शिवमीडेस्तवः

शिवमीडेस्तवः

वैलक्षण्यं धामसु यस्य त्रिषु सिद्धं भोग्याद्भोक्तुर्भोगत एवं त्रिविधाच्च । यस्माच्छ्रत्या नास्ति च कश्चिद् व्यतिरिक्त- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १॥ एको ध्येयस्त्वात्मतयेति हि वेदान्ते योऽन्यत्सर्वं श्रूयत एवं सन्त्यज्य । सर्वव्यापी भाति च भगवान् यो देव- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २॥ आकाशोयं स्याद्यदि दहरोनानन्दः कोह्येवान्यात्प्राणभृदत्र गतप्राण्यात् । भूमानन्दः प्रत्यगभिन्नः सकलात्मा तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३॥ आदित्यान्तर्यामिणमोश्वरमात्मेच्छु- र्गायत्र्यैवानन्यमिहान्वहमाराध्य । प्राप्नोत्याराद्विष्णुपदं तच्छिवसंज्ञं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ४॥ दुःखस्यान्तमभीप्सव एनं सद्रूपं ब्रह्माभिख्यं स्वात्मतया हृदि यं मत्वा । मुक्तिं यान्तीत्यत्र तु नान्योस्ति च पन्था तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ५॥ सत्यज्ञानानन्तरसोस्त्यपि चास्थूलो ह्रस्वोजो योऽणुत्वविहीनो न च दीर्घः । अद्वैतात्मकपूर्णशिवो यो ब्रह्माख्य- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ६॥ ध्यातृध्यानध्येयभिदां यः परिहत्य स्वस्थो भूत्वा केवल एकः परिशिष्टः । स्वानन्यत्वं पश्यति यज्ञस्समभक्त- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ७॥ यस्यैवैकम्पादममुं वै भुवनाख्यं त्यक्त्वा नानाकारतयैवत्रिभिरन्यैः । ऐक्यं लब्ध्वा भाति च योगी क्रमशोऽस्मिन् तं चिन्मात्रं साक्षिणमेकं शिवमीडे । ८॥ सर्वात्मस्थं स्वात्मतया सम्प्रतिपन्न- स्स्वास्थ्यं वै तत्सर्वतया च प्रतिपन्नः । पूर्णानन्दो मादृगनन्तः पुरुषस्स्या- त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ९॥ सर्वज्ञत्वं मायिकमीशे सन्त्यक्त्वा किञ्चिज्ज्ञत्वं तद्वदमुष्मिन्नपि जीवे । चिन्मात्रैकं पश्यति योगी लक्षणया तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १०॥ सर्वज्ञोऽपि स्वाधिकहीनः सकलज्ञः किञ्चिज्ज्ञोऽपि स्वयमिहहीनः किञ्चिज्ज्ञः । ज्ञानाज्ञानाभ्यामपि चान्यः परमात्मा तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ११॥ ओङ्कारार्थो हंसरहस्यः परिपूर्णः प्रत्यग्रूपो भाति च पञ्चाक्षरगम्यः । ईशस्सोऽस्मीत्येव समाध्या विदितस्स्या- त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १२॥ शैवागम्यो वैष्णवगम्यश्शिव एकः सर्वैरव्यैर्वेदमतस्थैर्न च शैवाद्- वैतध्यातृभिरेव तु सङ्गम्य- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १३॥ ज्योतिर्लिङ्गं स्वात्मनि दृष्ट्वा देहादीन् लोकान् हित्वाऽखण्डमनन्तं परिपश्यन् । जीवन्मुक्तोहङ्कृतहीनश्शिवयोगी तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १४॥ नित्यं शान्तं निर्गुणमार्यं निखिलस्थं दीपाकारं सद्गुरुतोऽयं मुद्रिकया । दृष्ट्वा नित्याभ्यासवशाद्यः परिपूर्ण- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १५॥ अक्षिण्येनं दक्षिण ईशं शशितुल्यं यं व्योम्न्येकीकृत्य शिवेतं परमे च । सर्वात्मानस्संसृतिपाशादिह मुक्ता- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १६॥ दृश्यो देहो नायमहं सत्सुखमात्रं चिद्रूपोऽस्मीत्यैक्यमुपेत्योपरि येन । संसारोत्थ शोकमनन्तं विजहाति तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १७॥ आकाशादीन् भूतविकारानपलाप्य स्वाधिष्ठानं शेषितमस्मीत्यचिरेण । ज्ञात्वा युक्त्या मुञ्चति चान्या इह वाच- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १८॥ ज्ञाते यस्मिन् सर्वविदं स्याद्विदितं स्या- दज्ञातेस्मिन् नैव समस्तं विदितं स्यात् । नानुध्यायाद्यद्विदसत्सबहुशब्दां- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडै ॥ १९॥ वाचं त्यक्त्वा सद्गुरुवक्त्राच्छुतिवाक्याद्- वक्तारं यं प्रत्यगमिख्यं परिपूर्णम् । लोकातीतं नैव विजानन् भवभाव- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २०॥ यो वै भूमा यस्सुखरूपः परमात्मा द्यावापृथ्वी चापि यदन्तर्गुणहीनः । प्राणप्राणो देह इहाहम्पदलक्ष्य- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २१॥ प्रागोङ्कारं षोडशधैव प्रविभज्य स्वत्वेनास्तान् भागचतुष्कं तुर्याशन् । सम्यक्पश्यंस्तत्र चतुर्थं पदमेनं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २२॥ यस्मिन्नोतं प्रोतमितीत्थं जगदेत- त्तात्पर्येणैवोपनिषद्भिः प्रतिपाद्यम् । सोहं नान्यः कश्चन मन्तो विदुरेवं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २३॥ अव्यक्तादप्यस्ति परो यः पुरुषोऽन्ते यस्मिन्नेतत्कल्पितमन्यैः श्रुतिहीनैः । ज्योतीरुपं भेदविहीनं परमार्थं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २४॥ तत्त्वं त्वं तत्सोऽहमहं सोऽस्म्यखिलात्मे- त्यैक्यं विद्वानत्र विदित्वा विमलात्मा । स्वात्मारामोऽखण्डरसात्मा श्रुतिसिद्ध- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २५॥ द्युभ्वादीनामायतनं यस्सकलाना- मात्मैतेषां प्राणभृतामप्यखिलात्मा । जीवेभ्योऽन्योऽप्यत्र यदन्ये न च जीवा- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २६॥ आनन्दो हि स्यात्प्रचुरोऽयं मयहन्तः पुच्छब्रह्मेत्याहुरसत्तच्छ्रुतिहानेः । नायं जीवः पञ्चमकोशोऽतीतत्वा- त्तं चिमात्रं साक्षिणमेकं शिवमीडे ॥ २७॥ कौक्षेयाग्निर्नैव च वैश्वानरशब्दो भूताग्निर्वानापि तदीयो न च देवः । शारीरो वा नासितु विमलः कूटस्थ- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २८॥ जीवाजीवावत्र शरीरे वसतो द्वा- वेको भुङ्क्ते कर्मफलं यस्त्वितरोऽस्मात् । ईशोऽनश्नन् पाययतीतरवाक्ये यं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २९॥ छान्दोग्ये हि श्रूयत एवं तत्सत्यं तत्त्वं पुत्रायारुणिवाक्यं निरवद्यम् । तन्निष्ठस्यात्र तथा मुक्त्युपदेशा- त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३०॥ अव्यक्तस्येवेक्षति कर्मानुपपत्ते- स्साङ्ख्योक्तस्याशब्दतयापि च जाड्येन । न ज्ञेयत्वं यस्य तु नोक्तानुपपत्ति- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३१॥ लीलारूपा कवदेषा खलु सृष्टिस्त्व- मीशस्यास्यां नैव फलं परितृप्तस्य । कर्मापेक्षं ज्ञानिषु लोके विषमत्वं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३२॥ औदासीन्यं वास्तवमात्मनि संसिद्धं स्रष्टुत्वादिशक्तिगधर्मोप्युपपन्नः । नाव्यक्तादेरित्युपदेशादसकृद्वै तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३३॥ जीवस्यैवोत्क्रान्तिरमुष्माद्गतिरेर्न लोकं प्रत्युष्यागतिरन्यस्य तु भूम्नः । निश्चेष्टत्वान्नापि च बुद्धेर्जडताया- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३४॥ संज्ञामूर्त्योः क्लृप्तिरधीशस्य हि कर्म त्रेधैकैकां कुर्वत एवं श्रुतिशब्दात् । यस्माजीवोऽनन्य इतीहाभ्युपगम्य- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३५॥ भूतैर्जीवोनन्तरदेहप्रतिपत्तौ रंहत्येवं कर्मफलानामुपभुक्त्यै । रेतस्सिग्योगोथ भविष्यत्यह यस्मा- त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३६॥ विद्याभेदो वेद्यभिदाप श्रुतिशीर्षै- र्नैवोच्येत प्राकृतदृष्टेस्सगुणा स्यात् । अन्या शैवी निर्गुणरूपा यदधीना तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३७॥ कार्योत्कर्षात्सर्वपदार्थे शिवदृष्टिस्तं वान्तेस्मिश्छास्ति च शास्त्रं सदयं यम् । विन्नो वेदोत्कर्षयनन्यप्यपकर्षं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३८॥ भूमानन्दस्सैन्धवतुल्यस्त्वविनाशः कूटस्थात्मा ह्यक्षररूपो क्षरगम्यः । यस्य ब्रह्मक्षत्रमपि स्यादशनार्थ तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३९॥ पुरुषस्यास्मिन्वागपि चित्ते चित्तं च प्राणे प्राणस्तेजसि तेजो विदुषोऽस्मिन् । यद्रूपं तदेहायोगेपरिलीनं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ४०॥ न्यूनाधिक्यं नोत्तरदक्षिणसंज्ञाभ्या- मुत्क्रान्तस्याप्यत्र विदुस्स्यादयनाभ्याम् । भित्वादित्यं गच्छति सिद्धं ब्रह्मस्थं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ४१॥ उत्पत्त्यादिव्याहृतिवर्जं त्वणिमादि- स्यादैश्वर्यं मुक्तभवानां विदुषां च । नावर्तन्ते लोकमिमं ते खलु शब्दा- त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ४२॥ इति ज्ञानवासिष्ठे चतुर्थपादे षष्ठाध्याये शिवमीडेस्तवः सम्पूर्णः । Proofread by Mohan Chettoor
% Text title            : Shivamide Stavah
% File name             : shivamIDestavaH.itx
% itxtitle              : shivamIDestavaH (jnAnavAsiShThe chaturthapAde ShaShThAdhyAye)
% engtitle              : shivamIDestavaH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : Jnanavasishtha
% Indexextra            : (Scans 1, 2)
% Latest update         : January 13, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org