देवान्प्रति देविप्रोक्तं शिवज्ञानोपदेशम् २

देवान्प्रति देविप्रोक्तं शिवज्ञानोपदेशम् २

देव्युवाच - स्तुत्या च भवतां देवाःप्रसादसुमुखात्वहम् । ददामिवाञ्छितं सर्वं शिवज्ञानमिदं सुराः ॥ ३५॥ मज्ज्ञानेन परां शान्तिमधिगच्छत सुव्रताः । अहं मानं परित्यज्य शिवसार्वात्म्यवेदिनः ॥ ३६॥ विमुक्ताः पशवो यूयं मन्मायाशक्तिवैभवात् । अहमेवाखिलाराध्या ह्यहं ध्येयाखिलैरपि ॥ ३७॥ संविच्च सदसच्चापि चाहं विश्वमिदं ध्रुवम् । मन्मायया मोहितास्स्थ ह्यहमेतद्भवाभवम् ॥ ३८॥ अहमेव स्वयमिदं ददामि ज्ञानमैश्वरम् ॥ ३९॥ अहं विश्वं भुवनं चेतयामि ह्यहं विश्वेभिर्वसुभिश्चराम्पहमादित्यैरुत विश्वदेवैः । अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्व ॥ ४०॥ अहं दधामि द्रविणं हविष्मते सुवीर्याय यजमानाय सुन्वते । परो दिवाहं परयेनापृथिव्यां परम्परा हि प्रथमा पृथिव्याम् ॥ ४१॥ एषोऽन्तर्याम्यमृतः पुराणस्सदाजनानां हृदये सन्निविष्टः । एनमात्मानं गूढमनुप्रविष्टं हृदा पश्यन्ति मनसा मनीषिणः ॥ ४२॥ एषभूतपतिरेषसेतुर्विधरणो लोकानामसम्भेदाय । एष सुप्तेषु जागर्ति भूतम्भूतं पुरुषो निर्मिमाणः ॥ ४३॥ एषोऽन्तरादित्ये ह्यमृतो हिरण्मयः पुरुषो दृश्यते शिवः । एष धाता विधाता च स्वराट् सम्म्राट् प्रजापतिः ॥ ४४॥ एष दिव्यो देव एकः पुराणो सङ्गिष्वसङ्गो गुणनामकर्मभिः ॥ ४५॥ एष एव हि भूतात्मा भूते भूते व्यवस्थितेः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ ४६॥ जलस्य चलनादेव यथाचलति भास्करः । तथैष सर्वभूतेषु तद्धर्मैर्नैव लिप्यते ॥ ४७॥ अलिङ्ग आकाशसधर्म एषो नान्तो न चादिर्न च मध्यमेषः । जगद्गतोऽयं न जगद्विचित्रमेषोऽखिलाधार उरुक्रमस्सदा ॥ ४८॥ विशेषहीनश्च कविः पुराण एष स्वतन्त्रः पुरुषः पुराणः । गूढेषु गूढः परपारपारस्सदुर्दर्शोयोगयुक्तैश्च भूयान् ॥ ४९॥ सहैव संस्थो भवतां वै निलिम्पाः । नजानन्ति सर्वे हृदा भासमानं सदाभास्यभासं महोक्षाद्विहीनम् ॥ ५०॥ अस्यैव हि प्रकृतिश्चास्मि देवा न मां जानते ये सदा दुःखभाजः । प्रभास्मीह देवी शशी सूर्यऋक्षे ऋषौ ग्रहाणां परमास्थितश्च ॥ ५१॥ न चावयोर्भेदजालं कदाचिन्माया चाहं ह्येषमायी महेशः । भावग्राह्यो ह्यनीडात्मा भावाभावकरश्शिवः ॥ ५२॥ कलाविदं पुरुषं देवमीडयं निचाय्यैनं शान्तिमत्यन्तमेति । एष आत्मा तपसालोकनीयो नान्यैर्धर्मैरस्य लिङ्गं न चैव ॥ ५३॥ यस्यैष आत्मा वृणुते तनूं स्वां तस्य प्रसादेन हितस्य लाभः । यस्यैव लाभान्न परं लाभमीष्टे जनस्सुरा ज्ञानमेतस्य दुर्ज्ञम् ॥ ५४॥ पुराविदः कवयो ये मनीषिणो ज्ञात्वाप्येनं निष्प्रकम्पा महेशम् । तरन्ति शोकं च पृथक्पृथग्जना न जायते (जानते) नित्ययुक्ता गुणेषु ॥ ५५॥ तथेन्द्रियाधारमनन्तरूपं नीरूपरूपं परमाकाशमेनम् । विष्वक्प्रपञ्चेषु पुरीशयं स्थितं वेदान्तसङ्घैर्पि ष्टुड्यमाणः ॥ ५६॥ रसं रसानां परमास्वादनीयमनास्वादं रसवर्जं सुगुप्तम् । तुरीयमिन्द्रं सततोदितं गुणैर्गुणातीतं विप्लुषन्दिव्यधाम ॥ ५७॥ एषोऽनन्तो महिमाधार ईशो भूमा सीमा सार एकोऽद्वितीयः । नानैवास्ति महिमायं प्रतिष्ठा कविः प्रधानो रसवर्जोऽयमात्मा ॥ ५८॥ एष ब्रह्मैष एवेन्द्र एष सर्वं चराचरम् । एष आत्मापहतपाप्माविरजो विशोको विमृत्युरजिघृत्सोऽपिपासः ॥ ५९॥ सत्यकामोऽगुणो ह्येष बृहद्धामायमीश्वरः । एषोऽशरीरो विश्वकर्ता गुणेश एष देवश्शीर्यमाणैर्नशीर्णः ॥ ६०॥ अरजोऽयममृतो वै विशोकश्शोकातिगो जातिधर्मैर्विहीनः । एष देवैर्वेदसङ्घैश्च विप्रैरभिष्टुतोऽप्रतर्क्यो हीन्द्रियैश्च ॥ ६१॥ एषोऽनन्तश्चेष्टते देहजालैर्यथोर्णनाभिस्सृजते तन्तुजालम् । एष आदित्ये तपति तेजसेद्धः एष विप्रैर्मखजालैश्च तुष्टः ॥ ६२॥ यः पाति सोमममृतस्य नाभिं कालातिगः पाति विश्वं सदैव । (अपाति सोमममृतस्य नाभिं कालातिगः पाति विश्वं सदैव) । अस्मद्भिन्नं नाणुरस्तीह किञ्चित्स एष भर्ता मम देवः पुराणः ॥ ६३॥ नीरूपरूपोऽप्ययमात्मा महेशो नीलग्रीवश्शिपिविष्टश्शाश्वतोऽयम् । न हन्यते हन्यमाने शरीरे दिव्यो देवोह्येष देवः पुराणः ॥ ६४॥ तं ब्रह्मवन्वान उपासते परं बुद्धीन्द्रियातीतमनौपमं शिवम् । नान्तः प्रज्ञं न वहिः प्रज्ञमीशं नोभयतः प्रज्ञमर्हत्तमं च ॥ ६५॥ विश्वस्य स्रष्टारमनेकरूपं विश्वस्यैकं परिवेष्टितारम् । गुहाहितं गह्वरेष्टं पुराणं त्ववस्थातीतं प्रणवं चादिमेकम् ॥ ६६॥ महं महान्तं परमात्मानमीशमणोरणीयांसमिदं ततं च । विभ्राजमानं भूतवर्गेष्वसङ्गं वेलातिगं स्वप्रभाभासमानम् ॥ ६७॥ बालाग्रमात्रं हृदये प्रतिष्ठं जीवाभासं मन्यमानैश्च मूढैः । न त्वेष जीवो न शिवश्चादिकर्ता यस्मात्परं नापरमस्ति किञ्चित् ॥ ६८॥ बृहत् ब्रह्म शुक्लं ऋतं सत्यमीशं प्रमोदं महज्ज्ञानमानन्दमेकम् । य एनं विदुरमृतास्ते भवन्ति ह्यथेतरे दुःखमेवाविशन्ति ॥ ६९॥ स एष परमानन्दोप्यानन्दो ब्रह्म तत्परम् । अस्यैवानन्दमात्रा हि भवन्तश्च सुरासुराः अयमेव परा काष्टा स ब्रह्म स शिवस्स्वयम् । वेदपर्वतजालोत्थमन्त्रैः कॢप्तोऽयमेव हि ॥ ६२॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवान्प्रति देविप्रोक्तं शिवज्ञानोपदेशम् २॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५५ - देव्युपनिषत्प्रतिपादनम् । ३५-६९॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 55 - devyupaniShatpratipAdanam . 35-69.. Notes: Devī देवी obliges the Deva-s देवाः with Śivajñānam शिवज्ञानम् upon being beseeched by them. Encoded and proofread by Ruma Dewan
% Text title            : Devanprati Deviproktam Shivajnanopadesham 2
% File name             : shivajnAnopadesham2devAnpratideviproktaM.itx
% itxtitle              : shivajnAnopadesham 2 devAnpratideviproktaM (shivarahasyAntargatA)
% engtitle              : shivajnAnopadesham 2 devAnpratideviproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 55 - devyupaniShatpratipAdanam | 35-69||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org