श्रीशङ्करप्रोक्तं शिवधर्मानुवर्णनम्

श्रीशङ्करप्रोक्तं शिवधर्मानुवर्णनम्

लिङ्गार्चकाराधकसेवकान् वा दृष्ट्वा प्रयत्नेन नतो नयेन । कृताञ्जलिः स्यादत एव मित्रं यमो मदीयं गिरिराजकन्ये ॥ ४०॥ यन्मन्दिरे नार्मदलिङ्गपूजा तन्मन्दिरस्थान् न यमो गवादीन् । विलोक्य दूरात् प्रणतोऽतिनम्रः करोति तस्य स्तुतिमादरेण ॥ ४१॥ धन्यं गृहं तस्य तदेव तावत् पवित्रमत्र त्रिपुरान्तकस्य । लिङ्गं मनोज्ञं वसतीति मत्वा नमत्ययं मन्दिरमप्यपारम् ॥ ४२॥ लिङ्गालयं पश्यति यः प्रयत्नात्तमेव दृष्ट्वा स यमोऽतिभक्त्या । धन्योऽतिधन्यः सुतरां स धन्यो मान्यो यमेति प्रवदत्यवश्यम् ॥ ४३॥ तन्मन्दिरं शङ्करमन्दिरत्वात् वृन्दारवन्द्यं मुनिवृन्दवन्द्यम् । तत्सर्ववन्द्यं भवतीति मत्वा पुनः पुनः स प्रणमत्यवश्यम् ॥ ४४॥ यदङ्गे रुद्राक्षाः स तु भवति भालाक्ष इति धीः विभूतेर्वा लेशो यदि भवति तत्भालफलके । सकृद्वा मन्नामप्रजपनपरा यस्य रसना तमालोक्यालोक्य प्रणमति पुनर्नृत्यति यमः ॥ ४५॥ पिबन्ति ये वा शिवनामरूपां सुधां मुहुस्तान् प्रणमत्यवश्यम् । एते महेशप्रियविग्रहत्वात् पूज्या इति स्तौति यमः स गौरि ॥ ४६॥ यस्यैव मय्यव्यभिचारिणी स्यात् भक्तिस्तमाशु प्रणतोऽतिभक्त्या । स्तौति प्रनृत्यत्यपि गौरि नित्यं स एव मित्रं मम नात्र चित्रम् ॥ ४७॥ लिङ्गानि ये वा रजनीमुखेषु दृष्ट्वा प्रयत्नेन नमन्ति धीराः । तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ ४८॥ त्रिपुण्ड्ररुद्राक्षधरान् विलोक्य दूरादपि प्राञ्जलिरेव भक्त्या । तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ ४९॥ ये प्रातरुत्थाय शिवं स्मरन्ति मामव्ययं पातकनाशहेतुम् । तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ ५०॥ काशीपुरीदर्शनपूतचित्तान् शिवार्चनोत्पन्नसुखप्रवाहान् । तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ ५१॥ मल्लिङ्गपूजाजनितोत्सवा ये मल्लिङ्गसन्दर्शनपावनाश्च । तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ ५२॥ - - हे विश्वेश्वर चन्द्रशेखर महादेव स्मरारे हर श्रीकण्ठ त्रिपुरान्तक त्रिनयन श्रीकालकालाव माम् । दीनं मामिति ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ५८॥ गौरीवल्लभ मन्मथान्तकरिपो भालाक्ष विश्वाधिक श्रीकण्ठ प्रमथाधिपाव भगवन् इत्यादरात् सन्ततम् । दीनं मामिति ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ५९॥ ये भर्ग त्रिदशार्चिताङ्घ्रिकमल श्रीपुञ्जविश्रामभूः भूधारीश्वरकन्यकाकुचगिरिश्रीपूरसारादर । दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ६०॥ शम्भो नार्मदतुङ्गलिङ्गनिलयामेय प्रभो धूर्जटे संसारार्तिभिषक्तमोत्तम महादेवामराधीश्वर । दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ६१॥ रुद्राक्षप्रिय भूतिभूषण लसद्बिल्वीदलाभ्यर्चित श्रीशूलिन् मृगशावचिह्नितकराम्भोजाम्बुजाराधित । दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ६२॥ श्री मृत्युञ्जय कालकण्ठ करुणासिन्धो कपर्दिन् विभो भक्ताभीप्सितदानलोल ललितादेवीसमाराधित । दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ६३॥ श्रीमन्मेरुशरासनातिरुचिरव्यापारसारादर स्वामिन् चारुसुधाकरार्धघटित भाकोटिपीताम्बर । दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ६४॥ विश्वाधीश्वर हे महेश्वर महारुद्रान्तकारे हर ज्ञानानन्दधनानपाय विलसत्सौभाग्यभाग्योदय । दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ६५॥ भो शम्भो भव भीमशङ्कर हर व्योमान्तकेशानघ ब्रह्माण्डोदयपालनव्यतिकरव्यापार विश्वेश्वर । दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ६६॥ मन्नामोत्सुकमानसो मुहुरयं कालः प्रपश्यत्ययं मत्पूजानिरतांश्च पश्यति मुहुर्भस्मत्रिपुण्ड्राङ्कितान् । रुद्राक्षाभरणांश्च तच्चरणजान् रेणून् शिरस्यादरात् धृत्वा नृत्यति शर्व शङ्कर महादेवेति शैलात्मजे ॥ ६७॥ मन्नाम स्मृतमेव जीवनमिति ज्ञात्वा स्मरत्यादरात् मामीशं शिवमप्रमेयविभवं ये ते परं शैलजे । कैलासं समुपेत्य मत्पदरजः पुञ्जैः सह क्रीडनं कुर्वन्त्युत्तमभूतिभूषितमहारुद्राक्षवक्षःस्थलाः ॥ ६८॥ - - उद्धृत्याद्य भुजद्वयं निगदितं लिङ्गार्चनं केवलं मोक्षोपायतया श्रुतं श्रुतिशतैस्तेनैव मुक्तिः परा । तत्र स्यादधिकारितापि भसिनोद्धूलनं सर्वथा तेनैवानुलवं त्रिपुण्ड्ररचना भालादिके बालिके ॥ ८७॥ यन्नामस्मरणेन केवलमुमे प्राणप्रयाणेप्सितं भस्माङ्गे करकण्टकर्णयुगले रुद्राक्षमाला यदि । मुक्तिः स्यादनपायिनी मम सखा स स्यान्मदीयं धनं सर्वं तस्य वशे स केवलमहं सत्यं त्रिसत्यं शिवे ॥ ८८॥ ॥ इति शिवरहस्यान्तर्गते श्रीशङ्करप्रोक्तं शिवधर्मानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः १२। वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 12. vAvRRittashlokAH .. Proofread by Ruma Dewan
% Text title            : Shri Shankaraproktam Shivadharmanuvarnanam
% File name             : shivadharmAnuvarNanam.itx
% itxtitle              : shivadharmAnuvarNanam (shivarahasyAntargatam)
% engtitle              : shivadharmAnuvarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 12 | vAvRittashlokAH ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org