गङ्गाकृता शिवकृपार्थप्रार्थना
नमो नमस्ते गिरिजासहाय नमो नमस्ते पुनरिन्दुमौले ।
नमो नमस्तेऽस्तु पुनर्नमस्ते नमो नमस्ते करुणासमुद्र ॥ ६४॥
श्रीमन्महारुद्र नमो नमस्ते श्रीवीररुद्राय नमो नमस्ते ।
नमो नमस्ते गिरिश त्रिनेत्र नमो नमस्तेऽस्तु विभूतिगात्र ॥ ६५॥
श्रीनीलकण्ठाय नमो नमस्ते भालप्रदेशानललोचनाय ।
नमो नमस्तेऽस्तु कपर्दिने नमो नमो नमस्तेऽस्तु सदाशिवप्रभो ॥ ६६॥
मार्ताण्डमण्डलनिवास नमो नमस्ते मार्ताण्डकुण्डलविराजितभूषणाय ।
मार्ताण्डचण्डकरसङ्कुलमण्टपाय तस्मै मृडाय भगवन् भव ते नमोऽस्तु ॥ ६७॥
यद्वीक्षणप्रसरमात्रविधूतपापाः सम्प्राप्नुवन्ति परमं पदमिन्दुमौलेः ।
तैरेव मां मुहुरपि प्रणतां प्रपश्य पश्याद्य वह्निनिकराश्रिततप्तदेहाम् ॥ ६८॥
माता त्वमेव भगवन् जनकस्त्वमेव मित्रं त्वमेव मम चन्द्रकलावतंस ।
भ्राता त्वमेव भगवन् गिरिजासहाय त्राता त्वमेव भगवन् हर नीलकण्ठ ॥ ६९॥
त्वं कालकूटविषधारणधीरचित्तः त्वं मारसंहरणकारणभूत एव ।
ब्रह्माण्डमण्डलसुखण्डनहेतुभूतः त्वामेव तावदधुना शरणं प्रपन्नाः ॥ ७०॥
त्वन्नामकीर्तनसुधारसपानपीनो दीनोऽपि दैन्यमपहाय दिवं प्रयाति ।
पश्चादुपैति परमं पदमीश तेन तद्भाग्ययोग्यकरुणां कुरु मामपीश ॥ ७१॥
॥ इति शिवरहस्यान्तर्गते गङ्गाकृता शिवकृपार्थप्रार्थना सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः १०। ६४-७१ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 10. 64-71 ..
Proofread by Ruma Dewan