श्रीशिवदण्डकम्

श्रीशिवदण्डकम्

जय जय जगदीश काशीपुराधीश केशीकृताकाश सम्पूर्णलोकेश सुत्रामकीनाशहस्तोल्लसत्पाश निश्शेषवित्तेशमुख्यामराधीश संसारदुष्पाशजालावलीनाशपूर्वत्वदभ्याशवासप्रद श्रीमदुद्यद्यशोधाम फालोल्लसत्सोम देवद्विषां भीमवर्ष्मावहन् कामदेहं दहन् काममापूरयन् कामदेवस्त्रिया वामनेत्रालसद्वामगात्रासुरस्तोमवित्रासनोमाकलत्रानडुन्नाथपत्रारविन्दाभनेत्रातिमात्रं पवित्रं गुणग्रामपात्रं वदाम्येष गोत्रं मदीयं च गोत्रं यथा स्यात्पवित्रं तथाधेहि शम्भो प्रपन्नोऽहमम्भोजपत्राक्ष दम्भोलिभर्त्रापि जम्भो हतोऽभूददम्भोक्तिनुत्यास्मि(नुत्योऽसि)डिम्भोऽस्मि ते देव कुम्भोद्भवस्तुत्य किं भोगिभूषामणे मय्युपेक्षां करोषि त्वमेतन्न जानासि किं दुःखपाथोधिमग्नं हृषीकौट्य(कौघ)भुग्नं भवत्पादलग्नं मदीयाघवृन्देन दूरीकृतोऽसि त्वमेतद्वचस्ते न युक्तं महादेव हा दैवमेतन्मदीयं यतः सर्वदेवैकवन्द्यादपि श्रैष्ठ्ययमेनोगणस्येति यन्नामजापादघानां ततीनां विनाशोऽथ निन्द्यप्रचण्डापि चण्डालजातिः शिवेत्युक्तिमात्रेण निर्धूतनिस्सीमपापब्रजा स्यात् तया संवदेत् संवसेच्चेति वैदानि वाक्यान्यपि व्यर्थतामापुरित्यादिबाहुल्यमत्याहितस्यास्य कात्ययनीकान्त भृत्यावन ब्रूहि सत्यानि चेद्वेदवाक्यानि कस्मादथ त्वं ममैनस्समूहेन दूरीकृतः केऽपि लोके न चेदुद्धृताः स्युस्त्वया नैव याचेऽहमप्यप्रसिद्धेस्तदा कुम्भजः कौशिको गीष्पतिर्भार्गवो नन्दसूनुः शुको रावणारिर्दधीचो मृकण्डोः सुतो गौतमः शक्रदुर्वासमुख्या अमी शैवमुख्याः पुराणे प्रसिद्धास्त्वयैवोद्धृता मां कुतो नोद्धरस्युग्र चेद्यत्र सूर्यो न भात्येष चन्द्रो न तारा न विद्युत् कुतो ह्यग्निरुद्यत्प्रभामण्डलव्याप्तसूर्यावलीकोटिकोटिप्रकाशं पदं तत्कथङ्कारमीष्टे भवान् द्रष्टुमित्यस्ति ते चेतसि, श्रूयतां तत्र लोके न केषामपि श्रीपदं दृष्टिगं स्यान्न चापीष्टमापादनं तद्यतःसर्वलोकैरदृष्टस्य सद्भाव एवं व्यलीको भवेन्नैव मे तद्यतो ब्रह्मविष्ण्वादिभिर्दृश्यते चेत्पदं केन तत्कारणेनेति पृच्छामि तत्तप्यमानं तपस्तत्र चेत्कारणं किं तपस्तद्यदाचक्ष्व चान्द्रायणं तप्तकृच्छ्रं तथा सप्ततन्तुव्रजो भूरिवर्षेषु निर्भोजनं तत्र पृच्छामि सर्वेषु तेषु स्वकीयं मनोऽसन्न्निरुध्य स्थितं चेत्कुतस्तप्यमानैस्तपोराशिभिर्नो फलं जायते चित्तरोधोऽपि चेत्तत्र हेतुस्तदा कुत्र रोधस्तदाचक्ष्व चेत्त्वत्स्वरूपे न रूपं मनोगोचरो नापि वेदोऽपि निर्वक्तुमीशो यतस्तत्र रूपं रसो नापि गन्धो न च स्पर्शशब्दौ न चक्षुर्न कर्णो न मूर्धा न वक्त्रं न जिह्वा न पाणी न पादौ न कुक्षिर्न वक्षो न कक्षो न कण्ठो न पीनं कृशं नापि दीर्घं न खर्वं न नीचं न चोच्चं न नारी न पण्डो न नानापि नाना न चैकं न सन्नाप्यसत्त(त्त)दीदृक् स्वरूपं कथं चित्तरम्यं कथं वेदगम्यं ततः सर्वधर्मान् परित्यज्य नाम त्वदीयं सदा जप्यमेतस्य धर्मस्य सर्वेऽपि धर्माः कलां षोडशीमप्यतिक्रान्तुमीशान यद्यप्यनीशा न शम्भो महादेव शूलिन् पिनाकिन् विभो नीलकण्ठ त्रयीगम्य शीतांशुमौले भवानीकलत्र त्रिलोकीपते देवचूडामणे !॥ १॥ पुरहर हर साम्ब गङ्गाधर त्र्यम्बक क्षेमकारिन् कपर्दिन् हरे दक्षयज्ञप्रणाशिन् पुरारे विरूपाक्ष दन्तावलारे शिवेत्यादिनाम्नां न चान्तोऽस्त्यथापि त्वदीयैकनाम स्मरन् वापि मुक्तिं व्रजत्येव तत्ते शिवेति स्मरन्तं कथं मां पदं नेतुमीशान सन्देग्धि भूयो भवानेतदाचक्ष्व कश्चित् समस्ते समस्तेऽपि भूमण्डले नास्ति तस्मान्नमस्ते करोमि प्रसीदानुकम्पालवाल प्रभो कालकालावनीपालसङ्घान?? ??लकील?? ज्जटाजाल नेत्रस्फुरज्ज्वाल गौरीपते बालचन्द्रस्फुरत्फाल मुण्डावलीमाल भूतावलीपाल कालानलप्रख्य हालाहलस्फीत- कोलाहलान्नाकपालादिकान् लोकपालानभित्यक्तमन्थानकान् दग्धढक्कानकान् शुष्कवक्त्राम्बुजान् त्यक्तपित्रग्रजान् दानवैस्ताडितान् निर्भरं पीडितान् गारलात्साध्वसात् प्रत्नरत्नान्यपि त्यक्तुमिच्छून् पुनः स्वीयदारानपि त्यक्तुमिच्छून् निजप्राणसंरक्षणैकप्रवीणान् कृतं कर्म पूर्वं निजं निन्दतस्तात मातर्मम भ्रातरत्र स्थितं मां विहायैव किं धावसे पश्य दीनं विषज्वालजालावृतं तात तातेति विक्रोशतोऽपि स्वकान् त्यक्तुकामान् भृशं धावमानान् विसृष्टावमानान् सुरान् भूसुरान् यक्षरक्षोगणानत्र हाहा कथं नो गतिः स्यादकूपाररूपादमुष्मात् कथं कालकूटाद्वयं याम पारं परं चिन्तयानानदः प्राह देवाधिदेवो हरिर्भो सुरा भूसुरा भूतनाथो भवो भक्तिभाजां भयं हन्त्यभीष्टं च भूयो ददाति स्वतः शङ्करस्याङ्घ्रिसत्पङ्कजातं नृणां शङ्करं मन्मुखैः कौङ्कुमैश्चन्दनैः पङ्किलैर्निर्मितं पङ्कवृन्दघ्नमुट्टङ्कनं मूलतः सङ्कटस्यातिवैशङ्कटस्यापि तत्कङ्कटीकाङ्घ्रियुग्मङ्कुरुध्वं हृदि क्ष्वेलकीलावलीजालनाशाय गोपालवाचामृतं तन्निशम्यैव ते सन्निधिं ते विभो चिन्तयन्तः सुरा अन्तरङ्गे विषैः सन्तपन्तो मखस्यान्तकारिन् तव द्वारमागत्य सद्वारपालावृतं वारयोषिद्गणैः कीरवाग्भिर्युतं मारहन्तुर्गणैर्वीरभद्रादिभिर्दूरदूरे समुत्सारयद्भिः सुरास्तारयास्मानकूपारमध्यान्न इत्यारवं कुर्वतस्तारतारेण ते गारदावाग्निसन्तारणं नः कथङ्कारमेतद्भवेदित्यभिज्ञाय निःसारसंसारपारप्रदं नाम विज्ञाय कञ्जातसञ्जातमुख्यामरा जञ्जपूका विभो साम्ब शम्भो मृड त्वं प्रसीदापदब्धेरमुष्मात् झटित्युद्धरेति स्थितास्तत्परिज्ञाय सर्वान्तरङ्गज्ञ दृष्ट्वातिकष्टां दशामप्यमीषां कृपालो तदैवाविरासीद्भवांस्तत्र काकोल सञ्ज्वालजालावलीलीढ साद्रिद्रुमद्वीपपाथोधिमुर्वी सफट्फड्रवं संस्फुटन्तीं भुवर्मुख्यलोकाधिपान् कीलमालापरिम्लानवक्त्रारविन्दानपि प्रेक्ष्य वीक्षाकटाक्षामृतेनैव संशाम्य तत् क्ष्वेलवृन्दं करे बिन्दुसङ्काशमावेश्य तद्भक्षयन् निर्जरान् पालयन् नीलकण्ठादिशब्दैरकुण्ठौजसा भूरिवैकुण्ठनाथादिवृन्दारकौघेन तोष्टूयमानो निजं धाम कैलाससंज्ञं तदा निर्गतस्तादृशस्यापि चापत्समूहस्य नाशो भवन्नाममात्रेण जातः शिवातस्त्वदीयेन नाम्नैव सम्यक् स्मृतेनापदम्भोधयो गोष्पदत्वं भजन्ते महादेव तत्तादृशं नाम शम्भो शिवेत्यादि तेऽनारतं वासकृद्वोच्चरामीति निर्धूतपापे मयि त्वं दयां धेहि भो ॥ २॥ इति यदि शिव शङ्कसे कञ्चिदन्यं प्रपद्यस्व मत्तोऽधिकं त्वद्गतेः सम्प्रदातेति तत्रापि चेदं समाधानमाकर्णय त्वं यथाबुद्धि वक्ष्यामि शम्भो मदीयेन वाक्येन कोपो न तेऽस्तु त्वमेवाधिनाथस्त्वमेवासि तातस्त्वमेवासि माता त्वमेवासि बन्धुस्त्वमेवासि मित्रं त्वमेवाखिलं यच्च भूतं च भव्यं तदित्यब्जमौले रुषा वच्मि किञ्चित्तदीश क्षमस्वेति विज्ञापयाम्यादितस्त्वत्त ईशान को वा त्रिलोक्यां महानस्ति तुल्योऽपि च व्यर्थमेतद्वचस्तथ्यभिन्नं कुतो भाषसे दन्धनेनामुना (?) नात्र कोऽपि भ्रमात्त्यक्तुमीष्टे पदाम्भोरुहे ते महादेव नैतादृशोऽहं सुरह्रादिनीमुख्यसेत्वन्तमानीयपायी यतोऽस्मि स्थितिर्वा मृतिर्वा भवत्वीश संसाधयाम्येव पादारविन्दद्वयं न त्यजाम्येव चेद्दाक्षिणात्यो भवेयं त्यजेयं पुनर्विद्धि मामौत्तराहं ततस्त्वं परामृश्य दुर्दन्धनेनैव (?) मा वञ्चयस्व प्रभो किं च चार्वाकृते पञ्चवक्त्राणि ते सञ्चितानि त्वया चञ्चदुद्यन्महश्चञ्चलाक्षीदृशामञ्चलैरीषदुत्कुञ्चितै राजितैश्चञ्चरीकालिवत् पञ्चवक्त्राम्बुजान्यञ्चितानीश चेत् न्यञ्चतां मादृशानां चिरं कूजतां दीनवाक्यानि किं कर्णमायान्ति ते स्वर्णरेतस्सदापर्णयालिङ्गिताभ्यर्णगांस्त्वद्गणान् वर्णयानान् स्फुरद्वर्णवाणीन् नरांस्तूर्णमायाहि चाकर्णयैषां वचः पूर्णमीशान ते पूर्णता हीयते किं मया याचितस्य प्रदानेन तद्बन्धनेनैव वाग्बन्धनं हंसि मद्बन्धनं नेक्षसेह्यन्ध एवासि किं गन्धदन्तिद्विषन् अन्धतामिस्रहन्न् सत्यमेतद्वचो नेति चक्षुर्द्वयं पूर्वमुक्तं मयैवेति यद्वा सहस्राक्षशब्देन संस्तूयसे किञ्च पञ्चोत्तरा पङ्क्तिरक्ष्णां तवेति त्रिनेत्रेति साहस्त्रशीर्षत्वतस्त्वीक्षणानां सहस्रत्रयं दृश्यते तन्मिथो वेदवाचां विरोधस्तवानेत्रतामन्तरा युज (अत्र मातृकायां ग्रन्थपातः ॥ ३॥ लोपः) ?? स्तत्र कप्रत्ययः शिष्यते लुब्धकत्वं तु ते सुप्रसिद्धं विभो तत्र साक्षी पुनस्सव्यसाची भवद्भक्तियुक्ताग्रगण्योऽस्ति हा दैव हा हा बलीयोऽसि यो मेऽधिनाथः पिता तात तातश्च तस्यैव बाधिर्यधर्मेतरित्वान्ध्यमूकत्वलुब्धत्वमुख्येन दोषव्रजेनावृतिः साम्ब दुःखादिदं वच्मि कोपो न ते कार्य इत्युक्तमेवास्ति भूयः श‍ृणुष्वेश मे भाषितं वस्तुतस्त्वं भवान्निस्तुलः सद्गुणैरस्ति को वा दरो यस्तुलां तावकीं गन्तुमीशो मरुत्वन्मुखो देवतानां गणो विष्णुरेकोऽस्ति वेदैकवेद्यो