शिवभक्त्यार्थ प्रार्थना

शिवभक्त्यार्थ प्रार्थना

भोगाङ्गानि विनश्वराणि भगवन् प्राज्यानि राज्यान्यपि श्रीमृत्युञ्जय सर्वथापि निधयः सापायशङ्काश्रयाः । शङ्कातङ्कनिवारकं निरधिकं कालान्तकं केवलं त्वां मन्ये तत एव सा त्वयि सदा भक्तिममास्तु स्थिरा ॥ १॥ गोक्षीरे मधुशर्करादिमधुरद्रव्येषु जिह्वा यथा लोला तद्वदुमापते शिवमहादेवेति नामामृते । लीला सन्ततमस्तु चित्तमपि मे त्वत्पादपद्मे मुदा भृङ्गत्वं समुपेत्य तिष्टतु वरः सोऽयं वराणां वरः ॥ २॥ प्राप्य प्रोषितभर्तृकेव रमणं भाजु यथा पद्मिनी शीतां कुमुदं सुधामिव नरो राज्यानि राजाधमः । सुश्रोत्रं बधिरोऽन्धकः सुनयनं पङ्गुः पदक्षेपणं वाणीं मूक इवान्तकान्तक पदं पुष्टं प्रहृष्टं पुनः ॥ ३॥ प्राप्येवोषरभूतले जलमतिश्रान्तो वसन्तं पिको वन्ध्या पुत्रमघक्षयं मुनिजनश्चन्द्रं चकेराङ्गना । मेघं चातकबालकः शिवपुरीं विश्वेश्वराराधकः प्राप्यानन्दममन्दमिन्दुमुकुटं मन्मानसं लालसम् ॥ ४॥ मच्चित्तं मकरन्दपाननिरतो भृङ्गो मरन्दं यथा कामी सुन्दरकामिनीमिव धनं निःस्वोः यथा बालकः । स्तन्यं मेधमिवाङ्कुरः शिव तथा त्वन्नामसङ्कीतनं लब्ध्वा तुष्यतु पुष्टमस्तु सततं याचे न चान्यान् वरान् ॥ ५॥ शम्भो त्वच्चरणारविन्दमधुना दष्टं पुनर्मे कदा देयं दशनमिन्दुशेखर दयासिन्धो यदा नेक्षितम् । त्वत्पादाम्बुजमादरेण न तदा ग्राह्यं जलं वा कथं मामाज्ञापय दर्शनाय भगवन् सायं प्रगे वा प्रभो ॥ ६॥ एतस्मादधिको वरद मे नापेक्षितः सर्वथा शर्वोऽयं शपथः शिवाचरणयोः त्वत्पादपद्मेऽपि मे । अन्यत् किं मदपेक्षितं शिवपदाम्भोजे भजे सन्ततं तन्मात्र मदपेक्षितं हृदयमप्यत्रान्वहं सादरम् ॥ ७॥ ॥ इति शिवरहस्यान्तर्गते शिवभक्त्यार्थ प्रार्थना सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २१। २०-२६ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 21. 20-26 .. Proofread by Ruma Dewan
% Text title            : Shivabhaktyartha Prarthana
% File name             : shivabhaktyArthaprArthanA.itx
% itxtitle              : shivabhaktyArthaprArthanA (shivarahasyAntargatA)
% engtitle              : shivabhaktyArthaprArthanA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 21| 20-26 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org