शिवमहिमकलिकास्तुतिः

शिवमहिमकलिकास्तुतिः

यत्सर्वक्रतुफलदं यदखिलयज्ञादिकामहितम् । यत्सकलदेवरूपं ज्योतिस्तदुपास्महे सोमम् ॥ १॥ अविरकास्सोमभवानखिलागमविनुतसकलमन्त्राङ्गः ब्रह्माद्यास्तुगवादिवदमरास्सर्वे विकारास्ते ॥ २॥ सह वेदे पठ्यन्तां सहस्रमिष्टयादिवत्तया त्रिदश । न्यायविदो बुध्यन्ते तेषां सोमप्रधानं त्वां सर्वेश्वर नामैव स्फुटयति सर्वाधिपत्यमीश तव । वाजिन इव सोमपदं स्तुत्यर्थ केवलं तदन्यत्र ॥ ४॥ नामेदं त्वयि शिखया ह्यन्यसुरत्यागहेतुपरमुदितम् । नह्यत्रेतिवदीश्वर हेतुपरं नाविविक्षतस्वार्थम् ॥ ५॥ त्वत्तः किल जायन्ते प्रतिकल्पं ब्रह्माविष्णुरुद्रेन्द्राः । तेष्वपकृष्टेषु विभो न स्युस्तदधस्तनाः किमपकृष्टाः ॥ ६॥ आवापोद्वापाभ्यां प्रतिकल्पं देवताः पृथक् कुर्वन् । दुरधिगमविविधशक्तिविहरसि देव प्रतीष्टि वेद इव ॥ ७॥ त्वच्छक्तिविलासेन स्वस्वपदे देवता इति प्रथिताः । यागा इव शब्दविधौ न स्वव्यापारतशिव त्रिदशाः ॥ ८॥ यदुपहतशक्ति कः किल पुरहर शक्नोति किमपि विधातुम् । मन्त्रस्थयजत्यादिवदमरगणः कस्ततस्त्वदधिकस्स्यात् ॥ ९॥ त्वच्छक्त्यधिष्ठितत्वात्परभावस्स्फुरति पद्मजाध्येषु । वेदाक्षरमिश्रत्वाद्वेदत्वं ननु विभाति कल्प्येषु ॥ १०॥ त्वयि यागवत्प्रधाने स्थितेऽपि भगवन् धियैव संवेद्ये । स्थूलदृशां होमेष्विव गुणमूर्तिषु भासते प्रधानत्वम् ॥ ११॥ न परं गुणमूर्तिभ्यो विदन्ति दुर्दर्शरूपमबुधास्त्वाम् । हाविरन्तरालयुक्तं विधिमिव विष्ण्वादिवाक्येभ्यः ॥ १२॥ ज्योतिर्मये त्वयि सति त्रिदशगणोहर्गण इवास्माकम् । नोपचयार्थमुपास्यश्शतोक्थ्यगानामिवोक्थ्यानाम् ॥ १३॥ आश्रित्य हि लब्धपदा ज्योतिष्टोममिव सर्वफलदं त्वाम् । किञ्चित्किञ्चित्फलमिह संस्या इव देवताः प्रयच्छन्ति ॥ १४॥ आकाङ्क्षितं लभन्तां सोम सुरास्त्वत्प्रदिष्टमखिलमपि । न गवादिवल्लभन्ते त्वद्देयफलप्रधानसामर्थ्यम् ॥ १५॥ त्वामतियजेत भगवन् यदि कुलदैवतं द्विजातिकुरजातः । उभयभ्रष्टो नश्येदभ्युदयो पांशुयाजवज्जडः ॥ १६॥ ब्रह्मकुले जातोऽपि त्वद्भजनं निजमपास्य यो विकृतः । न ब्राह्मणस्य भगवन्नहमन्त्रो मन्त्रमध्यगोव्यूहः ॥ १७॥ ज्योतिष्टोममिव त्वां नित्यं यस्सर्गसद्भाव्यम् । अतिलन्घ्येतरजनं कुरुते न ततोस्ति निरयभागन्यः ॥ १८॥ अग्न्याद्या विष्ण्वन्तास्सर्वे देवाः परिग्राह्याः । सोम त्वामधिगन्तुं तपश्च नियमाश्च भूयांसः ॥ १९॥ दीक्षाभिरभिसमेतो विपश्चिदखिलाङ्गजातगोचरया । सोम त्वद्भावनया दुःखमसम्भिन्नसुखमुपैति पदम् ॥ २०॥ तन्त्राण्यङ्गानि तव स्वामिन् दीक्षाप्रधानानि । तन्निष्ठः क्रमशस्त्वामहीनमुख्ये प्रसाधनमुपैति ॥ २१॥ धर्मानुग्रहलाभाद् ब्राह्मणवर्गस्य वर्णसाम्याच्च । त्वद्धर्माः परमुचिता शिवाज्यधर्मा मधूदकस्सेवा ॥ २२॥ अनृतादिदूषितोऽहं विना तव परिग्रहं विरूपाक्ष । तव धर्मे तत्परतां न लभेय विधेरिवार्थवादांशः ॥ २३॥ अपराधनिरस्तमपि स्वीकुरु करुणानिधे पुनश्शिव माम् । विधितः प्रपद्यमानं हविरभ्युदयज्ञ दर्शवत्स्वामिन् ॥ २४॥ नाथ तव महिमकलिकाककुभः श्रुत्यन्तपारिजातभवा । सुरभयतु करुणया तव मीमांसान्यायपरिमिलोल्लासैः ॥ २५॥ इति श्रीमदप्पयदीक्षितविरचिता शिवमहिमकलिकास्तुतिः सम्पूर्णा । Proofread by Mohan Chettoor
% Text title            : Shivamahima KalikastutiH
% File name             : shivamahimakalikAstutiH.itx
% itxtitle              : shivamahimakalikAstutiH (appayyadIkShitavirachitam)
% engtitle              : shivamahimakalikAstutiH
% Category              : shiva, appayya-dIkShita
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scans 1, 2)
% Latest update         : January 13, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org