पुष्पदन्तविरचितं श्रीशिवमहिम्नस्तोत्रम्
॥ ॐ नमः शिवाय ॥
॥ अथ श्री शिवमहिम्नस्तोत्रम् ॥
महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १॥
अतीतः पन्थानं तव च महिमा वाङ्मनसयोः
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २॥
मधुस्फीता वाचः परमममृतं निर्मितवतः
तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३॥
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन्वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४॥
किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगताम् (जगतः) ॥ ५॥
अजन्मानो लोकाः किमवयववन्तोऽपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद्भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६॥
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७॥
महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८॥
ध्रुवं कश्चिद्ब्रूते सकलमपरस्त्वं ध्रुवमिति
(ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं)
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।
समस्तेऽप्येतस्मिन्पुरमथन तैर्विस्मित इव
स्तुवन्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९॥
त्वात्मानं (तवैश्वर्यं) यत्नाद्यदुपरि विरिञ्चिर्हरिरधः (विरिञ्चो हरिरधः)
परिच्छेत्तुं यातावनिलमनल स्कन्धवपुषः । (यातावनिलमनल) (स्तम्भवपुषः)
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां त्वयि (तव) किमनुवृत्तिर्न फलति ॥ १०॥
अयत्नादापाद्य (अयत्नादासाद्य) त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् ।
शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ ११॥
अमुष्य त्वत्सेवासमधिगतसारं भुजवनं
बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।
अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः ॥ १२॥
यदङ्घ्रिं (यदृद्धिं) सुत्राम्णो वरद परमोच्चैरपि सतीं
अधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः (परिजनविधेयत्रिभुवनः) ।
न तच्चित्रं तस्मिन्वरिवसितरि त्वच्चरणयोः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः (शिरसित्वय्यवनतिः) ॥ १३॥
अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा
विधेयस्याऽऽसीद्यस्त्रिनयन विषं संहृतवतः ।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥ १४॥
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ १५॥
मही पादाघाताद्व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्ण ग्रहगणम् ।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत जटाताडित तटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६॥
वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।
जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७॥
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ १८॥
हरिस्ते साहस्रं कमलबलिमाधाय पदयोः
यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्र वपुषा (चक्रवपुषः)
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९॥
क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां
क्व कर्मप्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान प्रतिभुवं
श्रुतौ श्रद्धां बद्धा (बद्ध्वा) दृढपरिकरः कर्मसु जनः ॥ २०॥
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां
ऋषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।
क्रतुभ्रेषस्त्वत्तः (क्रतुभ्रंशस्त्वत्तः) क्रतुफलविधान व्यसनिनः
ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः ॥ २१॥
सतांवर्त्मत्यक्त्वा श्रुतिसमधिगम्यं सहभुवं
घृणामप्युन्मूल्य स्वजनविषयस्नेह गुणिताम् ।
द्विजः कृन्तन्पादे पितरमपराद्धं त्वयि विभो
मनुष्यत्वं सद्यस्त्रिदश परिणामेन विजहौ ॥ २२॥
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २३/२२॥
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदिस्त्रैणं देवी यमनिरतदेहार्ध घटनात्
अवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २४/२३॥
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २५/२४॥
मनः प्रत्यक्चित्ते सविधमविधायात्तमरुतः
प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गतिदृशः ।
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥ २६/२५॥
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥ २७/२६॥
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्ण विकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं(स्त) व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ २८/२७॥
भवः शर्वो रुद्रः पशुपतिरथोग्रः स च महांस् (सहमहान्)
तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन्प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहितनमस्योऽस्मि भवते ॥ २९/२८॥
नमो नेदिष्ठाय प्रिय वरदविष्ठाय च नमः
(नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः)
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः ॥ ३०/२९॥
बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः ।
प्रबलतमसे तत्संहारे हराय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ ३१/३०॥
कृशपरिणतिचेतः क्लेशवश्यं क्वचेदं
क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः ।
इति चकितममन्दीकृत्य मां भक्तिराधात्
वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३२/३१॥
वपुः प्रादुर्भावादनुतमितदं जन्मनि पुरा
पुरारे नक्वापि क्षणमपि भवन्तं प्रणतवान् ।
नमन्मुक्तः सम्प्रत्यहमलनुरग्रेऽप्यनतिमा
नितीश क्षन्तव्यं तदिदमपराधद्वयमपि ॥ ३३॥
असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
यदि लिखति गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ॥ ३४/३२॥
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौलेः
ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकलगुण(गण)वरिष्ठः पुष्पदन्ताभिधानः
रुचिरमलघुवृत्तं(त्तैः) स्तोत्रमेतच्चकार ॥ ३५/३३॥
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
पठति परमभक्त्या शुद्धचित्तः पुमान्यः ।
स भवति शिवलोके रुद्रतुल्यस्तथात्र
प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥ ३६/३४॥
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ ३७/३५॥
फलम् -
दीक्षा दानं तपस्तीर्थं ज्ञानं (स्नानं) यागादिकाः क्रियाः ।
महिम्न:स्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥ ३६॥
कुसुमदशननामा सर्वगन्धर्वराजः
शशिधरवरमौलेर्देवदेवस्य दासः ।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥ ३७॥
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः ।
व्रजति शिवसमीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ ३८॥
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् ।
अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ॥ ३९॥
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः ।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४०॥
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
या दृशोऽसि महादेव तादृशाय नमो नमः ॥ ४१॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ४२॥
श्री पुष्पदन्तमुखपङ्कजनिर्गतेन
स्तोत्रेण किल्बिषहरेण हरप्रियेण ।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३॥
॥ इति श्रीपुष्पदन्तविरचितं शिवमहिम्नस्तोत्रं सम्पूर्णम् ॥
Notes:
The Core Stotram is found in ŚivaRahasyam, Ugrākhyaḥ Saptamāṃśaḥ, Adhyāyaḥ 13, ślokaḥ 241-277 (शिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः १३ . श्लोकाः २४१-२७७).
Phalaśruti फलश्रुति is found in prevalent versions of the Stotram in many publications.
śloka-s from ŚivaRahasyam have been renumbered and given as preceding the numbering that is seen as followed in the prevalent versions.
Core Stotram in ŚivaRahasyam has two śloka-s more than the prevalent versions; viz, śloka number 22 (सतांवर्त्मत्यक्त्वा) and 33 (वपुः प्रादुर्भावादनुतमितदं)
Three additional śloka-s are found in as beginning of the Stotram in the publication ``Stotra Pāṭha Saṅgraha स्तोत्र पाठ सङ्ग्रह''.
ॐ नमः शिवाय ।
आधीनामगधं दिव्यं व्याधीनां मूलकृन्तनम् ।
उपद्रावाणां दलनं महादेवमुपास्महे ॥ १॥
अहं पापी पापक्षपण निपूणाः शङ्कर भवान् ।
अहं भीतो भीताभयवितरणे ते व्यसनिता
अहं दीनो दीनोद्धरण विधिसज्जस्त्वदितरत्
न जानेऽहं वक्तुं कुरु सकल शोच्ये मयि कृपाम् ॥ २॥
जनस्त्वदपादाब्जश्रवणमननध्याननिपुणाः
स्वयं ते विस्तीर्णा न खलु करुणा तेषु करणा ।
भवे लीने दीने मयि मननहीने न करुणा
कथं नाथ ख्यातस्त्वमसि करुणागार सागर इति ॥ ३॥
ॐ महिम्नः पारं ते ....
The publication named शिवरात्रि पूजा महिम्नस्तोत्र सहित; and the śloka number 30 (given below) is a variation of śloka renumbered as 33 from ŚivaRahasyam. Pages after śloka 35 seem to be missing in the scan.
वपुष्प्रादुर्भावादनुतमितदं जन्मनि पुरा
पुरारे ! नैवाहं क्वचिदपि भवन्तं प्रणतवान् ।
नमन्मुक्तः सम्प्रत्यतनुरहमग्रेप्यनतिमान्
महेश ! क्षन्तव्यं तदिदमपराधद्वयमपि ॥ ३०॥
Encoded by Devendraray V . Bhatt and S. V. Ganesan
Proofread by S. V. Ganesan, Ruma Dewan