सूतप्रोक्तं शिवकैलासमौलिविहारवर्णनम्
सूतः -
कैलासेऽत्र महादेवस्सन्निधत्ते सदैव हि ।
देव्या मणिमये सौधे विहरत्येष शङ्करः ॥ २०॥
तद्विहारं शृणुष्वाद्य सर्वपापविनाशनम् ।
नानाचित्रविचित्राश्च क्रीडास्ताः परमेशितुः ॥ २१॥
देव्या सह सुरश्रेष्ठाः केन वा वर्ण्यते हि ताः ॥ २२॥
- -
रुद्राण्यो नवयौवनोच्चलकुचास्तास्सोमधाम्ना निभा
रत्नोत्थामलकान्तिभूषिततनूवल्यः प्रभाभासुराः ।
सम्बद्धस्तनचेलकेशवलयास्सेवाधिकारादरा
राजन्ते कलधौतसानुशिखहे लीलाझणन्नपुराः ॥ २३॥
उद्यत्काव्यनिभाच्छचम्पक महानासालसन्मौक्तिका-
स्ताराकारसुहीरहारवलयैस्तास्तत्र विद्युल्लताः ।
रुद्राश्चापि महेश्वरं त्रिजगतामाधारभूतं हरं
तत्तत्कालसुसेवनैरनुपमैश्श्रान्तिं विहायादरात् ॥ २४॥
स्नानोद्यन्मणिसुन्दरैच कलशैस्स्रग्गन्धधूपार्पणै-
र्दीपैः केशसुधूपनैः परिकरैः पर्यङ्कविश्राणनैः ।
छत्रैश्चामरवीजनैः प्रपदकैरादर्शताम्बूलकै-
र्वीणाभिः पटवासखङ्गसुकरैस्सेवन्ति शर्वं शिवाम् ॥ २५॥
रुद्राण्यो नवकोटयश्च तरुणा रुद्राश्च कोट्यो दश
भैरव्योऽथ दिगम्बराश्च सततं कोटीभिरन्वासते ।
योगिन्योऽथ त्रिकोटयश्च परितस्ते डाकिनीकोटयो
रोहिण्या सहितेन्दुधामवदनास्सेवन्ति शम्भुं शिवाम् ॥ २६॥
कैलासे नवशक्तिरत्नविलसत्पीठे महातत्ववा-
ग्जातेनैकककोटिविस्तरयुते श्रीचक्रमध्यङ्गते ।
बिन्दौ चन्द्रदिनेशकोटियुगले मञ्चे चतुष्पीठके
पञ्चब्रह्ममये वयं गिरिजया सार्धं हृदादध्महे ॥ २७॥
शशिप्रसृमरैः करैस्सितसितायमानो गिरिः
प्रभाततसुधाम्बुधेश्चलतरङ्गहस्तोत्थया ।
समुच्चलितनौकया सकलरत्नसङ्कॢप्तया
सुधांशुशकलालको विहरति स्फुटं सोऽम्बया ॥ २८॥
स्वच्छाद्रिपारदमहाकलधौतशैलसानुप्रभासमधिकोन्नतपाण्डराङ्गम् ।
चञ्चद्विषाणमुकुटीतटलम्बमानसच्चामरौघपरिवीजितकर्णतालम् ॥ २९॥
कान्त्या स्वया परिमुषन्तमिवोद्यतांशुमुक्षाणमद्रितनयापतिरक्षिफालः ।
आरुह्य याति नगराजसुतासहायः ॥ ३०॥
उक्षाधस्तलपक्षति प्रचलितो देवस्य पादाम्बुजे
स्वस्कन्धे मणिपादुकोत्तमलसत्सानन्दनामा गणः ।
पाहीशेति वदञ्छिव महादेव प्रभो मां सदा
तारानाथकलाधर श्रुतिशिरःकोटीरपालीगत ॥ ३१॥
कैलासमौलिधवलोत्तमशृङ्गसंस्थलिङ्गावलं समभिवीक्ष्य महोरुहर्षः ।
पश्येति तामगसुतां प्रवदत्यभीक्ष्णं त्र्यक्षोऽक्षताक्षमनसा परिचिन्तनीयः ॥ ३२॥
सौवर्णरत्नखचितैर्मणिजालकॢप्तैश्चक्रे महोन्नततले शशिधामकुम्भम् ।
देव्या रथं रथपतिः प्रथितो हि देवैरारुह्य याति नगमौलिमहो द्विजेन्द्राः ॥ ३३॥
नानारत्वयुतप्रभाततिततं मुक्ताच्छगुच्छान्वितं
पालीपालिमरालराजनिकरैर्मुक्तावितानैर्युतम् ।
भ्राजद्दिव्यपताकचामरयुतं छत्रैरपारैर्युत-
ञ्चारुह्याखिलशैलराजमुतया दिव्यं विमानं हरः ॥ ३४॥
कैलासे नवमौलिपालिषु सदा पश्यन्प्रयातीश्वरो
देवादीनखिलान्विलोकयति वै तल्लोकलोकानपि ।
ब्रह्माण्डान्तिकतस्स्फुरत्सुरतटिन्याटोपमौलिशिवो
विश्वं चित्रमपारचित्रकयुतं युक्तोऽम्बया केवलम् ॥ ३५॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये सूतप्रोक्तं शिवकैलासमौलिविहारवर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः २२ - शिवगौरीसंवादे कैलासलिङ्गवर्णनम् । २३-३५॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 22 - shivagaurIsaMvAde kailAsalingavarNanam . 23-35..
Notes:
Sūta सूत narrates about the pastimes of Śiva शिव and Devī देवी residing and being worshipped at the Peak of Mount Kailāsa कैलास मौलि.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan