमाशास्यं हिरण्यश्मश्रुमीश्वरम् ॥ ३६॥ हिरण्यवर्णं देवेशि ह्यम्बिकापतिमीश्वरम् । सर्वग्रन्थिविमोक्षाय तज्ज्ञानं जायते नृणाम् ॥ ३७॥ योगेन वापि नियमयमासनयुतस्य च । रेचके पूरयेद्वायुं पूरकेणाथ पूरयेत् ॥ ३८॥ कुम्भके कुम्भवद्धीमान्धारयेद्धटिकात्रयम् । योगाग्निदग्धकायोत्थमलस्यामलचेतसः ॥ ३९॥ नीहारधूमसंविद्युत्स्फटिकोज्वलदीपवत् । ज्योतिर्विभासते देवि हृदि पूरितवायुभिः ॥ ४०॥ प्राणायामेन सततं तन्नीवारशिखेव हि । सोऽहं ज्योतिर्महानात्मा ह्यसङ्गः पुरुषश्शिवः ॥ ४१॥ आपादमस्तकं देहं व्याप्य सर्वेष्वस्थितः । यो मां योगेन जानाति स्वात्मारामं महेश्वरम् ॥ ४२॥ तस्य सिद्ध्यन्ति नियतं सिद्धयोऽष्टौ महेश्वरि । तस्य मूर्ध्नि महानात्मासहस्रदलपङ्कजे ॥ ४३॥ गोस्तनाकारवद्धारा ह्यमृतैकरसस्रवा । व्यपोह्य तत्कपालन्तु चेडायां सन्ततस्रवा ॥ ४४॥ पिङ्गलाकुण्डलीमध्यात्पतन्तीशिखिमस्तके । वैश्वानरोऽयं सर्वेषु मद्रूपो देहिषु स्थितः ॥ ४५॥ तत्र चन्द्रामृतकरैः पिङ्गलायां महेश्वरि । स आत्मज्योतिरानन्दो नित्यमुक्तो महेश्वरः ॥ ४६॥ सदा क्रीडन्नभोमध्यं दहराकाशगस्सदा । चेतयामीन्द्रियगणं वाचा च मनसा सह ॥ ४७॥ परापश्यावैखरीषु प्रणवादिरसस्त्वहम् । सोऽहमावसथातीतः पुरुषोऽहं पुरीशयः ॥ ४८॥ अलिङ्गोऽस्म्यहमात्मा च सुरतिर्यङ्नरेषु च । नामरूपातिगस्साक्षादहङ्कारविवर्जितः ॥ ४९॥ रस्यस्तत्कृतकर्माणिविषयान्वैषिकंसुखम् । षोडशाख्यकला देविह्ययेकोजानामिसर्वशः ॥ ५०॥ तास्सर्वापि कला देविमयिद्योतन्तिनित्यशः । मन्ताबोद्धारसयिताज्ञाताविज्ञानईश्वरः ॥ ५१॥ श्रुतेश्श्रोता तथाघ्राता दृग्दृष्ट्याद्यहमेव हि । (श्रुतेश्श्रोता तथाघ्राता दृष्टेर्द्रष्टाद्यहमेव हि) । यथा कूर्ममहाग्रीवा ह्रस्वदीर्घा भवेच्छिवे ॥ ५२॥ यथा नद्यस्स्यन्दमाना नामरूपगुणातिगाः । समुद्रेऽस्तं प्रयान्तीशे यथा ते भानुदीप्तयः ॥ ५३॥ पुनर्यथोदयं प्राप्ते सूर्यस्येव मरीचयः । प्रसरन्ति महादेवि तथा मत्सन्निधौ जगत् ॥ ५४॥ पद्मं मित्रकरैर्यद्वद्विकसत्यब्जिनीकुलम् । यथा मणिजसान्निध्याच्चेष्टन्ते लोहसूचयः ॥ ५५॥ कालकर्मविपाकेन तथा मत्सन्निधौ जगत् । चेष्टते नितरां देवि स्थितिसंहारजन्मतः ॥ ५६॥ सोऽहं सृष्ट्वा प्रविश्यैव तन्नामगुणरूपतः । ब्रह्मविष्णुहराख्याभिर्यथापूर्वंयुगेयुगे ॥ ५७॥ सृजाम्यात्मानमेवाग्रे ततो नानाविधं जगत् । यथाग्नेर्विस्फुलिङ्गा वैक्षुद्रास्सम्भवतिप्रिये ॥ ५८॥ इन्द्रो मित्रोऽथ वरुणः पूषा सोमोऽहमेवहि । मनवः पितरोविप्रास्ताराजालङ्ग्रहास्तथा ॥ ५९॥ स्थावरं जङ्गमं चैतदहमेव सनातनः । सर्वस्सर्वशरीरेषु सर्वेन्द्रियगुणातिगः ॥ ६०॥ सर्वभोक्ताहमेवास्मि सर्वकार्यकृतास्पदः । नाहं तज्जन्ममरणैस्स्थितिसङ्गेष्वसज्जकः ॥ ६१॥ असङ्गोनैवलिप्तोऽस्मिसर्वबाह्यान्तरस्त्वहम् । एकस्तथान्तरस्सर्वदुःखहीनोऽस्मिशङ्करि ॥ ६२॥ एवं मां यो विजानाति सोहंसो मे हृदन्तरः । तस्याहं न प्रणश्यामि सचमेनप्रणश्यति ॥ ६३॥ योगसाङ्ख्यौ महादेवि तथोक्तौ मम हृत्तमौ । (योगसाङ्ख्यौ मया देवि तवोक्तौ मम हृत्तमौ) । सर्वसाधारणं देवि कथयिष्येऽप्युपासनम् ॥ ६४॥ अलिङ्गोऽस्म्यहमीशानो लिङ्गे तिष्ठामि सर्वदा । यथा गवि गतङ्क्षीरंविषाणादौनदृश्यते ॥ ६७॥ ऊधस्येव प्रदृश्येत तथाहं सर्ववास्यपि । हृदिद्ध्यात्मशक्तानां ज्ञानयोगेन वै शिवे ॥ ६८॥ लिङ्गे कृतां परां पूजां शाम्भवैर्भस्मधारिभिः । मत्पुण्ड्रनिरतैरेव रुद्राक्षवरकङ्कणैः ॥ ६९॥ रुद्राध्यायाध्ययनतः पञ्चाक्षरजपेन च । एकं वा बिल्वपत्रं यैर्निक्षिप्तं मम मस्तके ॥ ७०॥ भक्तैर्गृह्णामि तद्दैवि तस्मै ज्ञानं ददामि च । तं ज्ञानभाजनं कुर्यां प्रतिज्ञा मम शङ्करि ॥ ७१॥ नान्यवर्णाश्रमैधर्मैर्विविधैरपि मे शिवे । नैव तुष्टिर्मम परा जायते कर्मकोटिभिः ॥ ७०॥ न षोडशमहादानैरेकाहाहीनसत्रकैः । प्रपावापीप्रदानैर्वा कन्यान्नादिप्रदानतः ॥ ७१॥ कथञ्चिज्जायते देवि मदर्चायाम्पतिर्भवेत् । पुण्ड्रान्तरेषु विषेषु मस्करीणां गणेषुच ॥ ७२॥ नैव प्रीतिर्महादेवि यथा मत्पुण्ड्रधारिषु । भस्मधार्येव सततं मद्ज्ञानस्यैव भाजनम् ॥ ७३॥ शिवलिङ्गार्चनध्यानरुद्राध्यायजपेषु च । पञ्चाक्षरजपैश्चैव मम क्षेत्रनिवासकः ॥ ७४॥ भस्मत्रिपुण्ड्रधार्येव स्वीकार्यानान्य उच्यते । ऊर्ध्वपुण्ड्र भ्रमेणापि नकुर्यान्मोहतोद्विजः ॥ ७५॥ प्रत्युतो नरकायैव तस्य सर्वमनुष्ठितम् । यदि कुर्यात्प्रमादेन पितृभिस्सपतेदधः ॥ ७६॥ ऊर्ध्वपुण्ड्राङ्कितं दृष्ट्वा मीलयाम्यद्य लोचने । मत्प्रसादालोकनेन तज्ज्ञानं जायते शिवे ॥ ७७॥ यन्नेत्रे मीलिते देवि कथं ज्ञानं भविष्यति । (यन्निमीलनतः देवि कथं ज्ञानं भविष्यति) । लिङ्गं कैलासमौलौ मे कैलासेश्वरसञ्ज्ञितम् ॥ ७८॥ देवतिर्यङ्मनुष्याद्यैरदृश्यमपि कामदम् । स्मरणादेव सान्निध्यं यत्र कुत्रापि सिद्धिदम् ॥ ७९॥ एतल्लिङ्गस्य महिमा वेदैर्नज्ञात एव हि । सुरासुरैश्च मनुभिर्गणेन्द्रैरपि शङ्करि ॥ ८०॥ कैलासेश्वरसञ्ज्ञं तु लिङ्गं मुक्तिप्रदायकम् । लिङ्गराजमिदं देवि ब्रह्मैवेदं सनातनम् ॥ ८१॥ ममैव हृदयानन्ददायकं स्वर्गमोक्षदम् । संसारसागरापारतारकं भवभेषजम् ॥ ८२॥ वेदान्तसारसर्वस्वमेतलिङ्गवरं शिवे । न कस्यचिन्मया ख्यातं नाख्येयं यस्य कस्यचित् ॥ ८३॥ एतल्लिङ्गप्रभावेन जगत्सृष्टिं वितन्वते । विधातारस्सर्वएव कल्पेकल्पे स्वसूनुभिः ॥ ८४॥ देवतिर्यङनराकारसमुर्वीसरितो वनम् । लोका लोक्याश्च देवेशि विधाताद्यं तनोति च ॥ ८५॥ (लोका लोक्याश्च देवेशि विधाताद्यन्तनेऽपि च) ॥ ८५॥ विष्णवः प्रतिकल्पं वै चैतल्लिङ्गप्रभावतः । दैत्येश्वरान्निहन्तारो महतामलचक्रतः ॥ ८६॥ वैकुण्ठवासिनस्सर्वे ते लक्ष्याः पतयश्शिवे । प्रतिकल्पं तथा रुद्रास्ते गौर्याः पतयोऽम्बिके ॥ ८७॥ एतल्लिङ्गप्रभावेन प्रलये संहरन्त्यपि । जगज्जालं तथा शूलैर्वृक्णं सासुरमानुषम् ॥ ८८॥ सेन्द्राश्च मनवश्चैव ऋषिभिः पितृभिश्शिवे । एतल्लिङ्गे लयं यान्ति प्रतिकल्पं सुरासुराः ॥ ८९॥ जगद्ब्रह्माण्डजालैश्च सर्वाधारमिदं शिवे । रूपं सङ्कोच्य मे दिव्यं महान्ते प्रलये शिवे ॥ ९०॥ त्वया गणवरैर्देवि स्कन्दहेरम्बपूर्वकैः । निवसामि सदा लिङ्गे कैलासेश्वरसञ्ज्ञिते ॥ ९१॥ अलिङ्गोलिङ्गसंस्थोऽहंसृजामिविसृजामिच । जगज्जालमिदं देवि ब्रह्मविष्ण्वीशपूर्वकम् ॥ ९२॥ संहरामि तथैवान्ते लीलेयं मम शङ्करि । आत्मक्रीड आत्मरतिस्सृष्टिस्थित्यन्तकारकः ॥ ९३॥ कारणं कारणानाञ्च पतीनां पतिरीश्वरः । चेतनश्चेतनानां च नित्योऽहं परमेश्वरि ॥ ९४॥ सकारणोऽहं कारणाधिपाधिपो ममैव कश्चिज्जनको नहीश्वरि । कालात्मयुक्तान्यधितिष्ठतीशो गुणी सर्वज्ञस्सर्वभूताधिवासः ॥ ९५॥ (कालात्मयुक्तान्यधितप्यामीशो गुणी सर्वज्ञस्सर्वभूताधिवासः) ॥ ९५॥ एतत्ते कथितं देवि रहस्यार्थप्रकाशकम् । न देयं गुह्यमप्येतद्भक्तेषु प्रतिपादय ॥ ९६॥ रहस्यांशमिदं शैवमादिमं परमेश्वरि । गुह्यज्ञानमिदं सुभ्रु रहस्यज्ञानसङ्ग्रहम् ॥ ९७॥ न प्रकाश्यमिदं भद्रे कस्यचिद्धेलयाम्बिके । इदं रहस्यं वेदानामनन्तानां सनातनम् ॥ ९८॥ देवादीनां मुनीनां च गणानाञ्चप्रकाशितम् । तव हार्देन देवेशि रहस्यं कथितं मया ॥ ९९॥ हृदि धार्यं सदा देवि गोप्याद्गोप्यमनुत्तमम् । प्रथमश्शिवरत्नाब्धिरहस्यस्यांश उत्तमः ॥ १००॥ कर्णभूषामणिस्तेऽद्य कथितस्तु सुगोप्यताम् । सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते ॥ १०१॥ स्कन्दः - इत्युक्त्वा गिरिजां देवस्समालिङ्ग्य महेश्वरः । कैलासमौलौ शिवया विजहार यथासुखम् ॥ १०२॥ देव्युवाच - वस्त्राधौतविधौ सहस्रकरता पुष्पार्पणे विष्णुता गन्धे गन्धवता महान्नपचने बर्हिर्मुखाध्यक्षता । (गन्धे गन्धवहाप्ततान्नपचने बर्हिर्मुखाध्यक्षता) । पात्रे काञ्चनगर्ततास्ति भगवन्कारुण्यवारान्निधे शुश्रूषां करवाणि ते पशुपते स्वामिन्स्त्रिलोकीगुरो ॥ १०३॥ गण्डूषाम्बुनिमज्जनाय हृदभूद्गङ्गावतंसस्य ते (गण्डूषाम्बुनिमज्जनाय यदभूद्गङ्गावतंसस्य ते) चूडालङ्कृतिकल्पनाय विधृतं ज्योतिस्मुधाधाम ते । तृप्त्यै भक्षितशेषमामिषमपि त्रैलोक्यकुक्षिम्भरे विद्याधीशमृते तव स्तुतिरियं वाणी लघिष्ठापि मे ॥ १०४॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये ईश्वरप्रोक्तं शिवार्चनमहात्मयम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ६० - स्कन्दस्तुतिः । १-१०४॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 60 - skandastutiH . 1-104.. Notes: Śiva शिव reveals to Devī देवी, the mysteries of Śivatattva शिवतत्त्व that permeates The Universe, and subtleties of worship of Śivaliṅga शिवलिङ्ग - including the merits of performing pūjā पूजा at several Śivakṣetra शिवक्षेत्र. Encoded and proofread by Ruma Dewan
% Text title            : Ishvaraproktam Shivarchanamahatmayam
% File name             : shivArchanamahAtmayamIshvaraproktaM.itx
% itxtitle              : shivArchanamahAtmayam Ishvaraproktam (shivarahasyAntargatA)
% engtitle              : shivArchanamahAtmayam Ishvaraproktam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 60 - skandastutiH | 1-104||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org