व्यासकृतं शिवमानसपूजा

व्यासकृतं शिवमानसपूजा

काश्यां शाम्भवचित्तेऽपि तदन्यत्र न सर्वथा । त्रिष्वप्यत्युत्तमं मन्ये केवरूं शाम्भवं मनः ॥ १॥ तत्रानन्दो यथा तद्वानन्दो यत्र कुत्र वा । कल्पते बहुधा पूजा शाम्भवेन प्रतिक्षणम् ॥ २॥ प्रतिक्षणं विशिष्टेष्टक्षणदा सा मनोरमा । स तन्मनो विभुतया ज्ञातं तत्र शिवालयः ॥ ३॥ परार्धयोजनायामः कल्पितो रत्नमण्डितः । रत्नप्राकारसंवीतो रत्नमन्दिरमण्डितः ॥ ४॥ रत्नद्वारार्बुदाकीर्णमेकैकं तत्र मन्दिरम् । तत्रापि कल्पतरवः प्रसूनसमलङ्कृताः ॥ ५॥ अर्पिताः कोटिशस्तेन कल्पिताः शिवमन्दिरे । तत्कल्पतरुमध्यस्थरत्नसिंहासनं वरम् ॥ ६॥ कोटियोजनविस्तीर्णं कल्पितं तावदायतम् । तदग्रे कल्पिता तेन पुष्पशय्या मनोहरा ॥ ७॥ तत्र स्थितमुमाकान्तं मां चिन्तयति सादरम् । नव्यचित्रदुकूलानां पुञ्जैरावेष्टितं मुहुः ॥ ८॥ नानापरिमलद्रव्यरसरागानुरञ्जितम् । दिव्याभरणपङ्कीर्णं भित्तिकाञ्चिविराजितम् ॥ ९॥ रत्नकर्पूरनिकरकान्तिराजिविराजितम् । रत्नाङ्गदार्बुदाकीर्णं तत्कान्तिनिकराश्रितम् ॥ १०॥ रत्नोत्तमपरिक्रान्तकटिसूत्रविराजितम् । दिव्यरत्नाङ्गुलीयानां सहस्रेण समन्वितम् ॥ ११॥ अपारतारहाराणां विहारैश्च विराजितम् । मणिश्रेष्ठसमाकीर्णं कर्णाभरणभूषितम् ॥ १२॥ रत्नरत्नसमाकीर्ण कोटीरगणराजितम् । नूपुरैरप्यपारैश्च सदारपरिवेष्टितम् ॥ १३॥ धूपैर्विचित्रैरगरुप्रभवैरपि धूपितम् । रत्ननीराजनव्राजविराजितमुमापतिम् ॥ १४॥ दिव्यपक्वान्नगिरिभिः शर्करापर्वतान्वितैः । दिव्याज्यवाहिनीयुक्तैः सन्तोषयति मां मुहुः ॥ १५॥ सूपशाकगिरिव्रातसमेतोदनपर्वतैः । मध्वाज्यवाहिनीयुक्तैः तोषयत्यनुवासरम् ॥ १६॥ सुधाफलैरपारैश्च विविधैर्मधुरोत्तमैः । सन्तोषं जनयन्त्येव सुधाधाराभिरादरात् ॥ १७॥ ताम्बूलपर्वतानेव पूगपर्वतसङ्कुलान् । मुक्ताचूर्णान्वितान् दिव्यान् प्रयच्छति यथेच्छया ॥ १८॥ एलालवङ्गगिरयः खदिरा गिरयोऽपि मे । एवं प्रतिक्षणं तेन मानसं मम पूजनम् ॥ १९॥ करोति प्रत्यहं भक्त्या नृत्यत्यग्रे यथेच्छया । पञ्चामृतप्रवाहैर्मामभिषिच्य मनोहरैः ॥ २०॥ एवं पूजाविधानेन कल्पिते शाम्भवेन मे । तच्चित्ते यादृशं सौख्यं तन्न क्वापि मनोहरम् ॥ २१॥ मन्दिरं शाङ्कराकारं दृश्यते नन्दिकेश्वर । समृद्धं सदनं त्यक्त्वा धनधान्यादिभिर्नरः ॥ २२॥ अन्यत्र याति किं लोके तथा तत् त्यज्यते कथम् । गौर्या सह विहारार्थं पुष्पप्रामादकल्पना ॥ २३॥ क्रियते तेन सततं त्तत्यागे मतिरेव न । शरीरे यादृशी प्रीतिः मदीये मम सर्वथा ॥ २४॥ ततोऽप्यत्राधिका प्रीतिः शाम्भवे विग्रहे सदा । तेन छत्राण्यपाराणि मण्डितानि मनोहरैः ॥ २५॥ कल्प्यन्ते मणिभिर्दिव्यैः मुक्ताजालोचितान्यपि । सुधाकरकराकारैः अपारैरपि चामरैः ॥ २६॥ चारुचामीकराकारदण्डमण्डलमण्डितैः । निरतः शाङ्करो नित्यं मम सेवां करोत्यतः ॥ २७॥ रम्यं शाङ्करमेवात्र शरीरं मम मन्दिरम् । किं कैलासेन काश्या वा किं गौर्या मन्दरेण वा ॥ २८॥ शरीरं शाङ्करं मन्ये रत्नमण्डितमन्दरम् । प्रतिक्षणं तेन पूजा तथा विविधसाधनैः ॥ २९॥ क्रियते तादृशी कुत्र पूजोपकरणानि ते । मरन्दरससङ्कीर्णकुसुमासारकल्पना ॥ ३०॥ क्रियते तेन साऽन्येन कल्पनीया कथं मम । तादृशः शङ्करो वीरः कलौ कश्चिद्भविष्यति ॥ ३१॥ द्वित्राः सन्त्यधुना नन्दिन् ते ते पूज्या न संशयः । एतावत्कालपर्यन्तं त्वया पूजा कृता मम ॥ ३२॥ परन्तु न तथा पूजा कृता ज्ञाताऽपि मे ध्रुवम् । अधुना गम्यते नन्दिन् रेवातीरं मनोहरम् ॥ ३३॥ तत्रास्ति शाम्भवः कश्चितेन ध्यानं कृतं मम । आसायं तत्र विश्रम्य गौर्या सह विशेषतः ॥ ३४॥ प्रतिक्षणमपाराभिः पूजाभिः परिवेष्टितः । वसामि परमानन्दसागरः करुणाकरः ॥ ३५॥ सायङ्कालेऽपि पूजां मे स करिष्यति सादरम् । महानिशि महापूजां स करिष्यति सादरम् ॥ ३६॥ ततः परं पुष्पशय्यां कल्पयिष्यति मे पराम् । रत्नप्रासादमध्यस्थमन्दिरे रत्नसुन्दरे ॥ ३७॥ विहारसाधनं सर्वं कल्पयिष्यति भक्तितः । रत्नदीपाः सुधाधाराः फलसारा मनोहराः ॥ ३८॥ पुष्पसाराः कल्पनीयाः मन्दवाता मनोहराः । ततः परं स विरतो विहारनिरते मयि ॥ ३९॥ निद्रामुद्रान्वितः सोऽपि भविष्यति कथञ्चन । इदानीं तु त्वया नन्दिन् कैलासं प्रति सत्वरम् ॥ ४०॥ गतसंरक्षणं कार्य कैलासद्वारमन्दिरे । (गन्तव्यं रक्षणं) पुनरप्यमृता मृतामृता मृतनामामृतपानलोलुपा ॥ ४१॥ रसना शिवकीर्तनोत्सुका शिवगङ्गेव पुनाति मानसम् । शिवसज्जनसाधुवादगोष्टी भुवनान्तान्यपि तारयन्ति सत्यम् ॥ ४२॥ ॥ इति शिवरहस्यान्तर्गते व्यासकृतं शिवमानसपूजा सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २४। ९०-१३१ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 24. 90-131 .. Proofread by Ruma Dewan
% Text title            : Vyasakritam Shiva Manasa Puja
% File name             : shivamAnasapUjAvyAsakRRitA.itx
% itxtitle              : shivamAnasapUjA vyAsakRitA (shivarahasyAntargatA)
% engtitle              : shivamAnasapUjA vyAsakRitA
% Category              : shiva, pUjA, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 24| 90-131 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org