श्री श्रीधरवेङ्कटार्यकृतौ शिवभक्तलक्षणम्
शिवाभ्यां नमः ।
अथ शिवभक्तलक्षणं प्रारम्भः ।
नाथ त्वदीयमभिधानमुपाश्रितानां
क्रोधस्मरादिक कुवृत्तिपिशाचिकाभिः ।
आभिः कथं परिभवो भगवन्नमीषां
अन्तर्निषीदति भवान् खलु शूलपाणिः ॥ १॥
दर्पस्मरप्रभृतिदावविदह्यमानं
लोकं विलोक्य कृपयेश कृपां तवास्मिन् ।
वाञ्छन्ति यान्ति च मुदं वयमेतदापत्
त्यक्ताः किलेति शरणीकृत तावकाख्याः ॥ २॥
कायस्य हेयनिधितां मृतिरुग्जरार्त्या-
द्यानन्त्यमप्यलमवेत्य विमुक्तसर्वाः ।
शम्भो चरन्ति विरुजस्त्वयि बध्दभावाः
ये सादरास्तव हि नाम्नि महानुभावाः ॥ ३॥
त्वन्नामकीर्तनवरौषधमाश्रितेऽस्मिन्
अस्मै खलु स्मरहर स्वदसे त्वमेकः ।
अन्यत्तु किञ्चिदपि न स्वदते तदेतत्
आखण्डलस्य पदमस्तु विधेः पदं वा ॥ ४॥
आकाङ्क्षितुं कमलजादिभिरप्यलभ्यं
आप्तुञ्च तन्निरुपहत्यथ वर्तितुञ्च ।
सन्मौळिलाळनपदं पदमीश ते किं
गौरीश ये त्वदभिधा नरतास्तदन्ये ॥ ५॥
एकं भवद्भजनमेव सुखं तदन्यत्
आर्त्यात्मकं सकलमेतदिति प्रबोद्धुम् ।
स्थातुं च मुक्तसकलं भवदेकतानं
ईशास्त एव शिव ये तव नाम्नि सक्ताः ॥ ६॥
दुःखात्मकत्वमखिलस्य तवातिवेला-
नन्दात्मताञ्च समवेत्य झटित्यशेषम् ।
त्यक्त्वाऽनलार्त वपुषः सरसीव शम्भो
त्वय्यापतन्ति समुपाश्रित तावकाख्याः ॥ ७॥
आख्यापरास्तव विभो भवदात्मकत्वं
अस्याखिलस्य तव चित्सुखरूपताञ्च ।
आबुध्द्य बध्दहृदयास्तव शर्म
विन्दन्त्यन्तः किमप्यगणित द्रुहिणादिभोगाः ॥ ८॥
द्वेष्य प्रियादि सकलं भवदीयरूपं
बुध्द्वा त्वयि प्रणयतः प्रणयार्द्रदृष्ट्या ।
पश्यन्त एतदवलम्बित तावकाख्याः
पश्यल्ललाट विचरन्ति जगत् पुनन्तः ॥ ९॥
रागादिकृद्विविधमेष महानटः
खल्वानृत्यतीत्थमिति तत्त्वदृशेक्षमाणाः ।
क्षोभं न यान्ति दधते च मुदं स्मरन्तः
त्वद्वैभवं त्वदभिधान निबद्धभावाः ॥ १०॥
शम्भो कथं नु चतुरास्तव नाम्नि सक्ताः
शश्वत्कृतेऽप्यपद एव पराभवेऽन्यैः ।
अस्तोद्यमाः प्रतिकृतावपयात्वमीषामेषा
कदाऽऽर्तिरिति तेषु दयां वहन्ति ॥ ११॥
त्वन्नामधेयसिकास्तरुणेन्दुमौळे
दुःखं न यान्ति किमपीति हि वादमात्रम् ।
तेऽमी किल स्वविपदीव वहन्ति दुःखं
दृग्गोचरं व्रजति दुःखिनि जन्तुमात्रे ॥ १२॥
सर्वत्र वत्सलतया त्वदवेक्षया चो-
दारा महान्त इति धीनिगळेन मुक्ताः ।
प्रेम्णा खलु त्वयि विभो तृणिताखिलार्थाः
त्वन्नामधेयरसिकाः कृतिनो जयन्ति ॥ १३॥
नाथ त्वदीक्षणवशादखिलेष्वमीषु
न क्वाप्यगौरवदृगात्मनि तु प्रकामम् ।
नैच्यग्रहस्त्वयि तु रक्तिरनर्गळेति
क्वाधीतवन्त इदमादृत तावकाख्याः ॥ १४॥
अत्युन्नतिं वितरतीति यथोऽतिवेलं
अस्याश्चकास्ति शिव तावकनाम्नि सक्तेः ।
आख्यायतां किमियमातनुते नितान्तं
आनम्रमेतमखिलेषु चराचरेषु ॥ १५॥
त्वन्नामकीर्तनजुषोऽनिशमेकतानाः
त्वत्सेवनं विदधतोऽपि न तत्र तृप्तिम् ।
विन्दन्ति हन्त सति विघ्नलवे भवन्ति
वह्निप्रवेश इव दुस्सहतापभाजः ॥ १६॥
अस्तस्पृहं मुनिमहं समदर्शनं स-
मन्वेमि तच्चरणपद्मरजोभिलाषात् ।
इत्यादि ताक्कगिरां गिरिशास्पदं त्वत्
आख्यापराः पुनरमूनवितुं क्षमः कः ॥ १७॥
त्वत्सौहृदादि सुगुणामृतशीतळास्त्वत्
आख्यापरा इति तवेश यशोऽभिगोप्तुम् ।
अस्मानपि त्वदभिधान जुषो जुषस्व
स्वच्छं यशस्तदपदे ननु माऽपनैषीः ॥ १८॥
क्रोधस्मराद्युपशमं त्वयि रागिताञ्च
देहीश मे न यदि मे श्वमुखेभ्य एभ्यः ।
किं भेदकं त्वदभिधां मम गृह्णतोऽस्य
फल्गुस्थितिस्त्वदयशोभरहेतुरेषा ॥ १९॥
त्वन्नामकीर्तन सुधारसधारयाऽस्त-
विच्छेदया भृशविशृङ्खलसौहितीकः ।
वेद्यान्तराण्यकलयन् विचराणि सोऽहं
शान्तः कदा शशिवतंस तव प्रसादात् ॥ २०॥
मत्प्राणवल्ल्भ मदीयनिधे मदात्मन्
साम्ब प्रभो शिव शशाङ्कविभूषणेति ।
त्वन्नामदीव्यदमृतोदधिवीचिडोळा-
न्दोळैर्विधेहि विरुजं कृपया विभो माम् ॥ २१॥
इति श्री श्रीधरवेङ्कटेशार्य कृतिषु शिवभक्तलक्षणं सम्पूर्णम् ।