शिवज्ञानबोधसूत्राणि

शिवज्ञानबोधसूत्राणि

॥ शिवमयम् ॥ श्रीमहागणपाय नमः । शिवाभ्यां नमः । श्रीगुरुः प्रतिभानन्दः एवमलिखत् । शिवात्मज्योतिः (चिदात्मज्योतिः) प्रकाशते ब्रह्मैवाहं शिवः शम्भुशङ्करः । केवलं शिवः । गोविन्दहृदयान्तस्थः नटराजोह्यहं शिवः । ॐ तत्सत् ब्रह्मार्पणम् । श्रीमद्धर्मसंवर्धनीसमेत श्रीमत् पञ्चापकेशः शरणम् । श्रीमन्नन्दिकेशादि शिवयोगिनः संयोज्याः (सङ्गृह्यन्तु) । श्रीगुहमूर्तिः प्रियताम् । शिवायनमः । श्रीमज्जैगीषव्यादि सनकादिशिवयोगिनो जयन्तु ॥ गोविन्दहृदयारूढं शङ्करं शिवमव्ययम् । श्रीमन्नन्दीश विज्ञानदेशिकं गुरूमाश्रये ॥ ॐ नमःशिवाय । शिवायै नमः । शिवमस्तु ॥ अथ शिवज्ञानबोधसूत्राणि । स्त्रीपुंनपुंसकादित्वाज्जगतः कार्यदर्शनात् । अस्ति कतौ स हृत्वैतत् सृजत्यस्मात्प्रभुर्हरः ॥ १॥ (हरं विज्ञातारं सकलतनु कार्येषु करणं न जानन्ते मोहादमित करणा अप्यतितरम् । उमानाथाकारं हृदय दहरान्तर्गतसरः -पयोजन्तर्भास्वद्भवतु जगदाशाण्डजपरम् ॥) अन्यः सन् व्याप्तितोनन्यः कर्ता कर्मानुसारतः । करोति संसृतिं पुंसां आज्ञया समवेतया ॥ २॥ नेतितो ममतोद्रेकात् अक्षोपरति बोधतः । स्वापे निर्भोगतोबोधेबोद्धृत्वादस्त्यणुस्तनौ ॥ ३॥ (बोद्धत्वादस्तयणुस्तनौ) आत्मान्तःकरणादन्योप्यन्वितो मन्त्रिभूपवत् । अवस्थापञ्चकस्थस्स्यात् मलरुद्धस्वदृक्क्रियः ॥ ४॥ (अवस्थापञ्जकस्थस्स्यात्) विदन्त्यक्षणि पुंसार्थान् न स्वयं सोऽपि शम्भुना । तद्विकारी शिवश्चेन्न कान्तोऽयोवत्स तं नयेत् ॥ ५॥ अदृष्यञ्चेदसद्भावो दृश्यंचेज्जडिमा भवेत् । शम्भोस्तद्व्यतिरेकेण ज्ञेयं रूपं विदुर्बुधाः ॥ ६॥ नाचित् चित्सन्निधौ किन्तु न वित्तस्ते उभेमिथः । प्रपञ्च शिवयोर्वेत्ता यस्स आत्मा तयोः पृथक् ॥ ७॥ स्थित्वा सहेन्द्रियव्याधैः त्वां न वेत्सीति बोधितः । मुक्त्वैतान् गुरुणानन्यो धन्यः प्राप्नोति तत्पदम् ॥ ८॥ (मुक्त्वौतान्) चिदृशात्मनि दृष्ट्वेशं त्यक्त्वा वृत्तिं मरीचिकाम् । लब्ध्वा शिवपदच्छायां ध्यायेत्पञ्चाक्षरीं सुधीः ॥ ९॥ शिवेनैक्यं गतः सिद्धः तदधीन स्ववृत्तिकः । मलमायाद्यसंस्पृष्टो भवति स्वानुभूतिमान् ॥ १०॥ दृशोर्दर्शयिताचात्मा तस्य दर्शयिता शिवः । तस्मात्तस्मिन् परां भक्तिं कुर्यादात्मोपकारके ॥ ११॥ मुक्त्यै प्राप्य सतस्तेषां भजेद्वेषं शिवालयम् । एवं विद्यात् शिवज्ञानबोधे शैवार्थनिर्णयः ॥ १२॥ शिष्यश्श्रोत्रं च योनिश्चेद्गुरुर्जिह्वा च लिङ्गकम् । मन्त्रो बिन्दुः समाख्यातो बोधः पुत्रः शिवः स्वयम् ॥ १३॥ शिवोऽहम् । ॥ इति शिवज्ञानबोधसूत्राणि ॥ Encoded and proofread by Ruma Dewan
% Text title            : Shivajnanabodhasutrani
% File name             : shivajnAnabodhasUtrANi.itx
% itxtitle              : shivajnAnabodhasUtrANi
% engtitle              : shivajnAnabodhasUtrANi
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Indexextra            : (Scan)
% Latest update         : November 11, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org