विभुः सोऽपि धातुः क्षुतान्निर्गतस्य क्षुपाख्यस्य भूमिक्षितः पक्षपातं दधानो दधीचर्षिणा साम्बभक्तेन युद्धं चकाराथ चक्रेण नारायणास्त्रेण तं ताडयामास सर्वेऽपि देवा हरेश्चित्ततोषाय रोषाविलास्तं निजैरस्त्रजातैर्मुहुस्ताडयामासुरेतत् परिज्ञाय विप्रो गृणन्नाम यौष्माकमादाय दर्भस्य मुष्टिं शिवेत्युच्चरन् क्रुद्ध एकैकदर्भेण सर्वास्त्रजातं निजघ्ने हरेरस्त्रजातं तु हुङ्कारमात्रेण संस्तम्भयामास पश्चान्मुकुन्दो निजाद्देहतः शम्भुवृन्दानि लालाटनेत्राणि चन्द्रार्धमौलीनि काकोलकण्ठानि देवासुराणां गणानप्यजो निर्ममे तन्निरीक्ष्येश भक्तस्तव स्वीयदेहाद्गदाशङ्खचक्राम्बुजाभासि हस्तानि सत्कौस्तुभोद्भासिवक्षस्स्थलानीन्दिरालिङ्गितानि स्वयं दर्शयामास गोविन्दवृन्दानि वेधोमुखान्निर्जराणां गणानप्यधो वीक्ष्य नारायणो निर्जितो लज्जितस्तं ननाम स्तुवन् सक्षुपोऽपि स्वकीयां प्रतिज्ञां (सकृ)व्द्यर्थभूतां समुद्वीक्ष्य सख्ये स्थितः किं च विष्णोर्विधेरप्यभूत् संविवादो महानुत्तमत्वे हरिर्वक्त्यहं श्रेष्ठ इत्यब्जयोनिस्त्वहं श्रेष्ठ इत्याह तद्वादशान्त्यै कृपाकन्द तत्राविरासीद्भवानुत्तमत्वं मयीत्यूचिवान् तन्निशम्यैव तौ क्रुद्धरूपावभूतां भवन्मायया मोहितौ वेदवृन्दं प्रतिप्रष्टुमिच्छू गतौ तत्र वेदैश्चतुर्भिः पृथक् शम्भुरेवोत्तमः किं वृथा कत्थनं वामिति प्रोक्तमेतन्निशम्यैव तौ जातबोधौ परिभ्रष्टमोहौ भवत्पादयुग्मेऽञ्जसा पेततुः किञ्च कृष्णः पुराणप्रणेता पुरा नैमिशे प्राह मौने सदस्यूर्ध्वबाहुर्हृषीकेश एवोत्तमो न त्रिनेत्रादयो निर्जरा इत्थमाकर्ण्य वैयासिकं वाक्यमाहुर्द्विजा गच्छ वाराणसीं व्यास ते विभ्रमस्तत्र विभ्रंशमेष्यत्यहो इत्यदो वाक्यमाकर्ण्य वाराणसीमागतस्तत्र पूर्वोक्तवाक्यं मुनिर्व्याहरत् तत्क्षणादेव सर्वे द्विजा यौगपद्येन तं भर्त्सयामासुरप्येष नन्दी भवत्पार्श्वगो निर्गतः स्तम्भयामास बाहुं तदीयं तथैवाविमुक्तात् बहिः कारयामास गौरीपतेर्नीचतावादिनामत्र वासो न युक्तो यतो मुक्तिदेयं पुरी मुक्तिबाह्यास्तु तेऽथो स सन्तप्तचित्तोऽस्तवीत् त्वां ततः सोऽनुजग्राह नन्दीश्वरस्तद्भवन्तं विनान्यं न पश्यामि कञ्चित्परं काशिकाधीश विश्वेश्वरालोकय त्वं कृपार्द्रेक्षणैः ॥ ४॥ ॥ इति श्रीभास्कररायकृतं शिवदण्डकं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Shivadandakam 02 09
% File name             : shivadaNDakam.itx
% itxtitle              : shivadaNDakam (bhAskararAyakRitam)
% engtitle              : shivadaNDakam
% Category              : shiva, daNDaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Bhaskar Rai
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-09
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org