श्रीशिवनामावली
(पञ्चचामरम्)
अनादिमादिनायकं इभेन्द्रचर्मवाससम् ।
तमीश्वरं सदाशिवं नमाम्यहं महेश्वरम् ॥ १॥
उमेशमूर्ध्वरेतसं ऋषीश्वरादिवन्दितम् ।
तमेकदन्तवत्सलं नमाम्यहं महेश्वरम् ॥ २॥
तमैहिकप्रदं शिवं तमौषधीशभूषणम् ।
तमन्तकच्छिदं हरं नमाम्यहं महेश्वरम् ॥ ३॥
कपर्दिनं च कामदं किरातरूपधारिणम् ।
तथैव कीर्तिदं शिवं नमाम्यहं महेश्वरम् ॥ ४॥
कुमारतातमीश्वरं हिमाद्रिकूटवासिनम् ।
सदैव कृत्तिवाससं नमाम्यहं महेश्वरम् ॥ ५॥
खरत्नलोचनं शिवं खकुन्तलं च शङ्करम् ।
तथा च खेचरीपतिं नमाम्यहं महेश्वरम् ॥ ६॥
गजेन्द्रचर्मवाससं च गाङ्गवारिभूषणम् ।
गिरामधीश्वरं शिवं नमाम्यहं महेश्वरम् ॥ ७॥
नमामि घस्रलोचनं तथैव घर्घरीप्रियम् ।
तथा च घोररूपिणं नमाम्यहं महेश्वरम् ॥ ८॥
नमाम्यनङ्गनाशकं विहङ्गभक्ष्यभूषणम् ।
सदैव सङ्कटान्तकं नमाम्यहं महेश्वरम् ॥ ९॥
चकोरबन्धुशेखरं सुचारुचन्द्रभूषणम् ।
चिताविभूतिभूषितं नमाम्यहं महेश्वरम् ॥ १०॥
नमामि छत्रकप्रियं च छागवाहनस्तुतम् ।
त्रिमूर्तिमीश्वरं शिवं नमाम्यहं महेश्वरम् ॥ ११॥
जटाधरं च जाह्नवीशमीश्वरं जितेन्द्रियम् ।
तथैव जीवरक्षकं नमाम्यहं महेश्वरम् ॥ १२॥
झषध्वजान्तकं शिवं तथा च झर्झरप्रियम् ।
त्रियम्बकं त्रिलोचनं नमाम्यहं महेश्वरम् ॥ १३॥
अनेकपापसञ्चयान्तकं सदाशिवं हरम् ।
धनञ्जयास्त्रदायकं नमाम्यहं महेश्वरम् ॥ १४॥
नटं च नाटयदैवतं जटाधरं नटेश्वरम् ।
जटाटवीगलज्जलं नमाम्यहं महेश्वरम् ॥ १५॥
शठान्तकं च नीलकण्ठमीश्वरं स्मरान्तकम् ।
गजाजिनावगुण्ठितं नमाम्यहं महेश्वरम् ॥ १६॥
प्रचण्डताण्डवप्रियं मृडं मृकण्डुसंस्तुतम् ।
षडास्यतातमीश्वरं नमाम्यहं महेश्वरम् ॥ १७॥
नमामि ढुण्ढिराजतातमीश्वरं सदाशिवम् ।
भवान्तकं च भैरवं नमाम्यहं महेश्वरम् ॥ १८॥
नमामि रावणस्तुतं फणाधरेन्द्रभूषणम् ।
तथैव जिष्णुपूजितं नमाम्यहं महेश्वरम् ॥ १९॥
तपस्विगम्यमीश्वरं च ताण्डवप्रियं शिवम् ।
तुरीयधामदायकं नमाम्यहं महेश्वरम् ॥ २०॥
सदैव सत्पथप्रियं व्यथाहरं कथाप्रियम् ।
कृशानुरेतसं शिवं नमाम्यहं महेश्वरम् ॥ २१॥
दयार्णवं च दानवेन्द्रपूजितं दिगम्बरम् ।
सदैव दीनबान्धवं नमाम्यहं महेश्वरम् ॥ २२॥
धराधरेन्द्रनन्दिनीपतिं च धूर्जटिं तथा ।
भवान्तकं मखान्तकं नमाम्यहं महेश्वरम् ॥ २३॥
नगेशनन्दिनीपतिं च नागराजभूषणम् ।
सुनीलकण्ठमीश्वरं नमाम्यहं महेश्वरम् ॥ २४॥
परेशमीश्वरं शिवं च पार्वतीपतिं तथा ।
पिनाकपाणिमीश्वरं नमाम्यहं महेश्वरम् ॥ २५॥
सुपीतसर्पभूषितं पुरत्रयादिनाशकम् ।
सुरेन्द्रपूजितं शिवं नमाम्यहं महेश्वरम् ॥ २६॥
फणीन्द्रभूषणं हरं नटेश्वरं च शङ्करम् ।
सदाशिवं त्रिलोचनं नमाम्यहं महेश्वरम् ॥ २७॥
सदैव बिल्वपूजितं बुधार्चितं पुरच्छिदम् ।
तथैव बन्धमोचकं नमाम्यहं महेश्वरम् ॥ २८॥
भवं च भासुरं तथा सदैव भीमशङ्करम् ।
भुजङ्गभूषणं शिवं नमाम्यहं महेश्वरम् ॥ २९॥
महेश्वरं च मानदं च मित्रचन्द्रलोचनम् ।
तथैव मुक्तिदं मृडं नमाम्यहं महेश्वरम् ॥ ३०॥
नमामि यज्ञनाशकं च यामिनीशभूषणम् ।
युगान्तवह्निलोचनं नमाम्यहं महेश्वरम् ॥ ३१॥
रतिप्रियान्तकं शिवं च रामशत्रुपूजितम् ।
सदैव रुद्रमीश्वरं नमाम्यहं महेश्वरम् ॥ ३२॥
ललाटपट्टपावकं तथैव लासकं शिवम् ।
सदैव शम्भुमीश्वरं नमाम्यहं महेश्वरम् ॥ ३३॥
वसन्तमित्रदाहकं विभूतिदेहभूषणम् ।
वृषध्वजं च शङ्करं नमाम्यहं महेश्वरम् ॥ ३४॥
शशाङ्कमौलिमीश्वरं च शाम्भवीप्रियं शिवम् ।
तथैव शूलधारिणं नमाम्यहं महेश्वरम् ॥ ३५॥
षडास्यतातमीश्वरं च षाडवप्रियं हरम् ।
कपालिनं स्मरान्तकं नमाम्यहं महेश्वरम् ॥ ३६॥
सदाशिवं च सिद्धिदं सुरासुरेन्द्रपूजितम् ।
सदैव सोमनायकं नमाम्यहं महेश्वरम् ॥ ३७॥
हरं हिमाद्रिजापतिं तथा च हीरकप्रभुम् ।
हुताशनेक्षणं हरं नमाम्यहं महेश्वरम् ॥ ३८॥
शताधिकां शिवाभिधानमालिकां पठेन्नरः ।
सुखं लभेत जीविते स शङ्करप्रसादतः ॥ ३९॥
अकारादि-हकारान्तं मातृकावर्णसंयुतम् ।
शिवस्तोत्रमिदं पुण्यं यः पठेत् स भवेत् सुखी ॥ ४०॥
शिवनामावली दिव्यां महादेवेन गुम्फिताम् ।
यः कण्ठे धारयेद् रम्यां शिवस्तस्य प्रसीदतु ॥ ४१॥
इति श्री आपटीकरविरचिता श्रीशिवनामावली समाप्ता ।
Encoded and proofread by Mandar Mali aryavrutta gmail.com